कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

द्वितीयं काण्डम् · क्षत्रियवर्गः (2/2)

याष्टीकपारश्वधिकौ यष्टिपर्श्वधहेतिकौ ।
2.8.121
अनुष्टुप्
नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ ॥ ७० ॥
2.8.70
अनुष्टुप्
चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः ।
2.8.123
अनुष्टुप्
अनुप्लवः सहायश्चानुचरोऽभिचरः समाः ॥ ७१ ॥
2.8.71
अनुष्टुप्
पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः ।पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥
2.8.72
अनुष्टुप्
जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ ।
2.8.126
अनुष्टुप्
तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ॥
2.8.73
अनुष्टुप्
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ।
2.8.128
अनुष्टुप्
जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥
2.8.74
अनुष्टुप्
सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ।
2.8.130
अनुष्टुप्
ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥
2.8.75
अनुष्टुप्
स्वादुरस्वानुरसिलो रथिरो रथिको रथी ।
2.8.132
अनुष्टुप्
कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥
2.8.76
अनुष्टुप्
शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः ।
2.8.134
अनुष्टुप्
सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥
2.8.77
अनुष्टुप्
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ।वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥
2.8.78
अनुष्टुप्
व्यूहस्तु बलविन्यासो भेदादण्डादयो युधि ।
2.8.137
अनुष्टुप्
प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥
2.8.79
अनुष्टुप्
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।
2.8.139
अनुष्टुप्
आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८२ ॥
2.8.82
अनुष्टुप्
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
2.8.141
अनुष्टुप्
कोटिरस्याटनी गोधातले ज्याघातवारणे ॥ ८४ ॥
2.8.84
अनुष्टुप्
लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः ।
2.8.143
अनुष्टुप्
स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥
2.8.85
अनुष्टुप्
लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ।
2.8.145
अनुष्टुप्
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः ।
2.8.146
अनुष्टुप्
प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥
2.8.87
अनुष्टुप्
निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ।
2.8.148
अनुष्टुप्
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ।कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
2.8.89
अनुष्टुप्
त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् ।
2.8.150
अनुष्टुप्
फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥
2.8.90
अनुष्टुप्
द्रुघणो मुद्गरघनौ स्यादीली करवालिका ।
2.8.152
अनुष्टुप्
भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ॥ ९१ ॥
2.8.91
अनुष्टुप्
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः ।
2.8.154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्या (syllables merged)
स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका ॥ ९२ ॥
2.8.92
अनुष्टुप्metre not read in every line
वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् ।
2.8.156
अनुष्टुप्
प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९३ ॥
2.8.93
अनुष्टुप्
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः ।
2.8.158
अनुष्टुप्
लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥ ९४ ॥
2.8.94
अनुष्टुप्
यत्सेनयाभिगमनमरौ तदभिषेणनम् ।
2.8.160
अनुष्टुप्
यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः ॥ ९५ ॥
2.8.95
अनुष्टुप्
स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् ।
2.8.162
अनुष्टुप्
अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥
2.8.96
अनुष्टुप्
वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः ।
2.8.164
अनुष्टुप्
स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः ॥ ९७ ॥
2.8.97
अनुष्टुप्
संशप्तकास्तु समयात्संग्रामादनिवर्तिनः ।
2.8.166
अनुष्टुप्
रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ॥ ९८ ॥
2.8.98
अनुष्टुप्
चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले ।
2.8.168
अनुष्टुप्
पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥
2.8.99
अनुष्टुप्
सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा ।
2.8.170
अनुष्टुप्
अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम् ॥ १०० ॥
2.8.100
अनुष्टुप्
आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ।
2.8.172
अनुष्टुप्metre not read in every line
अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः ॥ १०१ ॥
2.8.101
अनुष्टुप्metre not read in every line
द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ।शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥
2.8.102
अनुष्टुप्metre not read in every line
वीरपानं तु यत्पानं वृत्ते भाविनि वारणे ।युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ।अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः ।अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ।
2.8.175
अनुष्टुप्
नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले ॥ १०६ ॥
2.8.106
अनुष्टुप्
क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा ।
2.8.177
अनुष्टुप्
क्रन्दनं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥
2.8.107
अनुष्टुप्
विस्फारो धनुषः स्वानः पताहाडम्बरो समौ ।
2.8.179
अनुष्टुप्
प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् ॥ १०८ ॥
2.8.108
अनुष्टुप्
अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम् ।
2.8.181
अनुष्टुप्
मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥
2.8.109
अनुष्टुप्
अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः ।
2.8.183
अनुष्टुप्
वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥
2.8.110
अनुष्टुप्
प्रद्रावोद्द्रावसंद्रावसंदावा विद्रवो द्रवः ।अपक्रमोऽपयानं च रणे भङ्गः पराजयः ॥ १११ ॥
2.8.111
अनुष्टुप्
पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ।
2.8.186
अनुष्टुप्metre not read in every line
प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥प्रवासनं परासनं निषूदनं निहिंसनम् ।निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥निस्तर्हणं निहननं क्षणनं परिवर्जनम् ।निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥उद्वासनप्रमथनक्रथनोज्जासनानि च ।आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥
2.8.115
अनुष्टुप्metre not read in every line
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ।अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
2.8.116
अनुष्टुप्
परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ।मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥
2.8.117
अनुष्टुप्
कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् ।
2.8.190
अनुष्टुप्
श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् ॥ ११८ ॥
2.8.118
अनुष्टुप्
प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये ।
2.8.192
अनुष्टुप्
पूंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ ११९ ॥
2.8.119
अनुष्टुप्
आयुर्जीवितकालो ना जीवतुर्जीवनौषधम् ।
2.8.194