कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सिन्दूर

sindūraक्ली · neut.

In 13 kośas: 15 synonym verses, 3 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1061 · p. 41
सिन्दूरं नागजं नागं रक्तं शृङ्गारभूषणम् ।चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ॥ १०६१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.177
डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् ।
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.288 · p. 92
काश्मीरजं पुष्परजः सङ्कोचं पीतकं वरम् ।घोरं चाग्निशिखं चापि जपपुष्पं प्रियङ्गु च ।नागोद्भवं तु सिन्दूरं कुङ्कुमेन समप्रभम् ॥ २८८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.563 · p. 195
करवीरापि कल्याणी शिलारोगः शिलाऽपि सा ।सिन्दूरोऽस्त्री रागरेणुर्द्वयोर्वीररजश्च षण् ॥ ५६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.102 · p. 472
ककुन्दरप्रान्तरयोः स्यादौशीरकुटीरयोः ।अपि सिन्दूरमण्डूरशिविराणामरस्य च ॥ १०२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.35 · p. 130
सिन्दूरं चीनपिष्टं च नागरेणुश्च नागजम् ।शृङ्गारभूषणं नागगर्भं श्रीमदपि स्मृतम् ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.65 · p. 132
यवनेष्टं सुवर्णारि सीसपत्रं वरिष्ट(ष्ठ ?)कम् ।सिन्दूरं तच्चीनपिष्टं सिन्दूरतिलकोऽस्त्रियाम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.7 · p. 107
सिन्दूर-दूरोदर-नागराणितीरोत्तर-प्रान्तर-चामराणि ।कटीर-वैरारर-पुष्कराणिमण्डूर-कुस्तुम्बुरु-चत्वराणि ॥ ७ ॥
उपजातिः
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.336 · p. 46
करवीरा नागजिह्वा सिन्दूरं नागजं पुनः ।शृङ्गारभूषणं नागरक्तं बोले शशः पुनः ॥ ३३६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.97 · p. 223
उशीरमक्षरं चैव सिन्दूरशिबिरोदरम् ।यवसं तरसं मत्सं विसमर्पिशकिल्बिषे ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.104 · p. 8
मेखला सप्तकी काञ्ची रसना क्षुद्रघण्टिका ।अञ्जनं कज्जलं दैपं सिन्दूरं[र] स्त्रीविभूषणम् ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1836 · p. 299
सिन्दूरं चीनपिष्टं च नागरक्तं च नागजम् ।शृङ्गारभूषणं चैव शृङ्गारमपि मन्यते ॥ १८३६ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.200 · p. 151
नागसम्भवसिन्दूरगान्धाररक्तवालुकम् ।समीवर्धनसीमन्तवरकं कामचन्द्रकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.33 · p. 76
कंसे तु कंसं कंसास्थि ताम्रार्धमथ मौक्तिकम् ।रसोपलं शुक्तिबीजं सिन्दूरं रक्तवालुकम् ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.118 · p. 132
नागोद्भवं तु सिन्दूरं कुंकुमेन समप्रभम् ।गवलं माहिषं शृंगं शशोर्णं शशलोमनि ॥ ११८ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.43 · p. 186
सिन्दूरं रक्तचूर्णं स्याद्राजलेखितदक्षिणे ।सिन्दूरो वृक्षभेदेऽपि सिन्दूरी रक्तचेलिका ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.71 · p. 327
सिन्दूर उक्तो नरि वृक्षभेदेस्त्री रोचनीलोहितचेलिकासु ।महौषधौ रक्तकरेणुकेऽन्त्येवल्लूरमन्त्ये किल वाहने स्यात् ॥ ७१ ॥
उपजातिः
शिवकोष Śivakoṣa · शिवदत्तमिश्र रत्रिः Śivakoṣa 22.3.416 · p. 38
शमीफले तु क्लीबं स्यात्सामुद्रं लवणाब्धिजे ।अम्बरोऽट्टविलासिन्यां सिन्दूरं नागसम्भवे ॥ ४१६ ॥
अनुष्टुप्

सिन्दूर as a meaning in nānārtha verses

  • धरणिकोश गान्धारभृङ्गारः कनकालुः स्याद्भृङ्गारी झिल्लिका मता । गान्धारोऽपि च सिन्दूरो ग्रामरागविशेषयोः ॥ Dharaṇikośa 26.2.54
  • शिवकोष रक्तरेणुमधुपर्ण्यमृताम्भोजाकाश्मरीनीलिनीषु च । रक्तरेणुस्तु सिन्दूरे पलाशस्य च कोरके ॥ १७० ॥ Śivakoṣa 11.3.170
  • शब्दरत्नावली रक्तरेणुरक्तरेणुः कोरके स्यात् सिन्दूरे च पलाशके । रागचूर्णः कामदेवे फल्गुके दन्तधावने(?) ॥ Śabdaratnāvalī 7.15.88
  • शब्दरत्नावली गान्धारखण्डाभ्रं न द्वयोर्दन्तक्षतभेदाभ्रलेशयोः । गणेरुः करिणीवेश्याकर्णिकारेषु च स्त्रियाम् ॥ गर्गरो मीनभेदेऽस्त्री मन्थन्यां न पुमानयम् । गह्वरन्तु गुहादम्भवने कुञ्जे तु पुंस्यपि ॥ गान्धारो रागसिन्दूरदेशभेदेषु पुंस्ययम् । घर्घरो नदभेदे ना स्यादुलूके च निर्झरे ॥ Śabdaratnāvalī 7.27.71