वासव
vāsavaपुं · masc.In 20 kośas: 20 synonym verses, 2 as a nānārtha head word, 17 as a meaning of another word.
इन्द्रो हरिर्दुश्च्यवनोऽच्युताग्रजो वज्री विडौजा मघवान्पुरंदरः ।प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ १७१ ॥सुत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ ।पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुराषाट् ॥ १७२ ॥सुरर्षभस्तपस्तक्षो जिष्णुर्वरशतक्रतुः ।कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः ॥ १७३ ॥पृतनाषाडुग्रधन्वा मरुत्वान्मघवास्य तु ।
इन्द्रवंशा
इन्द्रपुंहरिपुंदुश्च्यवनपुंअच्युताग्रजपुंवज्रिन्पुंविडौजस्पुंमघवन्पुंपुरंदरपुंप्राचीनबर्हिस्पुंपुरुहूतपुंवासवपुंसंक्रन्दनपुंआखण्डलपुंमेघवाहनपुंसुत्रामन्पुंवास्तोष्पतिपुंदल्मिपुंशक्रपुंवृषन्पुंशुनासीरपुंसहस्रनेत्रपुंपर्जन्यपुंहर्यश्वपुंऋभुक्षिन्पुंबाहुदन्तेयपुंवृद्धश्रवस्पुंतुराषाह्पुंसुरर्षभपुंतपस्तक्षपुंजिष्णुपुंवरपुंशतक्रतुपुंकौशिकपुंपूर्वदिक्पतिपुंदेवपतिपुंअप्सरःपतिपुंस्वर्गपतिपुंशचीपतिपुंपृतनाषाह्पुंउग्रधन्वन्पुंमरुत्वत्पुं
genderपुंmasc.
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
अनुष्टुप्
इन्द्रपुंमरुत्वत्पुंमघवन्पुंबिडौजस्पुंपाकशासनपुंवृद्धश्रवस्पुंसुनासीरपुंपुरुहूतपुंपुरन्दरपुंजिष्णुपुंलेखर्षभपुंशक्रपुंशतमन्युपुंदिवस्पतिपुंसुत्रामन्पुंगोत्रभिद्पुंवज्रिन्पुंवासवपुंवृत्रहन्पुंवृषन्पुंवास्तोष्पतिपुंसुरपतिपुंबलारातिपुंशचीपतिपुंजम्भभेदिन्पुंहरिहयपुंस्वराज्पुंनमुचिसूदनपुंसंक्रन्दनपुंदुश्च्यवनपुंतुराषाह्पुंमेघवाहनपुंआखण्डलपुंसहस्राक्षपुंऋभुक्षिन्पुंपुलोमजास्त्रीशचीस्त्रीइन्द्राणीस्त्रीअमरावतीस्त्री
genderपुंmasc.
इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वासुदेवं धनिष्ठा च श्रविष्ठा वासवं वसु ।शतभिषा वरुणं चैव वारुणं शततारका ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
आखण्डलः सुरपतिः सुरेशमनुवासवाः ।तिथिः पंचदशः प्रोक्ता नृपभूपति षोडशः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
वृत्रो घनाघनः शक्रः सुनासीरः पुरंदरः ।पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
सावित्रो वासवश्चाथ वैराजश्च जयन्तकः ।आप्योऽथ विश्वो गान्धर्वो वेधास्तु कुतपोऽभिजित् ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
पृश्निगर्भ-शतधाम-बभ्रवोदैवकेय-यदुनाथ-वेधसः ।वासुदेव-जलशायि-वासवःकैटभारि-मधुवैरि-जिष्णवः ॥ १६ ॥
रथोद्धता
genderपुंmasc.
इन्द्रे शक्र-शचीश-देवऋषभ-स्वाराट्-स्वराधीश्वराजम्भाराति-पुलोमजिन्-नमुचिभित्-सुत्राम-गोत्रारयः ।सुत्रामा बलभित् सहस्रनयनो वास्तोष्पतिर्वासवःस्युर्मेघंकर-मेघवाहन-हरि-प्राचीश-संक्रन्दनाः ॥ ९३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गुग्गुलौ तु पुरो दुर्गो महिषाख्यः पलङ्कषः ।जटायुः कालनिर्यासो वासवोलूकनामकः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
शुक्रे कविः शुचिः काव्यः पूर्वदेवपुरोहितः ।गुरौ बृहस्पतिः सूर्यः सुरेज्यः सूरिवासवौ ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
विडौजाश्चाप्सरोनाथो वासवो हरिवाहनः ।मरुतश्च मरुत्वाँश्च वृषा चैरावणाधिपः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
सूत्रामा वासवो मेघवाहनोऽपि शतक्रतुः ।वास्तोष्पतिर्वृषा दल्मिजिष्णू वरक्रतुः पुनः ॥ ५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
वृत्रहा वासवः शक्रः शतमन्युः सहस्रदृक् ।वास्तोष्पतिर्नाकिपतिर्वृषाजिष्णुर्दिवस्पतिः ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रः पुरंदरः शक्रो वासवः पाकशासनः ।संक्रन्दनः सहस्राक्षः सुत्रामा मघवा वृषा ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
बिडौजा मधवान् शक्रः पुरन्दरश्च वासवः ।आखण्डलः सहस्राक्षः सुत्रामा च सुरर्षभः ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्द (wrong syllable)
genderपुंmasc.
सुरा-मदिरा मद्वरी मदना मद्य-बीजके ।नग्नहूर्नग्नहुर्मध्यसन्धाने, भिष-वासवौ ॥ ३३७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवःशक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा ।सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकःस्वाराड्दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
इन्द्रो दुश्च्यवनो वज्री वृत्रारिर्वासवो वृषा ।वृद्धश्रवाः शुनासीरः सहस्राक्षो दिवस्पतिः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वासवो वैष्णवस्त्वाष्ट्रः सौम्यो माधुरवेजनौ ।संघातिकारणिर्न क्ली कुशा वरुणकाष्ठिका ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
वासवस्तु पुमानिन्द्रे द्वादशे चाप्यरत्निके ।भवेत् सप्तदशारत्नेर्यूषस्य स्यात् तु भेद्यवत् ॥ १६७६ ॥
अनुष्टुप्
वसुसम्बन्धिनि द्वे तु वातिको विषवैद्यके ।त्रि तु वातस्य शमने कोपने चापि वस्तुनि ॥ १६७७ ॥
अनुष्टुप्
meaningsवसुसम्बन्धिन्
doubtful
वासव as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) हरिअर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥ Abhidhānaratnamālā (Halāyudha) 5.856
- धरणिकोश अर्कछेको विदग्धश्छेकाः स्युर्गृहासक्तमृगाण्डजाः । अर्कः स्यात्स्फटिके सूर्ये अर्कपर्णे च वासवे ॥ Dharaṇikośa 1.2.6
- कोषकल्पतरु उलूकनालीकं कमलगणेऽन्तिमेऽथ बाणे ना शिल्पिन्यथ[253b]कुलशीलयोरनूकम् । पुंसि स्याद्गतजननेऽथ वासवे स्या- द्घूके स्यादपि कुरुवीरकेऽप्युलूकः ॥ ८२ ॥ Koṣakalpataru 6.1.82
- कोषकल्पतरु जिष्णुकृष्णो विष्णुपराशरात्मजसुभद्रेशेषु काके पिके स्त्री द्राक्षाद्रुपदात्मजामगधजानीलीषु षण्ढे पुनः । लोहे स्यान्मरिचे च मेचकवति त्रय्यां च जिष्णुः पुनः कृष्णे भास्वति वासवे च विजये जेतर्यसौ वाच्यवत् ॥ १३ ॥ Koṣakalpataru 6.15.13
- कोषकल्पतरु प्रेत्वन्शक्रे च यक्षे भुजगे च वर्णे द्युवा रवौ चाभिगमे च पुंसि । स्युर्वाजिनो बाणविहंगमाश्वाः प्रेत्वा तु वायावपि वासवे च ॥ ८४ ॥ Koṣakalpataru 6.21.84
- कोषकल्पतरु ललो वासवे स्याल्लवणेऽथ लूः स्या- ल्लावे तथा छेदनयोश्च * * । श्लेषे तनोर्लीर्- Koṣakalpataru 6.28.1
- परमानन्दीयनाममाला कपिलकशिपुर्भोजने वस्त्रे करीरः स्याद्द्रुमान्तरे । कलशे वैणवाङ्कूरे कपिलो वासवे मुनौ ॥ ११५ ॥ Paramānandīyanāmamālā 5.7.115
- परमानन्दीयनाममाला जिष्णुअर्जुने वासवे देवपादपेऽथ जलं जडे । जले जिह्मोऽसमे मन्दे जिह्मं तगरपादपे ॥ १९६ ॥ Paramānandīyanāmamālā 5.13.196
- परमानन्दीयनाममाला पर्जन्यप्रकाशः प्रकटे रोगे प्रद्योते पुंगवो गवि । शब्दोत्तरस्थितः श्रेष्ठे पर्जन्यो वासवेन्द्रयोः ॥ ३०६ ॥ Paramānandīyanāmamālā 5.19.306
- शारदीयाख्यनाममाला हरिअर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ १२९ ॥ Śāradīyākhyanāmamālā 3.5.129
- शब्दरत्नावली भूरिकट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् । त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥ भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके । भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥ भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् । पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥ Śabdaratnāvalī 7.27.27
- शब्दरत्नाकर पर्जन्यपर्जन्यो वासवे गर्जदभ्रे जीमूतनिस्वने । प्रलयो मूर्च्छने श्लेषे संवर्ते मरणेऽपि च ॥ २१२० ॥ Śabdaratnākara 4.1.2120
- शब्दरत्नाकर घनाघनचन्द्रार्कयोर्ग्रहपतिः शंकरेऽपि गणेश्वरः । वर्षुकाब्दे मत्तगजे वासवे च घनाघनः ॥ २२०८ ॥ Śabdaratnākara 4.1.2208
- त्रिकाण्डशेष इन्द्रआसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले । आरः शनैश्चरे भौमे इन्द्र आत्मनि वासवे ॥ ३३१ ॥ Trikāṇḍaśeṣa 3.3.331
- त्रिकाण्डशेष शक्रगजभूषा च शृङ्गारः शुषिरं गर्तवाद्ययोः । कुटजे वासवे शक्रो वरीशच्योः शतावरी ॥ ३७७ ॥ Trikāṇḍaśeṣa 3.3.377
- त्रिकाण्डशेष नवध्रुवो वटे स्मरारौ च गीतिस्रुग्भेदयोर्ध्रुवा । धवो धूर्त्तेऽप्यथ नवो नूतने वासवे स्तुतौ ॥ ४१७ ॥ Trikāṇḍaśeṣa 3.3.417
- वैजयन्ती घनाघनघनाघनो मत्तगजे वासवे वार्षुकांबुदे । चक्रपादौ रथगजौ चित्त्रभानू इनानलौ ॥ २२ ॥ Vaijayantī 8.1.22