All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · बान्ताः
कम्बुर्नागजशम्बूकवलये शङ्खकेऽस्त्रियाम् ॥कम्बिः स्त्रियान्तु वंशांशे खजाकायामपि स्त्रियाम् ।अथ क्लीबं शण्डकेऽस्त्रीवाच्यलिङ्गन्त्वविक्रमे ॥
7.23.2 · p. 250
अनुष्टुप्
डिम्बो वारिप्लवप्लीहाफुस्फुसाण्डभयस्वने ।दर्वी सर्पफणायान्तु खजाकायामपि स्त्रियाम् ।पूर्वस्तु पूर्वजे पुंसि पूर्वं प्रागादपयोस्त्रिषु ॥
7.23.5 · p. 250
अनुष्टुप्metre not read in every line
लम्बा स्यात्कमलागौर्य्योः स्यात् स्त्रियां तिक्ततुम्बीषु ।बिम्बोऽस्त्री तु मण्डपे स्यात्प्रतिबिम्बे च पुंस्यपि ॥
7.23.6 · p. 250
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 म्बी (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
बिम्बीफले क्लीबलिङ्गं सरटे च पुमान् क्वचित् ।शम्बो ना वज्रमूषललोहे त्रिषु शुभान्विते ॥
7.23.7 · p. 250
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 ष (wrong syllable)
कलम्बी शाकभेदे स्त्री कदम्बे च शरे पुमान् ।कादम्बः पक्षिभेदे स्यात्सायके च भवेत्पुमान् ॥
7.23.10 · p. 250
अनुष्टुप्
गजाह्वा गजपिप्पल्यां क्लीबन्तु हस्तिनापुरे ।गन्धर्वः कोकिले पुंसि पशुभेदे तुरङ्गमे ॥
7.23.11 · p. 250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)
अन्तराभवसत्त्वे च खेचरे दिव्यगायने ।गोडुम्बा तु गवादन्यां गोडुम्बः शीर्णपर्णके ॥
7.23.12 · p. 250
अनुष्टुप्
द्विजिह्वः सूचके चौरे दुःसाध्ये च भुजङ्गमे ।नितम्बः स्त्रीकटीपश्चाद्भागे तत्कटिमात्रके ।पर्वतःस्कपिकटके स्कन्दे वेधसि कुत्रचित् ॥
7.23.13 · p. 251
अनुष्टुप्metre not read in every line
प्रलम्बो हारभेदे स्यात् शाखायाञ्च पयोधरे ।लताङ्कुरे दैत्यभेदे त्रपुषे च प्रलम्बने ॥
7.23.14 · p. 251
अनुष्टुप्
हेरम्बो महिषे लम्बोदरे च शौर्यगर्विते ।
7.23.15 · p. 251
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable); pāda 3, syllable 7 म्बु (wrong syllable)
ललजिह्वः पुमानुष्ट्रशुनो हिंस्रेऽपि चान्यवत् ।शतपर्वा वचायान्तु दूर्वायां भार्गव स्त्रियाम् ॥
7.23.17 · p. 251
अनुष्टुप्
धुलीकदम्बस्तिनिशे कदम्बे वरुणद्रुद्मे ।शृगालजम्बू गोडुम्बे तथा घोषाफले स्त्रियाम् ॥
7.23.18 · p. 251
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 द्रु (wrong syllable)