कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विहङ्ग

vihaṅgaपुं · masc.

In 9 kośas: 8 synonym verses, 1 as a nānārtha head word, 14 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.48
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.237 · p. 29
पतन्पतङ्गः पतगः पतत्री,पत्त्री शकुन्तिः शकुनिः शकुन्तः ।वयो विहायो विहगो विहङ्गो,विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
उपजातिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.289 · p. 92
पक्षी पतत्रिपतगौ विहङ्गो विर्विहङ्गमः ।पिल्लाकः पक्षिपोते स्यात् हंसो धूमललोचनः ॥ २८९ ॥
अनुष्टुप्
genderपुंmasc.
विहङ्गमो विहङ्गश्च विहगश्च समास्त्रयः ।पक्षः स्यात् पक्षसा साधं चञ्चुश्चञ्चुरुभे समे ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.80 · p. 326
अथ पत्ररथः पक्षी द्विजो नीडोद्भवः खगः ।पत्री पतत्री विहगो विहङ्गः पत्रवाहनः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2377 · p. 384
विहगो विकिरो वाजी विहङ्गश्च विहङ्गमः ।वारङ्गश्चैव वारङ्गिः विष्किरश्च विविष्किरः ॥ २३७७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.88 · p. 88
पक्षी विहङ्गम-खगौ विहङ्ग-नभसङ्गमौ ।द्विजः शकुन्तशकुनः पतन् पत्रि-पतत्रिणौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.344 · p. 246
पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः ।विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् ॥ ३४४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश गान्ताः Śabdaratnāvalī 7.3.48 · p. 194
विसर्गस्तागदानादौ विसृष्टे मलनिर्गमे ।विहङ्गो विहगे बाणे जलदे चन्द्रसूर्ययोः ॥
अनुष्टुप्

विहङ्ग as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप चिकुरद्वयोस्तु गृहबभ्रौ स्यात् सरीसृपविहङ्गयोः । चञ्चले च त्रिषु ज्ञेयं युवतीनां विलोचने ॥ ७४७ ॥ Nānārthārṇavasaṃkṣepa 4.747
  • नानार्थार्णवसंक्षेप शकुनशकुन्तस्तु द्वयोः पक्षिमात्रे भासाख्यपक्षिणि । शकुनस्तु विहङ्गे द्वे पुंसि त्वजय उक्तवान् ॥ १७९६ ॥ Nānārthārṇavasaṃkṣepa 4.1796
  • शब्दरत्नावली वर्तकद्वयोर्नील्यादिषु क्लीबे चन्दने च विलेपने । वर्तको ना खुरेऽश्वस्य विहङ्गे वर्तिका द्वयोः ॥ Śabdaratnāvalī 7.1.137
  • शब्दरत्नावली खगखगो विहङ्गे देवे च ग्रहे सूर्ये च मङ्गले । खङ्गो गण्डशृङ्गेऽसिबुद्धभिद्गण्डकेषु च ॥ Śabdaratnāvalī 7.3.5
  • शब्दरत्नावली कपोतकपोतश्चित्रकण्ठाङ्गपारावतविहङ्गयोः । क्रन्दितं रुदिताह्वानयोधचित्करणेषु च ॥ Śabdaratnāvalī 7.16.96
  • शब्दरत्नावली पित्सत्प्रार्थितं शत्रुसंरुद्धे याचितेऽभिहिते त्रिषु । पित्सन् पुंसि विहङ्गे स्यात्पतनेच्छुजने त्रिषु ॥ Śabdaratnāvalī 7.16.117
  • शब्दरत्नावली पिपतिषत्गिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
  • शब्दरत्नावली शकुनिशकुनिः स्यात्करणभिद् विहङ्गदैत्यभित्सु च । शिल्पी कारौ वाच्यलिङ्गः शिल्पिन्योषधिभिद्यपि ॥ Śabdaratnāvalī 7.20.81
  • शब्दरत्नावली व्योमचारिन्देवशिल्पिनि चण्डांशौ विश्वकर्मा मुनावपि । विघातिघोरदृष्ट्योस्तु विघ्नकारी पुमान्भवेत् ॥ महेशे दैत्यभेदे स्याद् वृषपर्वा पुमानयम् । विहङ्गे देवतायाञ्च व्योमचारी भवेत्पुमान् ॥ शाकभेदे कृष्णभेद्यां स्त्रियाञ्च शकुलादनी । मुनिभेदे नन्दिनि स्याच् शालङ्कायन इत्यपि ॥ Śabdaratnāvalī 7.20.137
  • शब्दरत्नावली बन्धुरबन्धुरो मुकुटे रम्ये नम्रे बकविहङ्गयोः । बन्धुके बधिरे हंसे बन्धुरोऽप्यन्नतानते ॥ Śabdaratnāvalī 7.27.91
  • शब्दरत्नावली नभश्चरधृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि । नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले ॥ निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु । वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥ Śabdaratnāvalī 7.27.130
  • शब्दरत्नावली कीशकीशो दिगम्बरे सूर्ये शाखामृगविहङ्गयोः ॥ Śabdaratnāvalī 7.30.3
  • शब्दरत्नावली चासकासूः शक्त्यायुधे दीप्तौ भाषा विकलवाक्ययोः । गुत्सो हारभिदि स्तम्बे स्तबके ग्रन्थिपर्णयोः ॥ गोसो वोले च प्रत्यूषे चास इक्षुविहङ्गयोः । त्रासो भीतौ मणेर्दोषे दासी झिण्ठीभुजिष्ययोः ॥ Śabdaratnāvalī 7.32.3
  • शब्दरत्नावली अगौकस्अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः । उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥ Śabdaratnāvalī 7.32.42