कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नभश्चर

nabhaścaraपुं · masc.

In 7 kośas: 4 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

गणितनाममाला Gaṇitanāmamālā · हरदत्त ग्रहनामानि Gaṇitanāmamālā 14.77 · p. 5
वियद्गो गगनश्चारी गगनगो नभश्चरः ।तथा गगनवर्त्मा च द्युगामी च मरुत्पथी ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.304 · p. 21
नभश्चरो वायुदारुः खतमालः पयोधरः ।व्योमधूमो जलमसिर्जलमुग्गगनध्वजः ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण अन्तरिक्षाधिकारो द्वितीयस्सर्गः Śabdacandrikā 2.2 · p. 36
सूर्यो भानुर्दिवाधीशः पद्मबन्धुर्विरोचनः ।वेदमूर्तिर्विश्वकर्मा कोकबन्धुर्नभश्वरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.177 · p. 13
धाराधरो वायुदारुः स्तनयित्नुर्नभश्चरः ।मुदिरः कन्दरः कन्द्यो नीरदो गगणध्वजः ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.5 · p. 332
धुरन्धरस्तु धूर्वहे धवाभिधे तथा द्रुमे ।नभश्चरो घनेऽनिले विहङ्गमे कटप्रुवि ॥ ५ ॥
पञ्चचामरम्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.130 · p. 275
धृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि ।नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले ॥निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु ।वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.361 · p. 218
धान्योत्क्षेपे निकारः स्याद्गुडूच्यामपि निर्जरा ।नभश्चरौ पक्षिदेवौ पांशुला च निशाचरी ॥ ३६१ ॥
अनुष्टुप्

नभश्चर as a meaning in nānārtha verses