कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जलमुच्

jalamucपुं · masc.

In 10 kośas: 10 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.164 · p. 10
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
upajati mixed
genderपुंmasc.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.7
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् ।घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.89 · p. 16
अभ्रो मेघो वारिवाहो जलदो धूमसम्भवः ।जलमुक् पुष्पदः कन्दो बलाहकवलाहकौ ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.148 · p. 396
बालग्रहाः पूतनाद्या अथ मेघो बलाहकः ।जलपर्यायतो वाहधरमुग्दभृतः पुनः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.154 · p. 24
मेघस्तु जलमुग्नभ्राड् घनाघनघनौ पुनः ।तडित्वान्मुदिरो धूमयोनिजीमूतशद्रयः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.304 · p. 21
नभश्चरो वायुदारुः खतमालः पयोधरः ।व्योमधूमो जलमसिर्जलमुग्गगनध्वजः ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.87 · p. 10
अभ्रं तडित्वान्मुदिरो जलमुग्जलदोऽम्बुभृत् ।धाराधरो जलधरो धूमयोनिर्बलाहकः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.166 · p. 23
जीमूतो जलदश्चाऽभ्रं जलमुक् जलदस्तथा ।वारिमुक् वारिवाहश्च वारिधरश्च वारिदः ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.178 · p. 13
जलमुक् वारिमुक् वार्मुक् वनमुक् वारिदोऽम्बुभृत् ।अब्दस्तडित्वान् जीमूतः पर्जन्यः स्यान्नभोगजः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मेघाध्यायः Vaijayantī 2.2.1 · p. 25
मेघोऽब्दो जलदो नभ्राट् तटित्वाञ्जलमुग्घनः ।धाराधरो वारिधरो धूमयोनिर्वलाहकः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.

जलमुच् as a meaning in nānārtha verses

  • शारदीयाख्यनाममाला सारङ्गवीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ Śāradīyākhyanāmamālā 3.5.127