कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उद्वासन

udvāsanaक्ली · neut.

In 9 kośas: 8 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.36 · p. 19
व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् ।निस्तर्हणं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रनिघातनं वधः ॥ ३७० ॥प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः ।निर्वापणालम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि ॥ ३७१ ॥अपासनं वर्जनमारपिञ्जा निष्कारणाक्राथविशारणानि ।
metre not recognised
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.115
प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥प्रवासनं परासनं निषूदनं निहिंसनम् ।निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥निस्तर्हणं निहननं क्षणनं परिवर्जनम् ।निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥उद्वासनप्रमथनक्रथनोज्जासनानि च ।आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 269
पुंस्यालम्भ-निशुम्भ-पिञ्ज-विशरोन्माथाश्च घातो वधोमारोऽपि प्रथमोऽस्त्रियां निगदिते संज्ञप्ति-हिंसे स्त्रियौ ।क्लीबे स्युः प्रतिघातनं विशसनं व्यापादनं वर्जनंकिंचापासन-मारण-प्रशमन-प्रोज्जासनोद्वासनम् ॥ ६८ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.203 · p. 34
पिञ्जस्तु घात उन्माथो विशरः प्रमथो वधः ।उद्वासनं प्रशसनं क्षणनं परिवर्जनम् ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.110 · p. 35
उद्वर्तंना न नाङ्गस्य मलोन्मर्दनकर्मणि ।उद्वृत्तहेतुव्यापारे क्ली तूद्वृत्तावथो न ना ॥ ११० ॥
अनुष्टुप्
genderपुंक्लीm. n.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.550 · p. 71
उद्वासनस्तथा पिञ्जः निर्वापणं निर्यातनम् ।प्रमयश्चापि संक्षप्तिः मारः प्रमथनं तथा ॥ ५५० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.22 · p. 190
विशारणं विशरणं निर्वासन-प्रवासने ।उद्वासनं वधार्हे तु शैर्षच्छेदिकसंयुतः ॥ २२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.214 · p. 121
परासनं विशसनं मारणं प्रतिघातनम् ।उद्वासनं प्रशसनं क्षणनं परिवर्जनम् ॥ २१४ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.111 · p. 35
उद्वासना वधेऽन्यत्र न्यासेऽन्यत्र स्थितस्य च ।आवाहितस्य देवादेरुत्सर्जनविधावपि ॥ १११ ॥
अनुष्टुप्

उद्वासन as a meaning in nānārtha verses