कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

भूमिकाण्डः · ब्रह्मवर्गप्रकाशः (4/4)

प्रतिसन्धानिका भट्टा मागधा मधुकाश्च ते ।बलवीर्यप्रभावज्ञा अग्रतः स्तुतिकारकाः ॥
3.6.361 · p. 134
अनुष्टुप्
ते स्युर्वन्द्यचराः सर्वे वन्दिनः स्तुतिपाठकाः ॥
3.6.362 · p. 134
सर्वेषां वन्दिनां पाठे भवेद्भागावलिः स्त्रियाम् ।ते रथसंसप्तकोऽपि स्यात् संसप्तक इति द्वयम् ॥
3.6.363 · p. 134
अनुष्टुप्
उल्कासमय इत्येवं संग्रामादनिवर्तिनः ।पुंसि पांशुर्द्वयोरेणुर्धूलिर्धूली रजो रजम् ॥
3.6.364 · p. 135
अनुष्टुप्
पांसुः क्षितिकणः क्षोदश्चूर्णं दृष्टमहीद्रवः ।वातकेतुर्नभःकेतुः कणा क्षितिकणोति च ॥
3.6.365 · p. 135
अनुष्टुप्
चूर्णं क्षोदश्चूर्णमात्रे क्वचित् केचित् प्रचक्षते ।उत्पिञ्जः पिञ्जलोऽपि स्यात् समुत्पिञ्जल इत्यपि ॥
3.6.366 · p. 135
अनुष्टुप्
अत्यर्थव्याकुले पुंसि त्रय एते प्रकीर्तिताः ॥
3.6.367 · p. 135
पताका च पटाका च जयन्ती वैजयन्तिका ।ध्वजोऽस्त्री वैजयन्ती च कदली कन्दलीति च ॥
3.6.368 · p. 135
अनुष्टुप्
केतुः कदलिका व्योममण्डनं केतनं तथा ।स्त्री ककुत् ककुदं क्लीबे राजचिह्ने भवेद्द्वयम् ॥
3.6.369 · p. 135
अनुष्टुप्
भयप्रदा युद्धभूमिर्वीराशंसनमीरितम् ।अक्षवाटः रङ्गभूमिर्मल्लभूमिः रणस्थली ॥
3.6.370 · p. 135
अनुष्टुप्
मुहुर्मुहुरहं पूर्वमित्यहंपूर्विका हि सा ।आत्मनि सम्भावना दर्पात् साहोपुरुषिका भवेत् ।सा स्यादहमहमिका परस्परमहंकृतिः ॥
3.6.371 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 3, syllable 4 ह (wrong syllable)
शक्तिर्बलं तरः शौर्यं सहः स्थाम च शुष्म च ।शुष्मं पराक्रमप्राणौ सहं सामर्थ्यमात्रके ॥
3.6.372 · p. 135
अनुष्टुप्
विक्रमस्त्वतिशौर्ये स्याद् वृत्ते भाविनि वा रणे ।यत् पानं वीरपाणन्तु वीरपानं तदुच्यते ॥
3.6.373 · p. 135
अनुष्टुप्
युद्धमास्कन्दनं जन्यं प्रधनं साम्परायिकम् ।मृधमायोधनं संख्यं समीकं प्रविदारणम् ॥
3.6.374 · p. 135
अनुष्टुप्
अभ्यामर्दः सम्प्रहारो विग्रहः कलहः कलिः ।अभ्यागमोऽभिसम्पातसंग्रामाहवसंयुगाः ॥
3.6.375 · p. 135
अनुष्टुप्
समुदायः समाघातः संस्फोटः सम्परायकः ॥
3.6.376 · p. 135
सम्परायः समुदयो विदारो दारणापि च ॥
3.6.377 · p. 135
अस्त्रियस्त्रय एते स्युरनीकः समरो रणः ।नियुद्धं मल्लयुद्धञ्च बाहुयुद्धं समीरितम् ॥
3.6.379 · p. 135
अनुष्टुप्
अन्योन्यरणसंघट्टे तुमुलं तुमुलोऽपि च ॥
3.6.380 · p. 135
हस्तियुद्धसमालोकैः सिंहानामिव गर्जिते ।क्षेडा च सिंहनादश्च क्षेडितं परभञ्जने ॥
3.6.381 · p. 136
अनुष्टुप्
एकतः सज्जनं युद्धात् करिणां घटना भवेत् ।क्रन्दनं योधसंरावे बृंहितं हसिगर्जिते ॥
3.6.382 · p. 136
अनुष्टुप्
धनुःस्वाने च विस्फारो विस्फारोऽपि च निगद्यते ।तथा पटहनिस्वाने आडम्वर उदाहृतः ॥
3.6.383 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हठात्कार-बलात्कारौ प्रसभन्तु हठेऽपि च ।वीराणां कूटयुद्धादौ स्खलादौ स्खलनं छलम् ॥
3.6.384 · p. 136
अनुष्टुप्
पूर्वं स्खलनमप्युक्तं नाड्यादौ धैर्य्यविच्युतेः ।उत्पात उपसर्गः स्यादजन्यमपि न द्वयोः ॥
3.6.385 · p. 136
अनुष्टुप्
कक्षा स्पर्धा प्रतिस्पर्धा परिकक्षा च कुत्रचित् ।मोहो मुर्च्छा कश्मलञ्च मूर्छनञ्चापि कुत्रचित् ॥
3.6.386 · p. 136
अनुष्टुप्
परचक्रादौ पीडायामवमर्दस्तु पीडनम् ।अभ्यवस्कन्दनं त्वभ्यासादनञ्च समं द्वयम् ॥
3.6.387 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दौ (wrong syllable)
विपक्षाणां प्रहारेषु निर्भरेषु निगद्यते ।जयो विजय इत्येष भवेत् परपराभवे ॥
3.6.388 · p. 136
अनुष्टुप्
प्रतिकार-प्रतीकारौ वैरनिर्यातनं तथा ।निर्यातनं वैरशुद्धिर्वैरोद्धारो निगद्यते ॥
3.6.389 · p. 136
अनुष्टुप्
अथ प्रद्राव उद्राव-विद्रावौ द्रवविद्रवौ ।द्रावसन्द्रावापद्रवौ अपयानं शृगालिका ॥
3.6.390 · p. 136
अनुष्टुप्metre not read in every line
संदावोऽपक्रमश्चैव चंक्रमश्च पलायने ।भङ्गः पराजयो हारी हारिश्चापि पराभवे ॥
3.6.391 · p. 136
अनुष्टुप्
लुण्टा लुण्ठा च लुण्टी च लुण्ठी लुण्ठनमित्यपि ।पराजिते पराभूतो विजितो निर्जितो जितः ॥
3.6.392 · p. 136
अनुष्टुप्
नष्टस्तिरोहितो लुप्ते पराजितादयस्त्रिषु ।हरिणीहृदयो भीरुर्भेलकश्च पलङ्कटः ॥
3.6.393 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जि (wrong syllable)
क्षयः क्षतिः क्षितिश्चैव क्षयमात्रे भवेत् त्रयम् ।स्याद्वधो मारणं हिंसा घातनं च निहिंसनम् ।प्रमापनं संज्ञपनं क्षणनञ्च विदारणम् ॥
3.6.394 · p. 136
अनुष्टुप्
निकारणं निर्वहणं निसूदनमपासनम् ।निस्तर्हसां प्रमथनं कथनं प्रतिघातनम् ॥
3.6.395 · p. 136
अनुष्टुप्
उज्जासनं विशसनं कदनं परिवर्जनम् ।निर्वापणं समाघातो निर्ग्रन्थनं परासनम् ॥
3.6.396 · p. 136
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्थ (wrong syllable)
घात उन्मन्थ आलम्भो मारिर्मारी प्रवासनम् ।विशरः पिञ्ज उत्पानः परिघः परिघातनम् ॥
3.6.397 · p. 137
अनुष्टुप्
मारको मरको मारः संघातोऽपि च घातनम् ।अथाघातो वधस्थानं प्रघात इति कुत्रचित् ॥मरणं प्रलयो नाशः कालधर्मश्च पञ्चता ।द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥
3.6.398 · p. 137
अनुष्टुप्
विलयोऽत्ययोदिष्टान्तश्चान्त आत्ययिक सृतिः ।मृतः प्रेतः परेतश्च परासुः संस्थितोऽपि च ॥
3.6.399 · p. 137
अनुष्टुप्metre not read in every line
प्रमृतः प्राप्तपञ्चत्वस्त्रिष्वेते हि मृतादयः ।चिता चीता चितिश्चित्या चीतिः काष्ठमठीत्यपि ॥
3.6.400 · p. 137
अनुष्टुप्
दाहभूमौ चूल्लिचूडश्चूल्लिचूडक इत्यपि ।कवन्धोऽस्त्री शिरोहीने क्रियायुक्तकलेवरे ॥
3.6.401 · p. 137
अनुष्टुप्
श्मशानं स्यात् पितृवनं रुद्राक्रीडः शतानकम् ।अस्त्री शरं स्यात् कुनपः क्षितिर्वर्धन इत्यपि ॥
3.6.402 · p. 137
अनुष्टुप्
खाटिः खाटी शवरथे खाटिकापि च सा स्मृता ।शवारोहणशय्यायां खट्वी वारुठ इत्यपि ॥
3.6.403 · p. 137
अनुष्टुप्
संस्क्रिया सत्क्रिया चेति संस्कारोऽपि निगद्यते ।वन्दिर्वन्दी वन्दिका च प्रग्रहोपग्रहौ तथा ॥
3.6.404 · p. 137
अनुष्टुप्
याचक वसुकीटः स्यात् सौप्तिकं रात्रियुद्धके ।हस्तादिवर्जिते वण्डः कवन्धे रण्ड इत्यपि ॥
3.6.405 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
पञ्चावस्थः कवसरी (?) अवस्थापनमानुषे ।काराबन्धनगेहे स्यात् सौप्तिकं रात्रिमारणे ॥
3.6.406 · p. 137
अनुष्टुप्
असवः पुंसि भूम्न्येव प्राणाश्च तत्र कीर्तिताः ।प्राणधारणमेव स्यात् जीवो जीवितमित्यपि ॥
3.6.407 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
आयुरायुः क्लीबलिङ्गं जीवकाले निगद्यते ।पुंसिक्लीबे च जीवातुः पुंस्येके जीवनौषधे ॥
3.6.408 · p. 137
अनुष्टुप्