कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पयोधर

payodharaपुं · masc.

In 16 kośas: 16 synonym verses, 6 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.603 · p. 26
स्तनान्तरं हृद्धृदयं स्तनौ कुचौ पयोधरौ ।उरोजौ च चूचुकं तु स्तनाद्वृन्तशिखामुखाः ॥ ६०३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable); pāda 3, syllable 4 च (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.58 · p. 8
अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.526 · p. 60
उरसिजकुचवक्षोरुहपयोधराः स्तनसमाननामानि ।उक्ताः कुचमुखचूचुकवृन्तानि शिखा च तुल्यानि ॥ ५२६ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.194 · p. 41
पयोधरौ पयोध्रौ च मेचकं पिप्पलं च षण् ।स्तनार्थाच्च मुखं वृन्तं क्लीबे स्तनशिखा स्त्रियाम् ॥ १९४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.72 · p. 216
[85a]ललाटकण्ठजठरस्थिता रेखा वलिर्द्वयोः ।स्तनौ कुचौ कुचौ वक्षोरुहौ तौ च पयोधरौ ।तदधः स्तनमूलं स्यादूर्ध्वं तु स्तनरोहितम् ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 102 · p. 50
नासा घ्राणम् उरो वक्षः कुक्षिः स्याज्जठरोदरम् ।स्तनः पयोधरकुचौ वक्षोज इति वर्णितः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.262 · p. 133
स्तनौ कुचौ समौ प्रोक्तावुरोजौ तु पयोधरौ ।चूचुकं स्तनवक्त्रं तु स्तनवृन्तं स्तनाच्छिखा ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.88 · p. 7
पृष्ठवंशो मेरुदण्डः पृष्ठं पृष्ठस्थलं त्रिकम् ।कुचस्तनो हृदयजो नीलवक्त्रः पयोधरः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.304 · p. 21
नभश्चरो वायुदारुः खतमालः पयोधरः ।व्योमधूमो जलमसिर्जलमुग्गगनध्वजः ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.38 · p. 23
स्तनौ कुचावुरोजौ च वक्षोजौ च पयोधरौ ।उदरं जठरं तुन्दं पिचण्डः कुक्षिरेव च ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.971 · p. 148
स्तनौ कुचौ च वक्षोजौ धरणौ च पयोधरौ ।उरसिजौ तथोरोजौ जानीयान्नाम सप्तकम् ॥ ९७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.176 · p. 13
अब्जमभ्रं वारिवाहो घनो मेघः पयोधरः ।अम्भोधरो व्योमधूमो धूमयोनिर्घनाघनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.316 · p. 80
नारीकेली रसफलो नारिकेलिश्च लाङ्गली ।नाडीकेरो नाडीकेरः करकाम्भःपयोधरौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.283 · p. 101
कुचः कूचः उरोजः स्याद् वक्षोजः स्यात् पयोधरः ।स्तनो वक्षोरुहश्चापि तथोरसिज इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.311
अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.71 · p. 176
पयोधरः कोषकारे स्त्रीस्तने वारिदेऽपि च ।दिगम्बराः सामाख्याता नग्नक्षपणशंकराः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.9 · p. 332
उरोजयोः कोशकरे कशेरु-ण्यम्भोधरे स्याद[62a]पि नालिकेरे ।पयोधरोऽथो कलिकार उक्तःकरञ्जधूम्याटकयोस्तथैव ॥ ९ ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 2, syllable 1 ण्य (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.81 · p. 13
रविवह्योरथो पङ्करसः शीधौ तथा रसे ।पङ्कस्याथाम्बुदे स्त्रीणां स्तने मु(क्ते ? स्ते) पयोधरः ॥ ८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.135 · p. 276
परम्परा परिपाट्यां तथा सन्तानहिंसयोः ।पयोधरः कोषकारे नारिकेले घने स्तने ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.27 · p. 267
द्वारद्वार्स्थौ प्रतीहारौ स्तनांभोदौ पयोधरौ ।काशे नडे पोटगलः पवमानोऽग्निवातयोः ॥ २७ ॥
अनुष्टुप्

पयोधर as a meaning in nānārtha verses