All kośas › Pañcatattvaprakāśa
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa
409 verses · 3,817 words tagged · 962 marked doubtful (dashed)
जलभानुः
इति श्रीयाज्ञिकवंशावतंसनीलकण्ठात्मजजगज्जीवनसूनुवेणीदत्तविरचिते पञ्चतत्त्वप्रकाशे भूमिभानुः प्रस्फूर्त्तिमगमत् ।
समुद्रः सागरः सिन्धुः सरस्वानर्णवोऽम्बुधिः ।अकूपारो जलनिधिः पारावारः पयोनिधिः ॥ २७८ ॥
3.278 · p. 20
अनुष्टुप्
रत्नाकरः सरिद्भर्त्ता यादोनाथो हिमांशुभूः ।सूधा पीयूषाममृतं सुरान्धः षड्रसाधिकम् ॥ २७९ ॥
3.279 · p. 20
अनुष्टुप्
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
3.280 · p. 20
अनुष्टुप्
शम्बरं कमलं नीरं कीलालं पुष्करं नलम् ।जलपर्यायपतिः पाशी जनपर्यायधरोऽम्बुदः ॥ २८१ ॥
3.281 · p. 20
अनुष्टुप्metre not read in every line
जलपर्यायनिधिर्वाधिर्जलपर्यायभवं कजम् ।ऊर्मिस्तरङ्गो लहरी वीचिर्भङ्गिर्जलोद्गतिः ॥ २८२ ॥
3.282 · p. 20
अनुष्टुप्metre not read in every line
महाकल्लोल उल्लोलो जलावर्त्तोऽम्बुसम्भ्रमः ।नदी धुनी द्वीपवती निम्नगा तटिनी सरित् ॥ २८३ ॥
3.283 · p. 20
अनुष्टुप्
आपगा वाहिनी सिन्धुः स्रवन्ती वक्रगामिनी ।गङ्गा भागीरथी देवनदी त्रिपथगामिनी ॥ २८४ ॥
3.284 · p. 20
अनुष्टुप्
भीष्मसूर्जह्नुतनया त्रिस्रोता विष्णुपज्जनुः ।कालिन्दी यमुना श्यामा सूर्यपुत्री यमस्वसा ॥ २८५ ॥
3.285 · p. 20
अनुष्टुप्
महास्रोतस्वतः सिन्धुरटको विप्रनिन्दितः ।ब्रह्मपुत्रो ब्रह्मभद्रो नैलाद्रेयो हरित्प्रभः ॥ २८७ ॥
3.287 · p. 20
अनुष्टुप्
स्वर्णबाहुर्गुप्तकरः शोणो वेलाप्रवाहकः ।जलबिन्दुर्जलकणो विप्रुषः पृषतः पृषत् ॥ २८८ ॥
3.288 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्गु (wrong syllable)
कूलं तीरं तरो वप्रो जलसीमोपकण्ठभूः ।वैखानसः पृथुकचा मत्स्यो मीनो झषस्तिमिः ॥ २८९ ॥
3.289 · p. 20
अनुष्टुप्
निर्निमेषोऽण्डजः प्रोष्ठः शफरः शकुलः कजः ।कच्छपः कमठो लोष्टो मण्डूको वारिवालकः ॥ २९० ॥
3.290 · p. 20
अनुष्टुप्
द्वीपोऽन्तरीपं तोयोत्थं शादो जंवीनकर्द्दमौ ।अगाधमतलस्पर्शं गभीरं निम्नकान्तरे ॥ २९१ ॥
3.291 · p. 20
अनुष्टुप्
फेनो जलकफो वारिशोफको जलबुद्बुदः ।अन्धुः कूपः प्रहीर्वापी वापिका दीर्घिका युका ॥ २९२ ॥
3.292 · p. 21
अनुष्टुप्
पद्माकरः पद्मखनिस्तडागः पुष्कराश्रयः ।कुमुद्वती कुमुदिनी कुमुच्चन्द्रप्र[प]योजिनी? ॥ २९४ ॥
3.294 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पङ्कजं कमलं पद्मं नलिनं सरसीरुहम् ।पङ्केरुहं तामरसं सारसं पुष्करं कजम् ॥ २९५ ॥
3.295 · p. 21
अनुष्टुप्
इन्दीवरं नीलपद्मं पुण्डरीकं सितोत्पलम् ।रक्तोत्पलं कोकनदं शतपत्रं कुशेशयम् ॥ २९६ ॥
3.296 · p. 21
अनुष्टुप्
शालूरः पद्मिनीकन्दो मृणालं विसदोरकम् ।किञ्जल्कः केसरोऽज्वांशु नैरं शेवालशैवले ॥ २९७ ॥
3.297 · p. 21
अनुष्टुप्
सिन्धुवल्ली रागतालिः प्रवालं विद्रुमाद्रुमे ।सार्द्धत्रिवलयः कम्बुः शङ्खः सूचीमुखोऽम्बुजः ॥ २९८ ॥
3.298 · p. 21
अनुष्टुप्
शुक्तिर्मौक्तिकमञ्जूषा मुक्तास्फोटोऽम्बुसूर्पिका ।मौक्तिकं शौक्तिकं मुक्ता स्वातिबिन्दुसमुद्भवम् ॥ २९९ ॥
3.299 · p. 21
अनुष्टुप्
कैवर्तो धीवरो दासो नौका नौस्तरणिस्तरिः ।नौवाहकः कर्णधारो नाविकोऽरित्रचालकः? ॥ ३०० ॥
3.300 · p. 21
अनुष्टुप्
आसेचनं सेकपात्रमरित्रं केनिपातनम् ।क्षुद्रतीरः प्रकूः कोलो वर्षाभ्वी कमठी डुलिः ॥ ३०१ ॥
3.301 · p. 21
अनुष्टुप्
सैहरिचक्त्रौ? मकरो राजीवः शकुलस्तिमिः ।सहस्रदंष्ट्रः पाठीनः सुसिको घटिकोत्प्लवः ॥ ३०२ ॥
3.302 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ह (wrong syllable)
जलसत्त्वपतिर्ग्राहः उलूपी शिशुमारकः ।मत्स्यपाशी गुणनिका बडिशं मत्स्यवेधनम् ॥ ३०३ ॥
3.303 · p. 21
अनुष्टुप्
जीमूतो मुदिरो मेघो घनो धाराधरोऽम्बुदः ।कादम्बरी मेघमाला जैमूतं मेघसम्भवम् ॥ ३०५ ॥
3.305 · p. 21
अनुष्टुप्
सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः ।कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥
3.306 · p. 21
अनुष्टुप्
वारुणी मदिरा हाला सुरा मैरेयमासवौ ।
3.30 · p. 22