कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उन्माथ

unmāthaपुं · masc.

In 15 kośas: 13 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.932 · p. 37
उन्माथः कूटयन्त्रं स्याद्विवर्णस्तु पृथग्जनः ।इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ ९३२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.115
प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥प्रवासनं परासनं निषूदनं निहिंसनम् ।निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥निस्तर्हणं निहननं क्षणनं परिवर्जनम् ।निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥उद्वासनप्रमथनक्रथनोज्जासनानि च ।आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.26
उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.782 · p. 89
उन्माथः कूटयन्त्रं स्यादवपातोऽवटः स्मृतः ।धर्मः स्वभावः आत्मा स्यादवेक्षा प्रतिजागरः ॥ ७८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.54 · p. 208
वीतंसो स्त्री पक्षिमृगबन्धोपकरणे पुमान् ।उन्माथः कूटयन्त्रं स्याद्वागुरा च द्वयोः स्त्रियाम् ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 269
पुंस्यालम्भ-निशुम्भ-पिञ्ज-विशरोन्माथाश्च घातो वधोमारोऽपि प्रथमोऽस्त्रियां निगदिते संज्ञप्ति-हिंसे स्त्रियौ ।क्लीबे स्युः प्रतिघातनं विशसनं व्यापादनं वर्जनंकिंचापासन-मारण-प्रशमन-प्रोज्जासनोद्वासनम् ॥ ६८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.33 · p. 297
उन्माथः कूटयन्त्रं स्याद्वागुरा मृगजालिका ।जालिकः स्याद्वागुरिकोऽथावपातावटौ समौ ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.203 · p. 34
पिञ्जस्तु घात उन्माथो विशरः प्रमथो वधः ।उद्वासनं प्रशसनं क्षणनं परिवर्जनम् ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.600 · p. 103
उन्माथो मथनं चैव मथ(न्थ?)नं कूटयन्त्रकम् ।मृग्या च मृगवादी च वागुरा मृगबन्धनी ॥ ६०० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1579 · p. 253
उन्माथः कूटयन्त्रं च पाशयन्त्रं पुनः खलु ।नामान्येतानि कथ्यन्ते पश्वादेर्ग्रहणे सदा ॥ १५७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.42 · p. 156
अथ चौरधने लोत्रं लोतं लोत्रञ्च लुप्तवत् ।वीतंसं मृगपक्ष्यादिबन्धोपकरणेऽपि च ।उन्माथः कूटयन्त्रं स्यादुन्मथः शूलयन्त्रके ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1540 · p. 186
जालिकः स्याद्वागुरिको वागुरा मृगबन्धनी ।उन्माथः कूटयन्त्रं स्याच्छल्यमस्त्री शलाकिका ॥ १५४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.40 · p. 139
दक्षिणेर्मा तु स मृगो यो लुब्धैर्दक्षिणे हतः ।वैतंसिकः शाकुनिक उन्माथः कूटयन्त्रकम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास थार्धश्लोकः Dharaṇikośa 16.2.7 · p. 90
अश्वत्थस्तरुभेदे स्यादश्वत्थः पूर्णिमातिथिः ।उन्माथः पाशयन्त्रे स्यादुन्मा[47]थो वधघातयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.5 · p. 232
उन्माथ उक्तो नरि कूटयन्त्रेस्यान्मारणे घातकवाचकश्च ।ना पार्षदे स्यात्प्रमथो हरस्यहरीतकीवाचक एष च स्त्री ॥ ५ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.266 · p. 69
शाकजातिविशेषस्य मारिषाख्यस्य भेदके ।देवमारिषसंज्ञेऽथो उन्माथः पाशयन्त्रके ॥ २६६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.267 · p. 69
ना हिंसायामथोन्मार्गे त्रिः स्रुवे चाजयोऽब्रवीत् ।उत्साहोऽध्यवसाये ना सूत्रे च रभसोऽब्रवीत् ॥ २६७ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.65 · p. 169
उदारो दक्षिणे दानशौण्डे तूच्छ्रितमुन्नते ।उन्माथः कूटयन्त्रे स्याद्वधघातकयोरपि ॥ ६५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश थान्ताः Śabdaratnāvalī 7.17.10 · p. 227
अव्यथा पथ्याचारटयोः पुंसि निर्व्यथसर्पयोः ।उन्माथः कूटयन्त्रे ना मारणे घातनेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.196 · p. 158
उन्माथः कूटयन्त्रेऽपि कुथः कम्बलबर्हिषोः ।काशे क्षुते च क्षवथुर्ग्रन्थो द्वात्रिंशदक्षरे ॥ १९६ ॥
अनुष्टुप्