कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नागज

nāgajaक्ली · neut.

In 5 kośas: 7 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1042 · p. 41
वङ्गं त्रपुः स्वर्णजनागजीवने मृद्वङ्गरङ्गे गुरुपत्रपिच्चटे ।स्याच्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि ॥ १०४२ ॥
इन्द्रवंशा
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1061 · p. 41
सिन्दूरं नागजं नागं रक्तं शृङ्गारभूषणम् ।चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ॥ १०६१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.35 · p. 130
सिन्दूरं चीनपिष्टं च नागरेणुश्च नागजम् ।शृङ्गारभूषणं नागगर्भं श्रीमदपि स्मृतम् ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.320 · p. 44
गण्डूपदभवं वप्रं योगेष्टं च सुवर्णकम् ।कस्तीरं त्रपु वङ्गं च नागजं नागजीवनम् ॥ ३२० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.336 · p. 46
करवीरा नागजिह्वा सिन्दूरं नागजं पुनः ।शृङ्गारभूषणं नागरक्तं बोले शशः पुनः ॥ ३३६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1799 · p. 294
वङ्गं रङ्गं च मृद्वङ्गं नागजं नागजीवनम् ।स्वर्णजं श्वेतरूप्यं च मधुकं मुखभूषणम् ॥ १७९९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1836 · p. 299
सिन्दूरं चीनपिष्टं च नागरक्तं च नागजम् ।शृङ्गारभूषणं चैव शृङ्गारमपि मन्यते ॥ १८३६ ॥
अनुष्टुप्
genderक्लीneut.

नागज as a meaning in nānārtha verses

  • शब्दरत्नावली कम्बुकम्बुर्नागजशम्बूकवलये शङ्खकेऽस्त्रियाम् ॥ कम्बिः स्त्रियान्तु वंशांशे खजाकायामपि स्त्रियाम् । अथ क्लीबं शण्डकेऽस्त्रीवाच्यलिङ्गन्त्वविक्रमे ॥ Śabdaratnāvalī 7.23.2