हिङ्गुल
hiṅgulaपुं · masc.In 16 kośas: 18 synonym verses, 2 as a nānārtha head word, 12 as a meaning of another word.
सिन्दूरं नागजं नागं रक्तं शृङ्गारभूषणम् ।चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ॥ १०६१ ॥
अनुष्टुप्
genderपुंmasc.
हिङ्गुलं हंसपादं च कुरुविन्दं निगद्यते ।सारघं माक्षिकं क्षौद्रं मधु पुष्परसस्तथा ॥ ६२१ ॥
अनुष्टुप्
genderक्लीneut.
हिड्गुलि(लिः) हिड्गुलः प्रोक्तः स्फटिकं स्फाटिकं भवेत् ।आमीक्षा स्यात्तथाऽमीक्षा कूर्चिका कुर्चिका समे ॥ २३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
genderपुंmasc.doubtful
सौभाग्यमपि शृङ्गारमथ हिङ्गुलमस्त्रियाम् ।सुरङ्गं कर्बुरं रक्तं हिङ्गुलं चूर्णपारदम् ॥ ५६५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
समञ्जं हिङ्गुलं वार्क्षं कक्षं काननयित्यपि ।दवदावावुभौ पुंसि प्रस्तारोऽपि झषोऽपि च ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
हिङ्गुलस्तु नदीकान्तो जलजो दीर्घपत्रकः ।नदीजो निचुलो रक्तः कामुकश्चाथ चण्डिका ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि ।खलोल्लोलपोटगलरुण्डोलानां … ॥ ६० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
रक्तचूर्णं च गन्धारं रक्तवालुकमित्यपि ।वसन्तमण्डनं चाथ हिङ्गुलिर्हिङ्गुलोऽस्त्रियाम् ॥ ३३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हिङ्गुलश्चेञ्जलो[23a]गुच्छफलः स्यात्कक्षपोलिका ।क्षीरिणः पिप्पल-प्लक्ष-वरोदुम्बर-वेतसाः ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हिडिम्बस्तु पुमान् भीमसेनेन निहतेऽसुरे ।हिडिम्बा तु स्त्रियां तस्य भगिन्यामथ हिङ्गुलः ॥ २०३८ ॥
अनुष्टुप्
genderपुंmasc.
प्राणो गोपरसः पिण्डस्तथा गन्धरसः स्मृतः ।कुरुविन्दो हंसपादो हिङ्गुलोऽथ शिलाजतु ॥ ३३७ ॥
अनुष्टुप्
genderपुंmasc.
जनाभिजनफेनाश्च वृत्रमन्त्रौ च देवलः ।खल्लतल्लौ तु कल्लोलपूपापूपकहिङ्गुलाः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
हङ्गुलो हिङ्गुलुश्चैव हंसपादः प्रसिद्धकः ।कुरुविन्दं च नामानि कथ्यन्ते हिङ्गुलस्य वै ॥ १८३७ ॥
अनुष्टुप्
genderपुंmasc.
हिङ्गुलुर्हिङ्गुलोऽपि स्याद् रक्तपारद-पारदौ ।मेषलोमनिर्मिते स्यादुर्णायुर्मेषकम्बलः ।शशोर्णं शशलोम स्यात्तेनापि शशकम्बलः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderपुंmasc.
हंसपादे हिङ्गुलोऽस्त्री हिङ्गुलुः स्यादथाश्मजे ।गिरिजं गैरेयं शैलं शैलेयं च शिलाजतु ॥ ८५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 रे (wrong syllable)
genderपुंक्लीm. n.
कुरुविन्दं हंसपादं हिङ्गुलं जातिलिङ्गकम् ।मनःशिला तु कुनटी नागजिह्वा महारसा ॥ ४२५ ॥
अनुष्टुप्
genderक्लीneut.
हिङ्गुलस्त्वस्त्रियाम् ॥ २३३ ॥
genderपुंक्लीm. n.
हरिताले तु कर्बूरं गोदन्तो नटसंज्ञकः ।दारदं तु हिड्गुलु स्याद्धिङ्गुलं रक्तरपारदम् ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.doubtful
(ना ? दा) रदाख्ये रागद्रव्यधातुभेदे स्त्रियां त्वियम् ।वार्ताक्यां हिङ्गुली तस्याः पुनर्भेदेऽध्यगीष्ट ताम् ॥ २०३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रा (syllables merged)
हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली ।
meaningsवर्णकद्रव्य
हिङ्गुल as a meaning in nānārtha verses
- धरणिकोश दारदजलदौ मुस्तकाम्भोदौ दारदौ विषहिङ्गुलौ । नलदमुशीरमांस्योः प्रह्लादो दैत्यशब्दयोः ॥ Dharaṇikośa 17.1.5
- कोषकल्पतरु दारदस्वरे निषादः श्वपचे प्रसाद- स्त्वनुग्रहे काव्यगुणे प्रसत्तौ । स्वाच्छ्ये नवे च प्रतिभेऽप्यधृष्टे पीते तु मुद्गे नरि शारदः स्यात् । स्त्री सप्तप[5b]र्णेऽम्बुकणागतश्च स्याद्दारदः पारदहिङ्गुलार्थः । विषेऽप्यथो सर्पिषि तोयदं स्या- न्ना मुस्तके वारिधरेऽपि तद्वत् ॥ ३४ ॥ Koṣakalpataru 6.19.34
- कोषकल्पतरु कुरुविन्दमुनिदैत्यद्रुमभेदे मुचुकुन्दो मुस्तके व्रीहौ । कुरुविन्दः कुल्माषे माणिक्ये हिङ्गुले मुकुरे ॥ ४६ ॥ Koṣakalpataru 6.19.46
- नानार्थार्णवसंक्षेप रसकषायभोजनान्नेषु स्नेहे हिङ्गुलबोलयोः । लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ १०७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1079
- नानार्थार्णवसंक्षेप कुरुविन्दकुरुविन्दो रत्नभेदे मु?तके हिङ्गुले तथा । आरण्यक्षुद्रधान्यानां सप्तानामेकधान्यके ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 6.53
- परमानन्दीयनाममाला कुरुविन्दकुरुविन्दास्तु कुल्माषमुस्ताहिङ्गुलदर्पणाः । कृकवाकुस्ताम्रचूडे मयूरे कृकलासके ॥ १४३ ॥ Paramānandīyanāmamālā 5.7.143
- शिवकोष रक्तपीता तेजोवतीदार्वीरजनीरोचनासु च । रक्तो रोहिणि कम्पिल्ले रक्तं हिङ्गुलताम्रयोः ॥ १८२ ॥ Śivakoṣa 12.1.182
- शिवकोष कुरुविन्दकुरुविन्दोऽष्ठकुल्माषमाणिक्यव्रीहिभित्सु च । क्लीबं तु काचलवणे रक्तपर्णे च हिङ्गुले ॥ २२९ ॥ Śivakoṣa 14.3.229
- शब्दरत्नावली दारदतरत्प्लवे स्त्रियामेव कारण्डविहायसि । दरत्प्रपाते भीतौ च रोगभेदे च पर्वते ॥ दारदः पारदे पुंसि विषभेदे च हिङ्गुले । दायादस्तनये पुंसि सपिण्डे च सगोत्रके ॥ नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥ Śabdaratnāvalī 7.18.15
- शब्दरत्नावली रामारेणुकातनये पुंसि त्रिषु चारुसितासिते । वास्तूककुष्ठयोः क्लीबं नारी हिङ्गुलयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.25.19
- शब्दरत्नाकर कुरुविन्दकरहाटोऽम्बुजादीनां शिफायां देशभूरुहोः । कुरुविन्दो रत्नभेदे मुस्तायां हिङ्गुलेऽपि च ॥ २२०७ ॥ Śabdaratnākara 4.1.2207
- वैजयन्ती कुरुविन्दकुरुविन्दो हिङ्गुलेऽपि मुस्तेऽप्यथ गुहाशयः । ऋक्षे सिंहे च कूर्मे च ग्रहराजोऽर्कचन्द्रयोः ॥ २१ ॥ Vaijayantī 8.1.21