कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दिव्या

divyāस्त्री · fem.

In 5 kośas: 9 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.145 · p. 264
कायस्था श्रेयसी दिव्या जीवन्यपि हरीतकी ।त्रिषु नामस्थानजातिभेदाद्गुणभिदः क्रमात् ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.353 · p. 288
दुर्मरा भार्गवी भद्राऽनन्ता दिव्या सितच्छदा ।गौरा विघ्नेशानकान्ताऽमृता स्वच्छेक्षुपर्विका ॥ ३५३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.403 · p. 294
वन्ध्यकर्कोटकी वन्ध्या मनोज्ञा कन्दवल्लरी ।पन्था दिव्या पत्रदात्री भूतहन्त्रीश्वरी च सा ॥ ४०३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.498 · p. 304
वृष्या दिव्या द्वीपिशत्रुर्द्वीपिका वरकण्टकी ।नारायणी सूक्ष्मपत्रा शतह्वा सुरसापि च ॥ ४९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.541 · p. 309
जीवनी तु महामेदा देवेष्टा पांशुरागिणी ।वसुच्छिद्रा देवगन्धा दिव्या देवमणिश्च सा ॥ ५४१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.555 · p. 311
मण्डूकजननी मेध्या वीरा दिव्याऽपरा च सा ।सूक्ष्मपत्रा लघुब्राह्मी जलजाऽप्यथ कामिनी ॥ ५५५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 155
तिष्या तिष्यफला धात्री वयस्था चामृतोद्भवा ।शिवा वृष्यफला वृष्या दिव्या सीधुफलापि सा ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 161
कपोतवक्रा ब्राह्मी तु ब्रह्मसोमा सरस्वती ।मेध्या सत्यवती दिव्या वयःस्था सोमवल्ल्यपि ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्पलिनी Utpalinī · व्याडि Utpalinī 26 · p. 47
genderस्त्रीfem.
शिवकोष Śivakoṣa · शिवदत्तमिश्र यद्विः Śivakoṣa 21.1.342 · p. 31
दिव्यं कोले लवे सूते शिवे ब्राह्म्यां तु योषिति ।दीप्यो यवान्यां मोदायां धन्या धात्र्यां वितुन्नके ॥ ३४२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.18 · p. 258
भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् ।दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति ।दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु ।दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः ।दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु ।धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः ।नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः ।नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु ।पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every line