कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्षिति

kṣitiस्त्री · fem.

In 16 kośas: 17 synonym verses, 8 as a nānārtha head word, 22 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1 · p. 37
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा ।धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ॥ ९३५ ॥क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही ।गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ ॥सर्वंसहा रत्नगर्भा जगती मेदिनी रसा ।काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ९३७ ॥विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.1
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.156 · p. 20
भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.15 · p. 2
धारणी काश्यपीरा कुर्मेदिनी वसुधा पुनः ।रत्नपर्यायगर्भार्थाऽचलानन्तापि च क्षितिः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.1 · p. 20
भूपर्यायस्पृशो मर्त्त्या मानवा मनुजा विशः ।मनुष्याः पृतना मर्ताः क्षितयो मानुषा अपि ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.305 · p. 283
कृमिघ्नो रक्तकुसुमो बहुपुष्पोऽथ कण्टकी ।खदिरो रक्तसारश्च खाद्यः पत्री क्षितिः स्त्रियाम् ॥ ३०५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.3 · p. 113
भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धराभूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा ।गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा-ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.6 · p. 94
गुल्फ-गुच्छ-समय-प्लव-वर्ष-मन्थ-कर्दम-मृदङ्गमुखा[221b]नाम् ।वंश-वेश-मुकुर-क्षितिनिम्ब-दीप-बोल-चरणप्रमुखानाम् ॥ ६ ॥
स्वागताmetre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 6 · p. 3
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.226 · p. 32
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.3 · p. 1
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.105 · p. 12
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1586 · p. 255
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.1 · p. 46
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.394 · p. 136
क्षयः क्षतिः क्षितिश्चैव क्षयमात्रे भवेत् त्रयम् ।स्याद्वधो मारणं हिंसा घातनं च निहिंसनम् ।प्रमापनं संज्ञपनं क्षणनञ्च विदारणम् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.8 · p. 308
नदी सरित् शैवलिनी वाणी गीर्गोश्च वागपि ।वीणा विपञ्ची दिक्ककुप् स्याद्भूर्भूमिरवणि क्षितिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.366 · p. 49
भूर्भूमिर्वसुधा मही वसुमती विश्वंभरा मेदिनीगोत्रा गौर्धरणी समुद्ररशना सर्वंसहोर्वी क्षमा ।पृथ्वी क्ष्मा पृथिवी रसा क्षितिरिलानन्ताचला काश्यपीक्षोणी ज्या जगती स्थिरा कुरुवनी धात्री धरित्री धरा ॥ ३६६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.70
नदीनगर्योर्नागानां भोगवत्यथ सङ्गरे ।सङ्गे सभायां समितिः क्षयावासावपि क्षितिः ॥ ७० ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.2 · p. 60
चितिः समूहे चित्यायां सृतिः स्यात्पद्धतौ गतौ ।क्षितिर्भूक्षयवासेषु मतिर्धीच्छास्मृतिष्वपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.50 · p. 211
भृतिस्तु मूल्ये भरणे क्षितिस्तुस्थाने निवासे भुवि च क्षयेऽपि ।धृतिस्तु योगान्तरवृत्तभेद-संतोषधैर्याध्वरधारणासु ॥ ५० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.24 · p. 12
क्षिया क्षये तथाचारातिक्रमेऽथ क्षितिर्भुवि ।मनुष्ये क्षयणे गेहे वासकर्मण्यथो किखिः ॥ २४ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास क्षकारादयः Paramānandīyanāmamālā 5.29.383 · p. 210
दुग्धेऽमृते जले क्षीरं क्षितिर्भूम्यां गृहेऽपि च ।कुशाग्रबुद्धयो धीरा भवन्तः प्रणमाम्याहम् ।वाणीयमर्थहीनापि कृपयैव विलोक्यताम् ॥ ३८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 म्या (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.8 · p. 214
कान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् ।कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु ॥लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना ।क्षितिः क्षये निवासे च पृथिवी कालभेदयोः ॥कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति ।कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्य (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1897 · p. 231
क्षेत्रं तु दारकेदारपुण्यस्थानात्ममूर्तिषु ।पुरे योनौ समूहेऽथ मेदिन्यां च क्षये क्षितिः ॥ १८९७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.8 · p. 220
कासूर्बुद्धौ कुवाच्यस्त्रे कान्तिः शोभाभिकामयोः ।काष्ठोत्कर्षे सीम्नि दिशि क्षोण्यां वासे क्षये क्षितिः ॥ ८ ॥
अनुष्टुप्

क्षिति as a meaning in nānārtha verses