कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वध

vadhaपुं · masc.

In 13 kośas: 12 synonym verses, 6 as a nānārtha head word, 84 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.36 · p. 19
व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् ।निस्तर्हणं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रनिघातनं वधः ॥ ३७० ॥प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः ।निर्वापणालम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि ॥ ३७१ ॥अपासनं वर्जनमारपिञ्जा निष्कारणाक्राथविशारणानि ।
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.115
प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥प्रवासनं परासनं निषूदनं निहिंसनम् ।निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥निस्तर्हणं निहननं क्षणनं परिवर्जनम् ।निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥उद्वासनप्रमथनक्रथनोज्जासनानि च ।आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.373 · p. 130
वधोविनिभ्यां वापः स्याद्विसरः प्रतिघातनम् ।निवाहोऽपि स्त्रियां मारिः सर्वगो मरको स्त्रियाम् ॥ ३७३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.377 · p. 131
विशरणं मारणं हिंसा दिष्टान्तः प्रलयो वधः ।स्यादाक्रन्दः पिञ्जरम्भौ प्रतिघः परिघः पुनः ॥ ३७७ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 269
पुंस्यालम्भ-निशुम्भ-पिञ्ज-विशरोन्माथाश्च घातो वधोमारोऽपि प्रथमोऽस्त्रियां निगदिते संज्ञप्ति-हिंसे स्त्रियौ ।क्लीबे स्युः प्रतिघातनं विशसनं व्यापादनं वर्जनंकिंचापासन-मारण-प्रशमन-प्रोज्जासनोद्वासनम् ॥ ६८ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.203 · p. 34
पिञ्जस्तु घात उन्माथो विशरः प्रमथो वधः ।उद्वासनं प्रशसनं क्षणनं परिवर्जनम् ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.36 · p. 106
अनुक्रोशोऽथ हिंस्रे स्याच्छरारुर्घातकोऽपि सः ।[58]व्यापादनं विशसनं हिंसा निर्वासनं वधः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.547 · p. 70
अथ हिंसा वधो घातो व्यापादनं प्रमापणम् ।विबर्हणं निस्तर्हरणं निर्ग्रन्थनं निषूदनम् ॥ ५४७ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.394 · p. 136
क्षयः क्षतिः क्षितिश्चैव क्षयमात्रे भवेत् त्रयम् ।स्याद्वधो मारणं हिंसा घातनं च निहिंसनम् ।प्रमापनं संज्ञपनं क्षणनञ्च विदारणम् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1391 · p. 168
विशरणविशसनकर्षणनिर्वापणनिस्तर्हणव्यथनम् ।निर्वासनसंज्ञपने निर्ग्रन्थननिसुम्भने वधः पिञ्जः ॥ १३९१ ॥
गीतिःmetre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.211 · p. 121
सन्द्रवोद्द्रावसन्द्रावप्रद्रावद्रवविद्रवाः ।विशस्तु घात उन्मन्थो विशरः प्रमथो वधः ॥ २११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.215 · p. 121
उज्जासनं संज्ञपनं क्वाथनं प्रविसारणम् ।व्यापादनञ्च हिंसा च कदनं संकुलो वधः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.23 · p. 47
जजति स्याज्जञ्जति च संग्रामयति युध्यते ।युध्यति स्याद्रिफति च युध्याङः स वधे स्मृतः ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ज (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.79 · p. 83
खलति स्यात्संचयेऽथ शैथिल्ये कत्रयत्यपि ।स्याच्छ्रथते कर्तयति तत्र चिल्लति च स्मृतम् ॥राभस्ये रभते प्रोक्तं रभिः क्रुध्यादरे समः ।आङस्त्वरोपक्रमयोरुद्यमे वध-दर्पयोः ॥ ७९ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 च्छ्र (wrong syllable)
meanings
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1174 · p. 143
अस्त्री तु वल्कले ना तु वधो हननवज्रयोः ।बले स्त्री तु कलम्ब्याख्यजलशाके वधा त्रि तु ॥ ११७४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1175 · p. 143
हिंसके वैजयन्त्याह वहस्तु नरि मारुते ।स्कन्धदेशे गवाश्वादेर्वहा तु सरिति स्त्रियाम् ॥ ११७५ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.8 · p. 231
नद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः ।बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः ।बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥बोधः समाधिभेदे ना तथा पिप्पलभूरुहे ।मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्धृ (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.75 · p. 236
वीतं शान्ते दुर्गजाश्वे वधो हिंसितृहिंसयोः ।वार्ता वातिंगणोदन्तवाणिज्यादिषु वर्तने ॥ ७५ ॥
अनुष्टुप्

वध as a meaning in nānārtha verses

  • धरणिकोश प्रोक्षणलक्षणं नाम्नि चिह्ने च कोङ्कणः शस्त्रदेशयोः । दुर्वर्णं रूप्येऽसद्वर्णे प्रोक्षणे वधसेचने ॥ Dharaṇikośa 14.1.6
  • धरणिकोश शरणचरणोऽङ्घ्रौ बह्वृचादौ च चरणं भ्रमणे दले । शरणं गृहरक्षित्रोः शरणं रक्षणे वधे ॥ Dharaṇikośa 14.2.20
  • धरणिकोश समाघातसमाघातो वधे युद्धे परिघातोऽस्त्रघातयोः । पुरस्कृतेऽर्चितान्यूने व्यतीपातोऽक्षययोगयोः ॥ Dharaṇikośa 15.1.29
  • धरणिकोश उन्माथअश्वत्थस्तरुभेदे स्यादश्वत्थः पूर्णिमातिथिः । उन्माथः पाशयन्त्रे स्यादुन्मा[47]थो वधघातयोः ॥ Dharaṇikośa 16.2.7
  • धरणिकोश बन्धनतोदनं व्यथने तोत्रे छदनं गरुतिच्छदे । कठिनं कक्खटे स्थाल्यां बन्धनं वधबन्धयोः ॥ Dharaṇikośa 19.1.13
  • धरणिकोश शमनभुवनं गगने प्रोक्तं सलिले विष्टपे जने । शमनं च वधे शान्तौ शमनो यमराट् स्मृतः ॥ Dharaṇikośa 19.2.28
  • धरणिकोश समापन्ननिर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । समापन्नं वधे प्रोक्तं समाप्तलब्धयोस्तथा ॥ Dharaṇikośa 19.2.80
  • धरणिकोश अभिसर्जनहरिचन्दनमाख्यातं कुसुम्भे चन्दनान्तरे । अभिसर्जनमित्येतद्वधे दाने प्रकाशितम् ॥ Dharaṇikośa 19.2.93
  • धरणिकोश साधनसाधनं मृतसंस्कारे सैन्ये मेढ्रे वघे धने । निवृत्ते दापने सिद्धावुपायेऽनुगमे गतौ ॥ Dharaṇikośa 19.3.20
  • धरणिकोश विश्रम्भआरम्भं युद्धमिच्छन्ति चारम्भः समुपक्रमः । विश्रम्भशब्दमिच्छन्ति विश्वासे प्रणये वधे ॥ Dharaṇikośa 23.2.4
  • धरणिकोश अभिमरकिर्मीरः कर्बुरो ज्ञेयः किर्मीरो राक्षसान्तरम् । अभिमरो वधे युद्धे सहायसाध्वसेऽपि च ॥ Dharaṇikośa 26.2.65
  • धरणिकोश हिंसाप्रसूर्मातरि चाश्वायां त्रासो भीमणिदोषयोः । शंसा तु वचनं वाञ्छा हिंसा चौर्यादिकं वधः ॥ Dharaṇikośa 31.1.2
  • कल्पद्रुकोशः आलभ्लभिर्वियोगे वेर्दान आङस्तु स्पर्शने वधे । कूणनं तु भवेत्किञ्चित्संकोचे प्रतिबिम्बने ॥ ११५ ॥ Kalpadrukośa 1.10.115
  • कोषकल्पतरु निपततिअसावभिसमो युद्धे प्रनेरनुनये विनेः । व्यसने नेर्वधेऽवान्न्यग्भावेऽथोदः स जन्मनि ॥ २२ ॥ Koṣakalpataru 3.5.22
  • कोषकल्पतरु व्यवावतिव्यवाद्व्यतिकरे य[197b]ब्घावन्तर्घौ दुर्गतौ निरः । समः संगति-सादृश्य-संविदाचरणे रणे ॥ समाभियानशपथे संपराभ्यां रणापदोः । अपादपगमेऽथोपादङ्गीकारोपहारयोः ॥ ३० ॥ Koṣakalpataru 3.5.30
  • कोषकल्पतरु निरस्यतिप्रेरणे स्याच्चूर्णयति डिपिर्गर्वेऽवतः परः । निरोऽस्यतिर्वधे त्यागे क्षेपण-प्रतिघातयोः ॥ ६३ ॥ Koṣakalpataru 3.5.63
  • कोषकल्पतरु उत्पिषिमथिरुत्प्रपरो मृत्यां क्षुणत्ति तु पिनष्टि च । क्षुन्ते मोटयति स्याच्च पेषेऽथोदः पिषिर्वधे ॥ ६ ॥ Koṣakalpataru 3.5.6
  • कोषकल्पतरु उपास्तेउत्परस्त्वासिरौदास्येऽथोपाच्छुश्रूषणे वधे । शराभ्यासे सेवनेऽनोरनुशोचन-सेवयोः ॥ ४१ ॥ Koṣakalpataru 3.5.41
  • कोषकल्पतरु आलभतेप्रादुष्कृतौ व्यलीकस्य प्रतेर्विनिमये भवेत् । उपाद्ज्ञानेच्छयोराप्तौ वधे स्पर्शे तथाङ्परः ॥ ८१ ॥ Koṣakalpataru 3.5.81
  • कोषकल्पतरु पराप्राधान्यहिंसागतिधर्षणेषु प्रातीप्यवैमुख्यभृशाभिमुख्ये । विमोक्षविक्रान्तिवधे परा स्या- त्पुरा पुराणे निकटेऽप्यतीते ॥ १४ ॥ Koṣakalpataru 5.1.14
  • कोषकल्पतरु परिसर्वतोभवनभूषणपूजा- दोषवादपरिरम्भगदेषु । लक्षणादिषु च शोकनिवास- व्याप्तिवर्जनवधेषु परि स्यात् ॥ १६ ॥ Koṣakalpataru 5.1.16
  • कोषकल्पतरु हीरकरसे सूतकोऽस्त्री जनौ त्वन्त्यलिङ्गः पशौ लूनकोऽथ त्रये भिन्नवाची । पुमान्कीचको दैत्यभेदे च वेणौ बधौ( ? )हीरको वृत्तभेदे तु षण्ढे ॥ ६८ ॥ Koṣakalpataru 6.1.68
  • कोषकल्पतरु पिञ्जमन्थे प्रहस्ते च खजाऽथ पिञ्जो वधे **ण्यां च गुणैः प्रदिष्टः । खर्जूः स्त्री खर्जूरे कण्ड्वां कीटेऽथ मर्जूः स्त्री । रजके शुद्धौ सर्जू रुद्रे स्वर्गे च वाणिजे तडिति ॥ ३० ॥ Koṣakalpataru 6.7.30
  • कोषकल्पतरु कारणनिर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तने कुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः । दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणं नागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥ Koṣakalpataru 6.15.32
  • कोषकल्पतरु समाघातयोगविशेषोत्पातापमानवाची व्यतीपातः । युद्धे वधे नरि समाघात इहोक्तोऽथ विज्ञाने ॥ ५९ ॥ Koṣakalpataru 6.17.59
  • कोषकल्पतरु शमनस्यात्सवनं स्थितिवाचकमिष्टौ सोमलताभिषवे नरि चन्द्रे । निद्रा शय्या सुरते शयनं शमनस्तु यमेऽन्त्ये वधशान्त्योः ॥ ९ ॥ Koṣakalpataru 6.21.9
  • कोषकल्पतरु गन्धनसंसूचनोत्साहवधप्रकाशे- ऽथो नन्दनं वृत्ररिपोर्वने स्यात् । शुभे तनूजे च पुमान्प्रमोद- कृत्यन्यवच्च स्रवणे तु नीरे ॥ [16a] ५३ ॥ Koṣakalpataru 6.21.75
  • कोषकल्पतरु बन्धनस्याद्वन्धनं बन्धवधानजन्तौ ने च पुंसि । भवेद्वचक्नुर्द्विजवाग्मिवाची फले तु पुष्पे गदितं प्रसूनम् ॥ ६३ ॥ Koṣakalpataru 6.21.63
  • कोषकल्पतरु संधानसंधानमाहुर्गमने वधे च निवृत्तिनाशे मृतसंस्कृतौ च । सैन्येऽप्युपायेऽपगमे च मेढ्रे संभारसिद्ध्योर्द्रविणोपपत्तौ ॥ ६९ ॥ Koṣakalpataru 6.21.69
  • कोषकल्पतरु सूचनाअर्शोघ्नोऽथ करञ्जशस्त्रकभिदोः स्याद्वृश्चिकाल्यां शत- घ्नी चावृद्धबधूपुरप्रसृमरप्रेष्या त्वसिक्नी ध्वनो(?) । दृष्टौ च व्यस(ध)ने वधेऽप्यभिनये संसूचने सूचना ध्याने लेपन(?)वेदना मतिगता दुःखे तथा भावना ॥ ९९ ॥ Koṣakalpataru 6.21.99
  • कोषकल्पतरु आयोधनअन्तर्हितौ चाथ वधे मृधे स्या- दायोधनं मध्यवहावलग्नम् । लग्नेऽन्यवच्चाभिजनस्तु वंशे कुलध्वजे ख्यातिजनुर्भुवोश्च ॥ ४ ॥ Koṣakalpataru 6.21.4
  • कोषकल्पतरु समापन्नस्वीकृतविज्ञातार्थे प्रतिपन्नोऽथो समाप्ते तु । प्राप्ते क्षिप्ते च वधे त्वन्त्ये क्षिप्ते समापन्नम् ॥ ११ ॥ Koṣakalpataru 6.21.11
  • कोषकल्पतरु अभिमानतथा वदन्ति प्रतिबिम्बवाचि ज्ञानेऽभिमानः प्रणये च गर्वे । वधेऽप्यधिष्ठानमिति प्रभावे- ऽप्यध्यासने पत्तनचक्रयोश्च ॥ २१ ॥ Koṣakalpataru 6.21.21
  • कोषकल्पतरु निरसनकात्यायनो वररुचौ गिरिकन्यकायां काषायवस्त्रविधवार्धजरत्स्त्रियां स्त्री । निष्ठीवने निरसनं च वधे निरासे काञ्च्यां तु सारसनमस्त्रभृतामुरस्त्रे ॥ ३० ॥ Koṣakalpataru 6.21.30
  • कोषकल्पतरु अतिसर्जनहरिचन्दनमप्यस्त्री गोशीर्षे देववृक्षे च । ज्योत्स्नायां काश्मीरेऽतिसर्जनं स्याद्वधे दाने ॥ ५५ ॥ Koṣakalpataru 6.21.55
  • कोषकल्पतरु आरम्भविश्रम्भः प्रणये च केलिकलहे विश्वासहिंसार्थयो- र्विष्कम्भः प्रतिपन्नविस्तृतिगतः स्यान्नाटकाङ्कादिगे । योगे योगसमाधिबन्धभिदि वाथास्त्री च वीणाङ्गके पार्थद्रौ ककुभोऽथ दर्पवधयोरुद्योगसंभ्रान्तिषु ॥ ५१ ॥ Koṣakalpataru 6.24.51
  • कोषकल्पतरु उपशयपश्चात्तापेऽनुशयोऽनुबन्धविद्वेषयोस्तद्वत् । उपशय उक्तः स्थाने वधेऽन्तिके रोगशान्तौ च ॥ ८७ ॥ Koṣakalpataru 6.26.87
  • कोषकल्पतरु पौरुषेयस्याद्रौहिणेयो बुधवत्सकाम- पालेष्वथ स्यात्पुरुषाधिकारे । पुंसां समूहे च वधे कृतेऽपि स्यात्पौरुषेयं च पदान्तरेऽपि ॥ ८५ ॥ Koṣakalpataru 6.26.85
  • कोषकल्पतरु कारदेवे सुरः स्त्रीचषके च [45a]मद्ये सुरी तु देवप्रमदार्थिका स्यात् । कारस्तु यत्ने च यतौ वधे च बलौ हिमाद्रावपि निश्चयार्थे ॥ ७ ॥ Koṣakalpataru 6.27.7
  • कोषकल्पतरु अभिमारचन्द्रे तथा पक्षचरोऽथ लोके चराचरं जङ्गम इङ्गिते च । स्वसैन्यभीतावभिमार आजौ वधेऽपि तादृक् प्रथितः प्रवीणैः ॥ ९३ ॥ Koṣakalpataru 6.27.93
  • कोषकल्पतरु शुशुभे शमुक्तं शयने तु शः स्या- न्निशाकरे शुः प्रथितो वधेऽपि । Koṣakalpataru 6.30.1
  • कोषकल्पतरु शेषमेषोऽस्त्रियां स्यादुरणे च राशि- भेदे तथा भेषजभेदकेऽपि । शेषस्तु संकर्षणकेऽप्यनन्ते वधे पुमान्स्यादथ न स्त्रियां स्यात् ॥ ३८ ॥ Koṣakalpataru 6.30.38
  • कोषकल्पतरु हिंसामृत्सा शुभायां मृदि वासिकायां हिंसा वधे चौर्यविधौ प्रदिष्टा । शंसा तु वाञ्छावचसोर्मिसिस्तु मांस्यां तु दीप्ये शतपुष्पिकायाम् ॥ ८४ ॥ Koṣakalpataru 6.31.84
  • नानार्थार्णवसंक्षेप सूनासूना वधे वधस्थाने स्याच्च दण्डार्पिताङ्कुशे । अधःसिरायां जिह्वाया(स्तुधा ? स्तथा) दुहितरि स्मृता ॥ १५४० ॥ Nānārthārṇavasaṃkṣepa 2.5.1540
  • नानार्थार्णवसंक्षेप आरम्भवेषेऽप्याहुरथारम्भ उद्यमेऽपि वधेऽपि च । उपक्रमे च निर्माणेऽथालम्भः स्पर्शने वधे ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 3.2.18
  • नानार्थार्णवसंक्षेप प्रतिघप्रतिघस्तु प्रतिहतौ स्यात् क्रोधवधयोरपि । परिघस्त्वर्गले दण्डे परिधातास्त्रयोगपि ॥ १४७ ॥ Nānārthārṇavasaṃkṣepa 3.2.147
  • नानार्थार्णवसंक्षेप स्तरणसदनं तु गृहे तोये सीदत्यर्थे च कीर्तितम् । स्तननं स्तनिते ध्वाने स्तरणं छादने वधे ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 3.3.82
  • नानार्थार्णवसंक्षेप प्रोक्षणप्रोक्षणं तु वधे यज्ञपशोरभ्युक्षणेऽम्भसा । पौरुषं तु नपि प्रोक्तं पुंसः स्याद्भावकर्मणोः ॥ १२१६ ॥ Nānārthārṇavasaṃkṣepa 4.1216
  • नानार्थार्णवसंक्षेप शमनावधेऽपि शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने । श्वसनस्तु पुमान् वायौ मदनाख्ये च पादपे ॥ १७७४ ॥ Nānārthārṇavasaṃkṣepa 4.1774
  • नानार्थार्णवसंक्षेप आयोधनआस्तीर्णौ च कुथे चापि दर्भाद्यास्तीर्णवस्तुनि । आयोधनं वधे युद्ध आवेशनपदं पुनः ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 6.9
  • नानार्थार्णवसंक्षेप निरसननिरासे च वधे चाथ मरणे स्यान्निमीलनम् । निमेषे मुकुलीभावेऽप्यथो निवसनध्वनिः ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 6.23
  • नानार्थार्णवसंक्षेप परासनपरिधानमधोवस्त्रे तदाच्छादनकर्मणि । परासनं निरसने वधे चाथ परायणम् ॥ ३३ ॥ Nānārthārṇavasaṃkṣepa 6.33
  • नानार्थार्णवसंक्षेप विहननविसर्जनं परित्यागे दाने विहननं पुनः । पिञ्जने च वधे च स्यात् पिञ्जनं प्रविसारणम् ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 6.43
  • नानार्थार्णवसंक्षेप अपासनवधे निरसने चापि बहुव्रीहौ तु तत् त्रिषु । अपाश्रयस्तु ना मत्तवारणेऽपाश्रितावपि ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 6.39
  • नानार्थार्णवसंक्षेप उद्वासनउद्वासना वधेऽन्यत्र न्यासेऽन्यत्र स्थितस्य च । आवाहितस्य देवादेरुत्सर्जनविधावपि ॥ १११ ॥ Nānārthārṇavasaṃkṣepa 6.111
  • नानार्थार्णवसंक्षेप निर्वाषणानिर्गन्तरि तु स त्रि स्यादथ निर्वाषणा न ना । तापप्रशमनायां च वधे चाप्यपुमान् पुनः ॥ ३१८ ॥ Nānārthārṇavasaṃkṣepa 6.318
  • नानार्थार्णवसंक्षेप निर्वासनानिर्वासना वधे चापि पुरादेश्च बहिष्कृतौ । अत्रापि पूर्ववत् सादि निर्यातनपदं पुनः ॥ ३१९ ॥ Nānārthārṇavasaṃkṣepa 6.319
  • नानार्थार्णवसंक्षेप प्रवासनासङ्कीर्णे पूर्ववत् सादिरत्राथ स्यात् प्रवासना । न ना विवासने चापि वधेऽप्यर्थादि पूर्ववत् ॥ ३४२ ॥ Nānārthārṇavasaṃkṣepa 6.342
  • नानार्थार्णवसंक्षेप प्रमापणाप्रमापणा तु न पुमान् ज्ञापने (उ ? च) वधेऽपि च । प्रबोधना तु न पुमान् ज्ञापनेऽप्यनुवोधने ॥ ३४३ ॥ Nānārthārṇavasaṃkṣepa 6.343
  • नानार्थार्णवसंक्षेप पौरुषेयना मेघे कोकिले तु द्वे पौरुषेयं पुनस्त्रिषु । पुरुषेण कृते तस्य विकारे च वधेऽथ नप् ॥ ४१५ ॥ Nānārthārṇavasaṃkṣepa 6.415
  • नानार्थार्णवसंक्षेप व्यापादनाव्यापादना तु न पुमान् वधे द्रोहस्य चिन्तने । वासनीयं तु शण्डे स्यात् कुङ्कुमे भेद्यवत् पुनः ॥ ५५७ ॥ Nānārthārṇavasaṃkṣepa 6.557
  • नानार्थार्णवसंक्षेप समाघातसमाघातस्तु ना युद्धे वधेऽप्यर्थादि पूर्ववत् । समाह्वयस्तु ना प्राणिद्यूते नाम्नि च यादवः ॥ ६२५ ॥ Nānārthārṇavasaṃkṣepa 6.625
  • नानार्थार्णवसंक्षेप समापनासमापना तु न पुमान् वधे चाप्यवसायने । क्लीबलिङ्ग समाप्तौ स्यादथ पुंसि समीरणः ॥ ६२७ ॥ Nānārthārṇavasaṃkṣepa 6.627
  • नानार्थार्णवसंक्षेप अतिसर्जनअथातिसर्जनं दाने (वधे) चाथापवर्जनम् । परित्यागे च दाने चाप्यथावहननध्वनिः ॥ २ ॥ Nānārthārṇavasaṃkṣepa 7.2
  • नानार्थार्णवसंक्षेप प्रविसारणावधे विकीर्णीकरणे स्त्रीनपोः प्रविसारणा । स्त्रीनपुंसकयोर्भेदे युद्धे क्ली प्रविदारणा ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 7.62
  • नानार्थार्णवसंक्षेप परिवर्जनापरित्यागे वधे च स्त्रीनपोः स्यात् परिवर्जना । शत्रौ ना प्रत्यवस्थानः परिस्पर्धिजने त्रिषु ॥ ६६ ॥ Nānārthārṇavasaṃkṣepa 7.66
  • परमानन्दीयनाममाला उन्माथउदारो दक्षिणे दानशौण्डे तूच्छ्रितमुन्नते । उन्माथः कूटयन्त्रे स्याद्वधघातकयोरपि ॥ ६५ ॥ Paramānandīyanāmamālā 5.3.65
  • शब्दरत्नावली पिञ्जाश्राद्धादिपात्रभेदे च कुब्जे चाधोमुखे त्रिषु । पिञ्जा तूले हरिद्रायां बले क्लीबं वधे पुमान् ॥ Śabdaratnāvalī 7.8.12
  • शब्दरत्नावली प्रोक्षणपूरणी तु पटारम्भसूत्रे शाल्मलीभूरुहे । प्रोक्षणं क्लीबलिङ्गं स्यात्सेचने च वधेऽपि च ॥ Śabdaratnāvalī 7.15.49
  • शब्दरत्नावली समाघातआहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् । समाघातः शब्दभेदे वधे युद्धे भये पुमान् ॥ संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः । सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च ॥ सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् । सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् ॥ हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि । हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥ Śabdaratnāvalī 7.16.176
  • शब्दरत्नावली बन्धनफलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु । फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥ मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी । ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः । वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥ बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.62
  • शब्दरत्नावली आयोधनअथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि । अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥ आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च । भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥ आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि । आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥ आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके । आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥ आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥ Śabdaratnāvalī 7.20.104
  • शब्दरत्नावली निरसनभवेन्निरसनं क्षेपनिष्ठीवनवधेषु च । भवेत्प्रजननं योनिगर्भग्रहणयोरपि ॥ Śabdaratnāvalī 7.20.113
  • शब्दरत्नावली समापन्नसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • शब्दरत्नावली आरम्भआरम्भः पुंसि दर्पे च त्वरायामुद्यमे वधे ॥ आत्मभूः कामदेवे स्याद्विधौ विष्णौ भवेत्पुमान् ॥ Śabdaratnāvalī 7.24.8
  • शब्दरत्नावली पौरुषेयआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
  • शब्दरत्नावली कारऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली अभिसारअरुष्करो व्रणकरे भवेद्भल्लातकेऽपि च । भवेदभिसारो युद्धे वधे च बलसाधने ॥ अत्युत्तरं त्रिषु ज्येष्ठे प्रतिवाक्यविवर्जिते । अलङ्कारोऽलङ्कारणे हारादावुपमादिके ॥ Śabdaratnāvalī 7.27.113
  • त्रिकाण्डशेष कारणकोणोऽश्रो वाद्यलगुडे वधे हेतौ च कारणम् । ग्रहणं स्वीकृतौ हस्ते गुणः स्याद्रज्जुसूदयोः ॥ १२५ ॥ Trikāṇḍaśeṣa 3.3.125
  • त्रिकाण्डशेष प्रोक्षणबोले वाते बले प्राणः पूर्णे पुं भूम्नि चासुषु । पर्णं पक्षे च पत्रे च प्रोक्षणं सेचने वधे ॥ १३३ ॥ Trikāṇḍaśeṣa 3.3.133
  • वैजयन्ती हिंसास्थूणा सूर्म्यां गृहस्तंभे हिंसा चौर्यादिके वधे । हेलावज्ञाभावचारौ हेतिर्ज्वालांशुरायुधम् ॥ ४६ ॥ Vaijayantī 6.2.46
  • वैजयन्ती प्रग्रहतुलासूत्रेऽश्वादिरश्मौ प्रग्रहः प्रग्रहः पुनः । तयोश्च संयमोद्योतपूजाबन्द्यर्ग्वधेषु च ॥ ४९ ॥ Vaijayantī 7.1.49
  • वैजयन्ती कारणकारणं हेतुवधयोः कारकं हिंसकेपि च । कीलालं रुधिरे तोये कुहरं गह्वरे बिले ॥ ७ ॥ Vaijayantī 7.3.7
  • वैजयन्ती उत्सादनजन्मोद्गमावुत्पतने रहोऽन्तिकमुपह्वरे । उद्वासने वधोद्वासावप्युत्सादनमुन्नतौ ॥ ५ ॥ Vaijayantī 8.3.5