कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निहिंसन

nihiṃsanaक्ली · neut.

In 4 kośas: 4 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.115
प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥प्रवासनं परासनं निषूदनं निहिंसनम् ।निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥निस्तर्हणं निहननं क्षणनं परिवर्जनम् ।निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥उद्वासनप्रमथनक्रथनोज्जासनानि च ।आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.397 · p. 76
निषूदनं विघातनं निहिंसनं विहिंसनम् ।निहननं विहननं विशंसनं विशारणम् ॥ ३९७ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.394 · p. 136
क्षयः क्षतिः क्षितिश्चैव क्षयमात्रे भवेत् त्रयम् ।स्याद्वधो मारणं हिंसा घातनं च निहिंसनम् ।प्रमापनं संज्ञपनं क्षणनञ्च विदारणम् ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.213 · p. 121
निर्वापणं निरसनं निर्ग्रन्थननिहिंसने ।प्रमापणं प्रमथनं प्रवासनमपासनम् ॥ २१३ ॥
अनुष्टुप्
genderक्लीneut.