कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कर

karaपुं · masc.

In 25 kośas: 60 synonym verses, 10 as a nānārtha head word, 32 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.100 · p. 8
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.591 · p. 26
प्रगण्डः कूर्परांसान्तः पञ्चशाखः शयः शमः ।हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.528 · p. 31
बलिः करो भागधेयो द्विपाद्यो द्विगुणो दमः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.12 · p. 47
हस्तिनासा करः शुण्डा हस्तोऽस्याग्रं तु पुष्करम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.33
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः ।भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.43
द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.39 · p. 6
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
स्वागता
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.433 · p. 50
रक्षिवर्गो ह्यनीकस्थः सेनानीर्वाहिनीपतिः ।अर्थागमो भवेदायो भागधेयो बलिः करः ॥ ४३३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.511 · p. 58
अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥
गीतिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.536 · p. 61
मध्याङ्गुलीकूर्परयोर्मध्ये प्रामाणिकः करः ।बद्धमुष्टिकरो रत्निररत्निः सकनिष्ठिकः ॥ ५३६ ॥
अनुष्टुप्
genderपुंmasc.
वर्षोपले निगदिताः करका करकः करः ।रात्रिंचरो रात्रिचरः क्रव्यात् क्रव्याद उच्यते ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात शतसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 16.29 · p. 201
जपमाला-मणिहारस्रजो-ऽस्ररुक्-कीचकाः-शतप्रमिताः ।अहिपतिमुख-गङ्गामुख-पङ्कजदल-करेन्द्रनेत्राणि ॥ २९ ॥
metre not recognised
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.9 · p. 1
उग्रार्यमास्ततो हस्त अर्कं चैव तथार्कभम् ।करं सवित्तृ सूर्यर्क्षं चित्रा त्वाष्ट्रं चत्वष्ट्रभम् ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.20 · p. 2
द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः ।यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.5 · p. 20
पादः करोंशुमाला च प्रभामालेति कथ्यते ।संज्ञा स्वरेणुका मायामयी चापि सुवर्चला ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.172 · p. 39
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।पञ्चशाखः शयः पाणिः करो हस्तः शलः करिः ॥ १७२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.104 · p. 100
कारः करो नाथोद्दानं बन्धनं शुल्कमस्त्रियाम् ।घट्टादिदेये द्रव्ये स्यादथापि द्विविधं भयम् ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.158 · p. 397
अम्भोबीजस्य पर्यायः स्याद्द्वयोः करकः करः ।क्लीबे बीजोदकं वर्षा बीजपर्यायमित्यपि ॥ १५८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.14 · p. 437
अश्मनो रमणस्तार्क्ष्यो वैनतेयो जटायुसूः ।गभस्तिर्ना घृणिः पादः करः प्रग्रह इत्यपि ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.44 · p. 31
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
मालिनीmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.80 · p. 127
करः कुलिः पालन-पञ्चशाख-भुजादलाः पाणि-शयौ शमश्च ।हस्तोऽस्त्रियामस्य पुनर्मणिः स्या-दादिस्तथासौ मणिबन्ध उक्तः ॥ ८० ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 250
करो बलिर्भागधेयी द्वयोर्धर्मादितः पुनः ।शौचाशौचपरिज्ञानममात्यानां मतोपधा ॥मायोपेक्षेन्द्रजालानि क्षुद्रोपाया अमी त्रयः ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.94 · p. 252
हस्तिनासा करः शुण्डा तद्धस्ताग्रं तु पुष्करः ।विषाणौ त्रिषु दद्दन्तौ करीरं दन्तमूलकम् ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 45 · p. 23
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 101 · p. 50
दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा ।प्राहुर्बाहुशिरोऽंसश्च हस्तशाखा कराङ्गुलिः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.92 · p. 16
किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः ।पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.140 · p. 69
[39] शुण्डा हस्तः करो हस्तिनासा स्यादथ पुष्करम् ।शुण्डाग्रं चाथ दन्तौ तु विषाणो स्कन्ध आसने ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.254 · p. 132
करः पाणिः शयो हस्तपञ्चशाखावपीरितौ ।मणिबन्धो मणिः प्रोक्तः करभस्त्वाकनिष्ठकम् ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.364 · p. 147
अपराधो व्यलीकं च मन्तुः स्याद्विप्रियागसी ।भागधेयो बलिश्चैव करे सेना पताकिनी ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.15 · p. 27
प्राकारे तु करः कारो वप्रो वरण इत्यपि ।गृहे तु वस्त्यं सं(प?)स्त्यं च वास्तु वासो निवासनम् ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.74 · p. 35
समाजस्त्वन्यजन्तूनां निकायः समवृत्तिनाम् ।धान्यादिवृन्दे राशिः स्यादुत्करश्च करो विसत् (?) ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.185 · p. 49
स्याद्देवदारुनिर्यासकृतधूमे तु पायसः ।वृकधूपः श्रीनिवासः श्रीवेष्ट्यः(ष्टः?) श्रीकरः करः ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.273 · p. 59
राज्ञां क्षेत्रादिभागे तु भागधेयं बलिः करः ।नद्यादितरणादौ यद्द्रव्यं शुल्कं तदिष्यते ॥ २७३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.28 · p. 126
कमन्धश्च कबन्धश्चोदः कं चाप्युदकं तथा ।करं च पुष्करं चापि पाथः पाश्चार्ण इत्यपि ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.91 · p. 7
हस्तः करः शयः पाणिर्बाहुः पञ्चशिफो भुजः ।अङ्गुष्ठोऽङ्गुलिभूपालः तर्जन्याद्या प्रदेशिनी ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.233 · p. 16
नृयानं दोलिका दोली भूपयानं चतुष्किका ।अपराधो मन्तुरागो दण्डो भूपवलिः करः ॥ २३३ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.317 · p. 22
गृणिर्गभस्तिः किरणो दीधितिश्चरणो वसुः ।रश्मिर्मरीचिरुस्रोंऽशुः करो भानुः प्रकाशकः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.4 · p. 36
भानोः करो मरीचिः स्यान्मयूखो विश्वविक्रमः ।मेघसूश्च जलग्राही वेदरश्मिः घृणिः करः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.70 · p. 8
नक्षत्रमृक्षं भं धिष्ण्यं तारा ज्योतिरुडुर्ग्रहः ।मयूखः किरणो भानुर्मरीचिर्दीधितिः करः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.35 · p. 23
हस्तः करः शयः पाणिः पञ्चशाखश्च स स्मृतः ।अङ्गुल्यः करशाखाः स्युस्तथाङ्गुष्ठाङ्गुलौ समौ ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.951 · p. 145
करो हस्तः शमः पाणिः पञ्चशाखः शयः सलः ।भुजदलश्च नामानि करस्य मन्यते बुधैः ॥ ९५१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1041 · p. 190
करो बलिर्भागधेयो द्विपाद्यो द्विगुणो दमः ।
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2214 · p. 363
गजशूण्डजलबिन्दौ वमथुः करशीकरः ।हस्तिनासा करो हस्तः शुण्डा च गजनासिका ॥ २२१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.242 · p. 17
रश्मिर्भानुः करोऽभीषुर्महो ज्योतिर्महोऽपि च ।तथा रोचिः शोचित्विषी त्विषा पृश्निरपि स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.207 · p. 125
अथापराधो मन्तुः स्यात्तथागः त्वग इत्यपि ।अथ बन्धनमुद्दानं बन्धः संयमनन्तथा ॥उचिताद्द्विगुणो दण्डो द्विपाद्यमभिधीयते ।राजग्राह्ये तु भागे स्यात् भागधेयो बलिः करः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.56 · p. 181
काली वृष्ट्यां वर्षणं स्याद्वर्षं तद्विघ्नके त्ववात् ।ग्रह-ग्राहौ, घनोपले तु करः करकस्त्रिषु ॥ ५६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 प (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.169 · p. 202
प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका ।हस्ते करः करिर्हस्तमूले तु मणिबन्धवत् ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.255 · p. 209
शौर्ये शौण्डीर्य-शौण्डीरे नय-न्यायौ समञ्जसे ।भागधेयो भागधेयी भागोऽपि कारवत् करः ॥ २५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.165 · p. 22
वसुपादकराभीशुरश्मिप्रग्रहभानवः ।दीधितिः स्त्री मरीचिः स्त्रीपुंसोस्तासु सहस्रके ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.216 · p. 29
तुषारः शीकरो बिन्दुः पृषतो विप्रुषः स्त्रियः ।पृषन्ति मेघपाषाणे करो ना करकाः स्त्रियाम् ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.288 · p. 39
विषयेन्द्रियं हृषीकमथ ज्ञानेन्द्रियं मनः ।श्रुतिस्त्वग्रसना दृष्टिर्नासाथ चरणौ करौ ॥ २८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द्रि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1071 · p. 133
पार्श्वमस्त्री कफोणिस्तु कूर्परस्तस्य तूपरि ।प्रकाण्डस्तदधः पुंसि प्रकोष्ठोऽथ करः शयः ॥ १०७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1288 · p. 157
द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके ।बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 34 · p. 533
द्वयोर्मरीचिः किरणो भानुरुस्रः करः पदम् ॥ ३४ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.45 · p. 107
पर्याहारः प्रजास्वायो भागधेयो बलिः करः ।उपदा तूपहारः स्यादुपग्राह्यमुपायनम् ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.33 · p. 125
सांवत्सरः कृष्णशालिर्बालकश्चावरोहकः ।श्वेतशालोऽपौरशूरचपलाः करसूकरौ ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.76 · p. 165
पाजो वाजोऽप्योदनोऽस्त्री भिस्सा स्त्री दीदिविर्न षण् ।पुन्नपुंसकयोश्चोरं करमाहार्यमित्यपि ॥ ७६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.71 · p. 178
स्कन्धो दोः शिखरोंऽसोऽस्त्री बाहा बाहुभुजौ न षण् ।दोर्न स्त्री करपोणिर्ना हरणः करणः प्लवः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.73 · p. 179
मणिबन्धो मणिः पाणिमूले पाणौ करः शयः ।पंचशाखस्तलो हस्तस्तर्जनी तु प्रदेशिनी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.164
ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ १६४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.1 · p. 165
अरमङ्गे रथाङ्गस्य शीघ्रं स्याच्छीघ्रगोऽप्यरम् ।करो राजप्रदो यः स्याद्रश्मौ हस्ते घनोपले ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.97 · p. 302
अरिस्तु शत्रौ चरमे तु चक्रेकरस्तु वर्षोपलपाणिवाची ।मयूखशुण्डानृपदेयभागेचरः स्पशे जङ्गमके चले च ॥ ९७ ॥
उपेन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.138 · p. 55
तिलकाख्यस्य पुष्पस्य गन्धे तद्वति तु त्रिषु ।अव्यक्तमधुरे शब्दे मूकेऽप्यथ करो नरे ॥ १३८ ॥
अनुष्टुप्
meaningsनर
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.139 · p. 55
रश्मौ पाणौ महीपस्य भागधेये घनोपले ।अजयस्त्वाह मुद्रायां हिंसाविक्षेपयोरपि ॥ १३९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.140 · p. 55
श्वेतशालौ गजघ्राणे क्ली तु वारिदकार्मुके ।कल्कस्तुरुष्कसंज्ञाकनिर्यासे ना न तु स्त्रियाम् ॥ १४० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.104 · p. 174
करो मेघोपले रश्मौ शुण्डायां हस्तिनोऽपि च ।हस्तेऽप्यथ कुलं देहे गेहे शातिचये चये ॥ १०४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.7 · p. 264
ऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि ।ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥करो रश्मौ च करके शुण्डप्रत्यायपाणिषु ।कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् ।कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी ।क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि ।कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति ।क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च ।चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ।खुरः शफे कोलदले तथा छेदनवस्तुनि ॥क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च ।खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1881 · p. 229
करिगण्डे शवे श्रोण्यां कलिञ्जे च भृशे कटः ।मेघाश्मनि बलौ हस्ते करिहस्ते घृणौ करः ॥ १८८१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.10 · p. 214
ओघः परंपरायां स्याज्जलस्रोतसि संचये ।करो घनोपले हस्ते प्रत्याये रश्मिशुण्डयोः ॥ १० ॥
अनुष्टुप्

कर as a meaning in nānārtha verses