रक्त
raktaक्ली · neut.In 21 kośas: 55 synonym verses, 12 as a nānārtha head word, 41 as a meaning of another word.
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
कश्मीरजन्म घुसृणं वर्णं लोहितचन्दनम् ॥ ६४४ ॥वाह्लीकं कुङ्कुमं वह्निशिखं कालेयजागुडे ।संकोचपिशुनं रक्तं धीरं पीतनदीपने ॥ ६४५ ॥
अनुष्टुप्
genderक्लीneut.
ताम्रं म्लेच्छमुखं शुल्वं रक्तं द्व्यष्टमुदुम्बरम् ॥ १०३९ ॥म्लेच्छशाबरभेदाख्यं मर्कटास्यं कनीयसम् ।ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्त्रकम् ॥ १०४० ॥नागं गण्डूपदभवं वप्रं सिन्दूरकारणम् ।वर्ध्नं स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥ १०४१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सिन्दूरं नागजं नागं रक्तं शृङ्गारभूषणम् ।चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ॥ १०६१ ॥
अनुष्टुप्
genderक्लीneut.
कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः ।हारिद्रः पीतलो गौरः पीतनीलः पुनर्हरित् ॥ १३९४ ॥पालाशो हरितस्तालकाभो रक्तस्तु रोहितः ।माञ्जिष्ठो लोहितः शोणः श्वेतरक्तस्तु पाटलः ॥ १३९५ ॥
अनुष्टुप्
genderविadj.
genderपुंmasc.
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।
अनुष्टुप्
genderक्लीneut.
द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् ॥ १२३ ॥काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने ।रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् ॥ १२४ ॥
अनुष्टुप्
genderक्लीneut.
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
आर्या
genderक्लीneut.
अरुणः शोणो रक्तो माञ्जिष्ठः पाटलस्तथा ताम्रः ।लोहित इत्येकार्थाः कविभिः शब्दाः प्रयुज्यन्ते ॥ ७३३ ॥
metre not recognised
genderविadj.
ताम्रं शुल्बं मर्कटाख्यं रक्तं व्यष्टं कनीयसम् ।म्लेच्छं वरिष्ठं म्लेच्छास्यं श्रेष्ठं रिष्टमुदुम्बरम् ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.
राजशाको राजगिरिः काण्डशाकः प्रकीर्तितः ।देवमारीषको रक्तो मेघनादोऽल्पमारिषः ॥ ३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
genderपुंmasc.
पुंसि क्लीबे च चर्माम्भो रसो नर्यथ शोणितम् ।आसुरं प्राणदं रक्तमाग्नेयं मांसकार्यपि ॥ २२३ ॥
अनुष्टुप्
genderक्लीneut.
जाम्बूनदं चोरुसारं रुक्मं कार्त्तस्वरं पुनः ।द्रविणं वरिवः श्वात्रं हिरण्यं रक्तमित्यपि ॥ ५३८ ॥
अनुष्टुप्
genderक्लीneut.
सौभाग्यमपि शृङ्गारमथ हिङ्गुलमस्त्रियाम् ।सुरङ्गं कर्बुरं रक्तं हिङ्गुलं चूर्णपारदम् ॥ ५६५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हिङ्गुलस्तु नदीकान्तो जलजो दीर्घपत्रकः ।नदीजो निचुलो रक्तः कामुकश्चाथ चण्डिका ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ।मञ्जिष्ठो बालसन्ध्याभोऽव्यक्तरागोऽरुणोऽपि च ॥ १६५ ॥
अनुष्टुप्
genderविadj.
लोहितो रोहितो रक्तो माञ्जिष्ठोऽसौ तु पाटलः ।श्वेतसंवलितो रक्तः शोणः कोकनदोपमः ॥ ३२ ॥
अनुष्टुप्
genderविadj.
मोचस्रावो मोचरसो मोचनिर्यास-मोचकौ ।रोही रोहितको रक्तो रक्तघ्नो रक्तपुष्पकः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कीताद्रुर्दोहदो रक्तो गौराङ्गश्चित्रगुच्छकः ।मुचुकुन्दः क्षत्रवृक्षः श्रीतरुः प्रतिविष्णुकः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
परिम्लानश्चोरटोऽथ रक्तः कुरवकश्च सः ।पीतपुष्पः किंकिरातः किंकिरीटश्च पीतकः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
अवदंशक्षमं तीक्ष्णं विष्णुगुप्तमतं वृशम् (corrupt) ।चाणक्यमूलकं रक्तं राजालुकमपीरितम् ॥ ४७ ॥
अनुष्टुप्Latin letters: corrupt
genderक्लीneut.
रुधिरे रक्त - कीलाल - तेजोज - रसजानि च ।आत्मजं देहजं तिग्ममस्रं लोहितमस्त्रियाम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
कुङ्कुमे रक्तपर्यायं सङ्कोचपिशुनं वरम् ।धीरं कुसुम्भं घुसृणं पीतं वाल्हीकपीतने ॥ २३४ ॥
अनुष्टुप्
genderक्लीneut.
चेलं निवसनं वासक्षीरमम्बरमंशुकम् ।वस्त्राद्यन्तः दिगाद्यादिसंज्ञितो वृषभेश्वरः ।कुङ्कुमं रुधिरं रक्तं कस्तूरी मृगनाभिजम् ॥ ११७ ॥
अनुष्टुप्
genderक्लीneut.
लोहितं रक्तमाताम्रं पाटलं विशदारुणम् ।पीतं गौरं हरिद्राभं पालाशं हरितं हरित् ॥ १४९ ॥
अनुष्टुप्
genderविadj.
मर्म कोषं च कलहं परिवादं छलं नयेत् ।शोणितं लोहितं रक्तं रुधिरं क्षतजासृजम् ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
मण्डूरसरणे धूर्तसिंहाने विकृतिः कुशी ।ताम्रं शुल्वं मर्कटास्यं रक्तं म्लेच्छमुखं तथा ॥ ३१८ ॥
अनुष्टुप्
genderक्लीneut.
अरुणो रोहितो रक्तशोणौ रक्तसिते अथ ।पाटलोऽप्यरुणो बालसन्ध्याभः पीतरक्तके ॥ २९० ॥
अनुष्टुप्
genderविadj.
पत्राङ्गुलिरथ प्रोक्तं कुङ्कुमे पीतनं तथा ।रक्तं संकोचकाश्मीरजन्मनी धीरमित्यपि ॥ १७९ ॥
अनुष्टुप्
genderक्लीneut.
तद्विषे स्याद्ध(द्धा?)लहलो हालाहलहलो(ला?)हलौ ।रक्ताश्च रक्तस्राविण्यो गोनसाश्च बहुश्रुताः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
नीलः श्यामः शितः कृष्णः पीतो गौरोऽतिपिङ्गलः ।अरुणो लोहितो रक्तः कृष्णलोहितधूम्रकौ ॥ ३२६ ॥
अनुष्टुप्
genderविadj.
कुङ्कुमं घुसृणं वर्ण्यं रक्तं काश्मीरजन्म च ।श्रीखण्डो मलयजश्च गोशीर्षं चन्दनं स्मृतम् ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
genderक्लीneut.
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
स्याल्लवणः सर्वरसः क्षारस्तिक्तं तु तीक्ष्णवत् ।रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ल्ल (wrong syllable)
genderविadj.
आग्नेयं रुधिरं रक्तं रसतेजश्च लोहितम् ॥ १००० ॥
अनुष्टुप्
genderक्लीneut.
केशरं कुङ्कुमं रक्तं कालेयं करटं वरम् ।कुसुमान्तं कुसुम्भं च सङ्कोचपिशुनं तथा ॥ १०४२ ॥
अनुष्टुप्
genderक्लीneut.
ताम्रं रक्तं पवित्रञ्च द्व्यष्टं द्विष्टमुदुम्बरम् ॥ १७९४ ॥
अनुष्टुप्
genderक्लीneut.
रोहितो लोहितो रक्तो माञ्जिष्ठः शोण इत्यपि ।पाटलः श्वेतरक्तश्च श्वेतरक्तस्य नाम वै ॥ २५३४ ॥
अनुष्टुप्
genderविadj.
हरिद्वर्णे तु पालाशः श्यामश्च हरितो हरित् ।रक्तोत्पलनिभः शोणो रक्तो लोहित-रोहितौ ॥
अनुष्टुप्
genderपुंmasc.
रुधिरासृक् पलङ्कारमस्रं क्षतजरोहितम् ।लोहितं शोनितञ्चेति रक्तं रङ्गकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
सामालभनमुच्छित्तिरङ्गरागः कषायकम् ।कुङ्कुमं घुसृणं रक्तं सङ्कोचं हरिचन्दनम् ॥
अनुष्टुप्
genderक्लीneut.
कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः ।रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥
गीतिः
genderविadj.
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
कुङ्कुमं घुसृणं रक्तं बाह्लीकं पीतनं वरम् ।वासनीयककाश्मीरधीरलोहितचन्दनम् ॥ ११४६ ॥
अनुष्टुप्
genderक्लीneut.
रोहितो रोहिषो रोही रक्तो रोहितकोऽपि च ।बाणोऽर्जुने प्रियाले तु प्रियकश्च मधुस्रवः ॥ १७८९ ॥
अनुष्टुप्
genderपुंmasc.
रो भुजङ्गो धातुरक्तः सूर्यो वै वेदकस्तथा ।दीपको ज्वलनश्चैव स्थूलदण्डश्च तैजसः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
दक्षांशगो भुजङ्गेशो रोचिष्मान् रुचिरः शिखी ।बली रक्तं क्रोधिनी च जटी यान्तो र-कारकः ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
सौधं सुभीरुकं शुभ्रं खर्जूरं वंगजीवनम् ।ताम्रं शुल्बं मर्कटाम्यं रक्तं व्यष्ठं कनीयसम् ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
रोहिते रौहिषो रोही रक्तो रौहितकोऽपि च ।स्त्रीप्रिये वञ्जुलोऽशोकः कंकेलिः कर्णपूरकः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
पत्रांगं रञ्जनं सेव्यं धूर्तमैरावतं लसम् ।कुचन्दनं जघन्यं च रक्तं च तिलपर्ण्यपि ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
कुंकुमं घुसृणं वर्ण्यं रक्तं लोहितचन्दनम् ।करटं चितकाबेरं गौरवं वासनीयकम् ॥ ११६ ॥
अनुष्टुप्
genderक्लीneut.
ऋतुः पुंस्यार्तवं रक्तं पुष्पं चाथानृतुर्वधूः ।निष्कलापन्नसत्त्वा तु स्त्र्यन्तर्वत्नी च गर्भिणी ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
रुधिरं लोहितं रक्तमस्रं क्षतजमासुरम् ।रोक्यं शोध्यं मांसकरं रसतेजो रसोद्भवम् ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
काले कृष्णासितश्यामनीलश्यामलमेचकाः ।रोहिते लोहितो रक्तो हारिद्रे पीतपीतले ॥ ११ ॥
अनुष्टुप्
genderविadj.
घृतमाज्यं घृतं तोये युतं न्याये च संहते ।रक्तः क्रीडारते रक्ते शुक्तं स्यात्परुषाम्लयोः ॥
अनुष्टुप्
meaningsक्रीडारत
तिक्तो रसे ना सुरभौ च षण्ढेकिरातके पर्पटके स्त्रियां तुकट्व्या[288b]मथो रिक्तमरण्य उक्तंशून्येऽन्यवत्स्याद्धुसृणे तु रक्तम् ॥ ३५ ॥
metre not recognised
meaningsघुसृण
प्राचीनके चामलके च ताम्रेरसोत्थधातौ विकसौषधौ स्त्री ।शोणे पुमांस्तद्वति रागयुक्तेनील्यादिरक्तेऽपि परस्य लिङ्गे ॥ ३६ ॥
उपजातिः
रुधिरे कुङ्कुमे ताम्रे स्त्रीपुष्पे रागवस्तुनि ।पत्त्राङ्गाख्ये पुमांस्त्वेष रोहीतक इति श्रुते ॥ १०८२ ॥
अनुष्टुप्
doubtful
आपादितान्यवर्णं स्याद् वर्णात् तत्राप्यथो रथः ।वेतसे स्यन्दने पुंसि चक्रवाके तु स द्वयोः ॥ १०८४ ॥
अनुष्टुप्
meaningsआपादितान्यवर्ण
doubtful
प्राचीनामलके धीरे वसन्तोत्सवमण्डने ।रक्ताङ्ग्यां तु स्त्रियां रीतिर्लोहकिट्टारकूटयोः ॥ १८३ ॥
अनुष्टुप्
रक्त as a meaning in nānārtha verses
- धरणिकोश अरुणअरुणोऽस्फुटरागे स्यात्सूर्ये च सूर्यसारथौ । [32] सन्ध्यारागे च कुष्ठे च रक्ते चातिविषारुणा ॥ Dharaṇikośa 14.3.17
- धरणिकोश रागिन्रागी च कोपने रक्ते अलिनौ भृङ्गवृश्चिकौ । शयनं सुरतं शय्या मैथुनं संगते रते ॥ Dharaṇikośa 19.1.10
- कोषकल्पतरु स्वजप्राग्दिग्गृहेऽन्यत्र * शौण्डिके स्यात् स्वजं तु रक्ते नरि गात्रतोये । पुत्रेऽथ विप्रप्रमुखत्रिवर्णि- विहंगदन्तेषु मतो द्विजो ना ॥ २२ ॥ Koṣakalpataru 6.7.22
- कोषकल्पतरु अङ्गजशैलेयशिलाजतुनोः स्त्रियां तु गौर्यां च नद्यां च । गजशङ्खदेशभित्सु स्यात्कम्बोजोऽङ्गजं तु रक्ते स्यात् ॥ ३८ ॥ Koṣakalpataru 6.7.38
- कोषकल्पतरु शोणवीणावादनसाधने च लगुडे गेहैकदेशे तथा कोणः कोकनदच्छवावरलुके रक्ते हयेऽग्नौ नदे । शोणोऽथार्भकगर्भयोर्नरि भवेद्भ्रूणस्तु गर्भेऽस्त्रियां तीक्ष्णं लोहविषाजिमुष्किमरके तिग्मे तु भेद्यानुगम् ॥ ७ ॥ Koṣakalpataru 6.15.7
- कोषकल्पतरु रोहितहरिणझषविभेदभेदरोहि- द्रुषु नरि कुङ्कुमरक्तशक्रचापे । मिथुनयुगिह रोहितं नदे तु क्षितितनये नरि लोहितोऽप्यथास्त्री ॥ १ ॥ Koṣakalpataru 6.16.1
- कोषकल्पतरु रागिन्अर्थी विवादिन्यपि सेवके च स्याद्याचकेऽसौ कथितश्च पुंसि । रागी तु रक्ते परवच्च कम्रे ध्वजी तु शैले रथविप्रयोश्च ॥ ८२ ॥ Koṣakalpataru 6.21.82
- कोषकल्पतरु रमयोषाहिङ्गुलिनीषु योषिति मतः कामः स्मरेऽस्त्रीप्सिते क्लीबं शुक्रनिकामयोरथ रमः कान्ते स्त्रियां तु श्रियि । तद्वत्सु त्रिषु पुंसि तु स्मरगतो रक्तेऽप्यशोकद्रुमे न स्त्री स्यान्मलयोद्भवे च शिशिरे तद्वत्तुषारे हिमम् ॥ ५७ ॥ Koṣakalpataru 6.25.57
- कोषकल्पतरु अस्रस्नुह्यां तु वज्रापि गुडूचिकायां स्नुह्यन्तरेऽपि प्रथिता * वज्री । शुल्बे तु ताम्रं परगाम्यरुणे स्या- दस्रस्तु कोणेऽपि कचेऽथ रक्ते ॥ ५७ ॥ Koṣakalpataru 6.27.57
- कोषकल्पतरु रुधिरस्याज्झर्झरोऽस्त्री कलिकालवाची वाद्यप्रभेदे च नदान्तरे ना । अङ्गारके ना रुधिरोऽथ रक्ते- ऽन्त्येकुङ्कुमेऽग्नौ तु तथेषिरः स्यात् ॥ ५ ॥ Koṣakalpataru 6.27.5
- कोषकल्पतरु अङ्कुरखगद्रुभेदे च गिरौ चले तु विशेष्यगः स्यादथ चाङ्कुरोऽपि । रथे तरौ योषिति नाङ्कुरः स्या- दङ्कूरवद्रोम्णि जले च रक्ते ॥ ९ ॥ Koṣakalpataru 6.27.9
- नानार्थार्णवसंक्षेप लोहितकतत्र त्रिष्वथ शण्डे स्यात् पद्मरागाह्वये मणौ । ज्ञेयं लोहितकं त्रिस्तु रक्तेऽर्थे कोपनादिमिः ॥ ५३२ ॥ Nānārthārṇavasaṃkṣepa 6.532
- परमानन्दीयनाममाला अश्रअस्रः कोणे तथा केशेऽथाश्रं रक्ताश्रुणोर्मतम् । अर्थः कार्ये धने वस्त्वभिप्रायविषयेषु च ॥ १० ॥ Paramānandīyanāmamālā 5.1.10
- परमानन्दीयनाममाला अङ्कूररक्ते जले तरौ रोम्ण्यभया तु स्याद्धरीतकी । अभयो निर्भये वीरणीमूले मञ्जुलेऽपि च ॥ २३ ॥ Paramānandīyanāmamālā 5.1.23
- परमानन्दीयनाममाला अरुणसीमावधानयोश्चाथारुणो भास्कररक्तयोः । सूर्यसारथिनिःशब्दकपिलार्थेष्वथारुणा ॥ ३० ॥ Paramānandīyanāmamālā 5.1.30
- परमानन्दीयनाममाला कीलालकरटो दुर्मुखे काके वाद्ये गण्डे च हस्तिनः । मृतश्राद्धे कुसुम्भे च कीलालं जलरक्तयोः ॥ ११३ ॥ Paramānandīyanāmamālā 5.7.113
- परमानन्दीयनाममाला शोणशङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते । शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥ Paramānandīyanāmamālā 5.25.354
- शिवकोष कुशिकअथ किंशुकः पलाशे नन्दीवृक्षे च पीततैलायाम् । योषिति कुशिकस्त्वक्षे रक्ते सर्जे च दीर्घपत्रे च ॥ २२ ॥ Śivakoṣa 1.3.22
- शिवकोष गैरिकगुग्गुलौ गैरिकं धातौ रुक्मे रक्ते च हल्लके । चित्रकः पावकेऽमण्डे चित्रकं मुखमण्डने ॥ २६ ॥ Śivakoṣa 1.3.26
- शिवकोष श्रीमत्श्रीमद्रक्ते स्त्रियां मुण्ड्यां मल्ल्यां नाश्वत्थरेचिनोः । सुव्रता महिलाह्वायां मल्लिकायां च तद्भिदि ॥ १९७ ॥ Śivakoṣa 12.2.197
- शिवकोष रञ्जनजन्यां च रञ्जनं रक्ते रञ्जनो रक्तचूर्णके । स्त्रुक्निशारोचनानीलिजनीरक्तासु रञ्जनी ॥ २६२ ॥ Śivakoṣa 16.1.262
- शिवकोष रोहिन्रोचना चाथ कम्पिल्ले मङ्गल्ये चापि रोचनी । रोही रक्ते वटेऽश्वत्थे स्त्री तु कठ्यां च कट्फले ॥ २६६ ॥ Śivakoṣa 16.1.266
- शिवकोष कुचन्दनकपीतनो गर्दभाण्डेऽऽम्राताश्वत्थशुकप्रिये । कुचन्दनं च पतङ्गे रक्ते निर्गन्धचन्दने ॥ २७२ ॥ Śivakoṣa 16.2.272
- शिवकोष धीरसूक्ष्मैलायां हरिद्रायां गन्धकुट्यां च योषिति । धीरा वीराकुब्जाभिदोर्धीरं पौष्कररक्तयोः ॥ ३८१ ॥ Śivakoṣa 22.2.381
- शब्दरत्नावली म्लेच्छस्त्रियां पुंसि तु लाङ्गुले न द्वयोस्तूलबर्हयोः । म्लेच्छोऽपभाषणे पापरक्तपामरभेदयोः ॥ Śabdaratnāvalī 7.7.6
- शब्दरत्नावली स्वजस्वजं क्लीबन्तु रक्ते स्यात् स्वजो ना धर्मपुत्रयोः । सज्जः स्यादपि सन्नद्धे आदृते निभृते त्रिषु ॥ Śabdaratnāvalī 7.8.18
- शब्दरत्नावली रोहितरोहितं कुङ्कुमे रक्ते सरलेन्द्रशरासने । रोहित् स्त्रियां मृगीवल्लीभिदोर्दिनकरे पुमान् ॥ Śabdaratnāvalī 7.16.129
- शब्दरत्नावली लोहितललितं हारभेदे स्याच्चलितेप्सियोस्त्रिषु । लोहितो तद्भिद्भौमरक्तेषु त्रिषु तद्वति ॥ Śabdaratnāvalī 7.16.130
- शब्दरत्नावली अङ्कुरअङ्गारस्तु पुमान् भौमे न स्त्रियायुल्मुकेऽपि च । अङ्कुरो रक्तपानीयलोमस्वभिनवोद्भिदि ॥ Śabdaratnāvalī 7.27.54
- शब्दरत्नावली रुधिरमुर्मुरः सूर्यतुरगे तुषाग्नौ च मनोभवे । रुधिरं कुङ्कुमे रक्ते स्यात्पुमान् मङ्गलग्रहे ॥ वटरः कुक्कुटे वेष्टे शठे चोरे च चञ्चले । वर्वरः पामरे केशे चक्रले शाकभिद्यपि ॥ पुष्पभेदे देशभेदे वर्वरा मक्षिकाभिदि । वर्करः स्याद्युवपशौ स्याच्छागपरिहासयोः ॥ Śabdaratnāvalī 7.27.97
- तन्त्राभिधान ररो रक्तः क्रोधिनी रेफः पावकस्तै(स्त्वौ)जसो मतः । प्रकाशो दर्शनो दीपो बत कृष्णः परं बली ॥ १४४ ॥ Tantrābhidhāna 2.44.144
- तन्त्राभिधान रभुजङ्गेशो मतिः सूर्यो धातुरक्तः प्रकाशकः । व्यापको रेवती दाम क्रौञ्चांशौ वह्निमण्डलम् ॥ १४५ ॥ Tantrābhidhāna 2.44.145
- तन्त्राभिधान रसंयुक्तं धूम्रभैरव्याः रक्तस्थं बलिभोजनम् । नादबिन्दु-समायुक्तं किङ्किणीबीजमुत्तमम् ॥द्रीं॥ Tantrābhidhāna 10.39
- तन्त्राभिधान र----------------------------------- नादबिन्दु-समायुक्तं रक्तस्थं बलिभोजनम् । कालरात्र्यासनोपेतं विशिखाख्यं महामनुम् ॥द्रुं॥ Tantrābhidhāna 10.40
- त्रिकाण्डशेष रागनृत्ये रणे खले रागे रङ्गः क्लीबे त्रपुण्यऽपि । रागः क्लेशादिके रक्ते मात्सर्थे लोहितादिषु ॥ ६८ ॥ Trikāṇḍaśeṣa 3.3.68
- त्रिकाण्डशेष अङ्गजस्यादङ्गजः स्मरे केशे पुत्रे रक्ते नपुंसकम् । उत्साहकार्तिकावूर्जौ कम्बोजो देशशङ्खयोः ॥ ८२ ॥ Trikāṇḍaśeṣa 3.3.82
- त्रिकाण्डशेष स्वजव्याजः शाठ्येऽपदेशे च स्वेदरक्तात्मजाः स्वजाः । निसर्गे सहजः पुंसि सहोत्थे वाच्यलिङ्गकः ॥ ८८ ॥ Trikāṇḍaśeṣa 3.3.88
- त्रिकाण्डशेष रोहितरिक्तं वनेऽपि रीतिस्तु लोहकिट्टारकूटयोः । रोहितमुजुक्रास्त्रे रक्ते ना मृगमीनयोः ॥ १८० ॥ Trikāṇḍaśeṣa 3.3.180
- त्रिकाण्डशेष रागिन्यक्षे चन्द्रे च राजा स्यात् रक्तः कामी च रागिणौ । गोपित्ते रोचना कूटशाल्मलौ रोचनः पुमान् ॥ २५६ ॥ Trikāṇḍaśeṣa 3.3.256
- त्रिकाण्डशेष वितानयोषिज्जिह्वा च ललना लाञ्छनं नामचिह्नयोः । रक्ते वितानमुल्लोचे विलग्नं मध्यलग्नयोः ॥ २५८ ॥ Trikāṇḍaśeṣa 3.3.258
- वैजयन्ती रागवत्रथ्यो रथहितेऽमुष्य स्वीयेऽस्याश्वे च वोढरि । रागवद्रोहितौ रक्तौ रामश्चारौ सितेऽसिते ॥ १४ ॥ Vaijayantī 6.4.14