सुवर्णक
suvarṇakaक्ली · neut.In 6 kośas: 13 synonym verses, 1 as a meaning of another word.
ताम्रं म्लेच्छमुखं शुल्वं रक्तं द्व्यष्टमुदुम्बरम् ॥ १०३९ ॥म्लेच्छशाबरभेदाख्यं मर्कटास्यं कनीयसम् ।ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्त्रकम् ॥ १०४० ॥नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् ।वर्ध्नं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०४१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् ॥ १०४७ ॥रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् ।
अनुष्टुप्
genderक्लीneut.
आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः ॥ २३ ॥आरेवतव्याधिघातकृतमालसुवर्णकाः ।
अनुष्टुप्
genderपुंmasc.
सुवर्णकं कीशलोहमारः स्त्री पित्तला न ना ।सिंहलं चारकूटोऽस्त्री राजरीतिर्महेश्वरी ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.
वर्त्तलोहं वर्त्तकं स्यादथ नागं सुवर्णकम् ।गण्डूपदभवं वप्रं वर्ध्रं योगेष्ट-सीसके ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
बहुत्वक्शाल्मलीपर्णस्त्रिपर्णो गुच्छपुष्पकः ।शारदः शारदी चाथ राजवृक्षः सुवर्णकः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
सुवर्णको विस्तो[142a] हेम्नोक्षे कर्षाभ्यां शुक्तिरष्टमी ।शुक्तिद्वयं पलं मुष्टिश्चतुर्थी षोडशी वशा (?) ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गण्डूपदभवं वप्रं योगेष्टं च सुवर्णकम् ।कस्तीरं त्रपु वङ्गं च नागजं नागजीवनम् ॥ ३२० ॥
अनुष्टुप्
genderक्लीneut.
पीतलोहं रिरी रीतिः कपिलोहं सुवर्णकम् ।कपिला तु ब्रह्मरीतिर्ब्राह्मी सा च महेश्वरी ॥ ३२८ ॥
अनुष्टुप्
genderक्लीneut.
सिन्दूरकारणं कृष्णं समोलूकं सुवर्णकम् ।योगेष्टं यवनेष्टं च वर्ध्रं च त्रपुबन्धकम् ॥ १७९७ ॥
अनुष्टुप्
genderक्लीneut.
कपिलोहं सुलोहं च पीतलोहं सुलोहकम् ।आरकूटो रितिः रीती रिरी रीरी सुवर्णकम् ॥ १८१४ ॥
अनुष्टुप्
genderक्लीneut.
अरेवतः सुपर्णको व्याधिधातः सुवर्णकः ।एतन्नामानि कथ्यन्ते कृतमालस्य कोविदैः ॥ २०१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्ण (wrong syllable)
genderपुंmasc.
आरग्वधो व्याधिघातः कृतमालः सुवर्णकः ।आरग्वधो(?) राजवृक्षः स्याद्रेवतश्चतुरङ्गलः ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
सुवर्णक as a meaning in nānārtha verses
- कोषकल्पतरु अवष्टम्भस्तम्भारम्भसुवर्णकेषु च तथावष्टम्भ उक्तो बुधै- श्चण्डान्ते(?) नरि शातकुम्भ उदितश्चामीकरे त्वन्तिमे ॥ ५४ ॥ Koṣakalpataru 6.24.54