पताक
patākaपुं · masc.In 4 kośas: 4 synonym verses.
बिलं रन्ध्रं तु सुषिरं विवरं कुहरं तथा ।सर्पः पताकः पृथगुर्भुजङ्गोऽहिर्भुजङ्गमः ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ।अयं तु त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
समुत्पिञ्जः पिञ्जरश्च भृशव्याकुलसैन्यके ।पताकश्च पताका च केतनं च ध्वजे मताः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
पताकः कुंचितांगुष्ठे संश्लिष्टप्रसृतांगुलौ ।अक्लीबौ मुष्टिमुस्तू द्वौ संग्राहो मुचुटिः स्त्रियाम् ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.