कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

अष्टमोपदेशः

इति नत्कीरविरचितायां बालप्रबोधिकायां सप्तमोपदेशः ।

अधोभुवनपातालं बलिसद्म रसातलम् ।नागलोकः पुनर्नाकुः नागवास्तु च भोगिभूः ॥ १५७ ॥
8.157 · p. 80
अनुष्टुप्
बिलं रन्ध्रं तु सुषिरं विवरं कुहरं तथा ।सर्पः पताकः पृथगुर्भुजङ्गोऽहिर्भुजङ्गमः ॥ १५८ ॥
8.158 · p. 80
अनुष्टुप्
कुण्डली गूढपाच्चक्षुश्रवाः काकोदरः फणिः ।कञ्चुकी श्रतिदृग्दीर्घी चपलो भीरुरित्यपि ॥ १५९ ॥
8.159 · p. 80
अनुष्टुप्
बिलेशयो द्विजिह्वश्च जिह्मगः पवनाशनः ।शेषः सङ्कर्षणः शुक्रः सहस्राक्षः सहस्रपात् ॥ १६० ॥
8.160 · p. 80
अनुष्टुप्
सहस्रभोगः शुभ्रांशुरुबुरूबुश्च कथ्यते ।अनन्तः पद्मिनीकान्तो वासुकिर्देवकिन्नरः ॥ १६१ ॥
8.161 · p. 80
अनुष्टुप्
सर्पदेहस्तु भोगः स्यात् शिरस्तस्य फणं फणा ।भोगश्चापि तथा नेत्रे नीलकं विषनीलकम् ।जिह्वा तस्य कुशग्राही पुच्छश्चोद्दीर्घिका मता ॥ १६२ ॥
8.162 · p. 80
अनुष्टुप्