त्रपु
trapuक्ली · neut.In 18 kośas: 19 synonym verses, 6 as a nānārtha head word, 6 as a meaning of another word.
नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम् ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
सीसकं सीसपत्रं स्याद्वङ्गं च मधुकं त्रपु ।रजतं कलधौतं च रूप्यं तारं च कथ्यते ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
वङ्गं स्यादस्त्रियां रङ्गं पूतिगन्धं हिमस्रवम् ।त्रपु क्लीबे पुंसि वा स्यात्त्रपुषं चीनचिप्पटे ॥ ५४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सर्वं तु तै[16b]जसं लोहं तान्यष्टौ हेमरूप्यकम् ।ताम्रं रीतिः सीस-कांस्ये त्रपु पारशवं तथा ॥ ४८ ॥
metre not recognised
genderक्लीneut.
वङ्ग रङ्गः स्वर्णभवं पिच्चटं नागजीवनम् ।मृद्वङ्गं तमरं चक्रसंज्ञं कास्तीरकं त्रपु ॥ ६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
genderक्लीneut.
वङ्गं सीसं च योगेष्टं त्रपु स्यान्मुखभूषणम् ।अयः कृष्णायसं लोहं तीक्ष्णं कालायसं मतम् ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
गण्डूपदभवं वप्रं योगेष्टं च सुवर्णकम् ।कस्तीरं त्रपु वङ्गं च नागजं नागजीवनम् ॥ ३२० ॥
अनुष्टुप्
genderक्लीneut.
सुवर्णं रजतं ताम्रं रितिः कांस्यं तथा त्रपु ।सीसं नदीवरं चैव अष्टौ लोहानि चक्षते ॥ ५४१ ॥
अनुष्टुप्
genderक्लीneut.
रङ्गं चङ्गं त्रपुः शीतं नागं सर्पाह्वसीसके ।अभ्रकं गगनाकाशौ गन्धकं शक्तिशुक्रकम् ॥ २४९ ॥
अनुष्टुप्
genderक्लीneut.
कांस्यं घण्टास्वनं ज्ञेयं रीतिः स्यात्पीतलोहकम् ।रङ्गं सीसं च योगेष्टं त्रपु स्यान्मुग्धभूषणम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
आलीनकं तथाऽऽलीनं सलवणं च सिंहलम् ।परासं गुरुपत्रं च तमरं त्रपु पिच्चटम् ॥ १८०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderक्लीneut.
सीसकं वप्रयोगेष्टनागवध्रानि पिच्चटम् ।सीसपत्रं सुवर्णारिः स्यात् त्रपु त्रपुरित्यपि ॥
अनुष्टुप्
genderक्लीneut.
पुरेतनागमृद्वङ्गरङ्गवङ्गत्रपूति च ।पिचुतूलस्तूलपिचुस्तूलश्च पिचुस्तूलकम् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
औदुम्बरं वरिष्ठं स्यात् त्रिकवर्गद्वितीययुक् ।वङ्गे त्रपु त्रपुस्तपुर्द्वे सान्ते त्रीणि षण्ढके ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्त (wrong syllable)
genderक्लीneut.
सीसोऽस्त्री त्रपुसं च स्याद्योगेष्टं भुजगाह्वयम् ।त्रपु नागं चीनपट्टं हेमघ्नं यवनेष्टकम् ॥ ४२२ ॥
अनुष्टुप्
genderक्लीneut.
रङ्गं त्रपुविकारे तु त्रिषु त्रापुषमित्यदः ।गुरुपत्रं त्रपु क्षोभ्यं पिच्छटं मुखभूषणम् ॥ ४२३ ॥
अनुष्टुप्
genderक्लीneut.
स्यादारकूटो रीतिश्च सीसकं त्रपु बन्धकम् ।नागं महाबलश्चैव योगेष्टं वमुनेष्टकम् ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
यवनेष्टं समोलूकं हेमघ्नं भृतलोद्भवम् ।त्रपु नागं चीनपट्टं रङ्गमप्यथ पिच्छटम् ॥ ३० ॥
अनुष्टुप्
genderक्लीneut.
रङ्गं वङ्गं त्रपु क्षोभ्यं मृद्वङ्गं नागजीवनम् ।परासं सिंहलं ज्येष्ठं वक्राख्यं मुखभूषणम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
आक्रोशे शपथे च शाप उदितः स्वापस्तु निद्राज्ञता-स्पर्शाज्ञत्व उदीरितस्त्रपु पुनः स्यात्सीसके रङ्गके ।नीपो धूलिकदम्बरायधरयो(?)नीलेऽप्यशोके तथागोष्ठग्रामगणाधिकारिणि नृपे गोपो भवेद्बल्लवे ।गोपी तु गोपाल[26a]नितम्बिनी स्या-त्स्यात्सारिकायामपि रक्षिकायाम् ।क्षेपो विलम्बेऽपि च निन्दने नाहेलामदप्रेरणलङ्घनार्थाः ॥ ४ ॥
शार्दूलविक्रीडितम्two metres in one verse
त्रपु as a meaning in nānārtha verses
- कोषकल्पतरु रङ्गभङ्गस्तरंगेऽपि ऋचां विभेदे पराजये स्त्री तु शणोन्मदिन्योः । रङ्गो रणे दुःप्रकृतौ च रागे क्लीबे त्रपुण्येनमुदाहरन्ति ॥ १ ॥ Koṣakalpataru 6.3.1
- कोषकल्पतरु पिच्चटवार्ताकपुष्पे जकुटो यमोत्थे ऽस्त्री सारमेये त्रपुसीसयोस्तु । स्यात्पिच्चटो दृष्टिगदेऽथ वाट्यां क्षेत्रे कपाटे नरि निष्कुटः स्यात् [272a] ॥ २८ ॥ Koṣakalpataru 6.10.28
- नानार्थार्णवसंक्षेप ज्येष्ठत्रपुह्रीबेरयोस्तु क्ली स्याल्लोहे नीलिकाह्वये । अपि द्वयोस्तु हंसेऽथ ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ ४८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.489
- नानार्थार्णवसंक्षेप वङ्गतस्यापत्येषु बहुषु वङ्गाः पुंभूम्नि नप् पुनः । त्रपुणि स्यान्नृस्त्रियोस्तु गतौ वङ्गा भवेत् तु ना ॥ ११८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1182
- शब्दरत्नावली रङ्गरङ्गो नृत्ये रणस्थाने रागे रङ्गं त्रपुन्यपि ॥ Śabdaratnāvalī 7.3.21
- त्रिकाण्डशेष रङ्गनृत्ये रणे खले रागे रङ्गः क्लीबे त्रपुण्यऽपि । रागः क्लेशादिके रक्ते मात्सर्थे लोहितादिषु ॥ ६८ ॥ Trikāṇḍaśeṣa 3.3.68