रन्ध्र
randhraक्ली · neut.In 17 kośas: 17 synonym verses, 6 as a nānārtha head word, 30 as a meaning of another word.
रन्ध्रं बिलं निर्व्यथनं कुहरं शुषिरं शुषिः ॥ १३६३ ॥छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderक्लीneut.
अधोभुवनं पातालं बलिसद्म रसातलम् ।नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
गीतिः
genderक्लीneut.
बिलं रन्ध्रं तु सुषिरं विवरं कुहरं तथा ।सर्पः पताकः पृथगुर्भुजङ्गोऽहिर्भुजङ्गमः ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
नागपर्यायलोकार्थं स्यादधोऽव्ययमित्यपि ।रोकं विरोकं छिद्रं च रन्ध्रं श्वभ्रं च पुंसि वा ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
अधोऽनयोः पृष्ठभागे रन्ध्रौ नरि च कीर्तितौ ।रन्ध्राधरे चक्रसंधी स्थूरे ऊर्वोरधोऽस्त्रियौ ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
छिद्रं तु कुहरं रोकं रन्ध्रं[148b] निर्व्यथनं बिलम् ।निम्नं रोपं च विवरं भूकं श्वभ्रं तथान्तरम् ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
शुषिरं विवरं रन्ध्रं छिद्रं गर्ता च गह्वरम् ।श्वभ्रं रस्यं च पातालं नरकं यान्त्यमेधसः ॥ १९० ॥
अनुष्टुप्
genderक्लीneut.
रसातलं बलेर्वेश्माधोजगद्वडवामुखम् ।रोपं छिद्रं तथा रन्ध्रं विवरं शुषिरं शुषिः ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
गर्त्तो वटो भूमिखातो भूककुद्भूच्चकस्थलम् ।रन्ध्रं रोकं बिलं छिद्रं सुषिरं विवरं वषा ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
निम्नं निर्व्यथनं रन्ध्रं विवरं च वपाऽन्तरम् ।रोकं रोपं बिलं छिद्रं सुषिरं शुषिरं शुषिः ॥ २४७८ ॥
अनुष्टुप्
genderक्लीneut.
रन्ध्रं निर्व्यथनं श्वभ्रं च्छिद्रं रोकं दरो बिलम् ।विवरं कुहरञ्चैव शुषिरञ्च वपाशुषिः ॥
अनुष्टुप्
genderक्लीneut.
कुहरं तु रन्ध्रविवरछिद्रबिलश्वभ्ररोकनिर्व्यथनम् ।अपि सुषिवपे स्त्रियौ स्यादवटो गर्तश्च भूतलश्वभ्रे ॥ २९६ ॥
गीतिःmetre not read in every line
genderक्लीneut.
भृज्जकण्ठी तु सौधातं शनकी तु बहिर्गरम् ।वैदेहकी कारुविन्दं मैत्री रन्ध्रं भटी सटम् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
अगाधो भुवनं रोकं रन्ध्रं निर्व्यथनं बिलम् ।कुहरं सुषिरं छिद्रं श्वभ्रोऽस्त्र्यक्ली सुषिर्वपा ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
शिशिरं शीतलं विद्यात्सुषीमऋतुभेदयोः ।विवरच्छिद्ररन्ध्रादीनाहुर्दूषणगर्तयोः ॥
अनुष्टुप्
meanings
सङ्ख्याभेदे तु शङ्खस्य शस्त्रस्यायसि लक्षयेत् ।अपराधे तु रन्ध्रस्य व्याधेः कुष्ठाख्यभेषजे ॥ ८ ॥
अनुष्टुप्
meaningsअपराध
विवरे चापराधे च भूषणे त्वपरे विदुः ।लग्नादप्यष्टमे राशौ विदुः सांवत्सरा इदम् ॥ १०९३ ॥
अनुष्टुप्
doubtful
मर्त्यजात्यन्तरे तु द्वे विप्रमैत्रीसमुद्भवे ।रयिस्तु तोयधनयोर्नृस्त्रियोरथ रश्मिवाक् ॥ १०९४ ॥
अनुष्टुप्
meaningsमर्त्यजात्यन्तर
doubtful
रन्घ्रं छिद्रे भूषणे च रुरुर्ना मृगदैत्ययोः ।रेत्रसूतकपीयूषपटवासेषु तेजसि ॥
अनुष्टुप्
doubtful
पिण्डारे त्ववटोः पाणेश्चायुधस्य त्वयस्यपि ।अपराधे तु रन्ध्रस्य बदरस्य तु नागरे ॥ ९ ॥
अनुष्टुप्
meaningsअपराध
रन्ध्र as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् प्रत्ययप्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥ Amarakośa 3.3.148
- हलायुधकोशः (अभिधानरत्नमाला) सन्धिअर्चनामूल्ययोरर्घो विसर्गो मुक्तिवर्चसोः । मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥ Abhidhānaratnamālā (Halāyudha) 5.835
- कोषकल्पतरु भूकन स्त्री तु कन्दा[248a]दिदशप्रकारे धाको वृषे पुंसि तथाश्रये च । मूकस्तु दीनावचसोस्त्रिलिङ्ग्यां भूकं तु रन्ध्रे समये तु पुंसि । बको बकोटे बकपुष्पके च धनाधिनाथे च निशाचरे च । शूकोऽपि धान्याद्यतितीक्ष्णकाग्रे शुद्धे कृपायामपि न स्त्रियां स्यात् ॥ १५ ॥ Koṣakalpataru 6.1.15
- कोषकल्पतरु गर्तस्यान्मूर्तं मूर्छाले मूर्तियुते भेद्यलिङ्गस्थम् । गर्तो देशविशेषे नर्यथ रन्ध्रे ककुन्दरे द्वंद्वे ॥ २४ ॥ Koṣakalpataru 6.16.24
- कोषकल्पतरु प्रत्ययविश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणे ज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः । दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमे विद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥ Koṣakalpataru 6.26.61
- कोषकल्पतरु क्षरकार्पासके स्यादपि कूलके च स्त्रियां तु गर्भाशयभूमिवाची । मेदस्यथाम्भोमुचि च क्षरः स्या- न्नीरेऽन्तिमेऽथ त्रिषु रन्ध्रभीत्योः ॥ ४ ॥ Koṣakalpataru 6.27.4
- कोषकल्पतरु अन्तरअनूर्ध्व[51b]हीने परगोऽध्वरस्तु स्यात्सावधाने वसुभिन्मखार्थः । अस्त्र्यन्तरं रन्ध्रविनावकाशा- न्तरात्मभेदावधिमध्यवाचि ॥ ८४ ॥ Koṣakalpataru 6.27.84
- कोषकल्पतरु कोटरस्त्री मक्षिकाया[53a]मपि भम्भराल्यां द्वेषेऽन्यभूतेः कृपणेऽन्यवत्स्यात् । सङ्घे प्रसृत्यां विसरोऽथ रन्ध्रे स्यात्कोटरोऽन्त्ये कुहरोऽथ पुंसि ॥ २ ॥ Koṣakalpataru 6.27.2
- कोषकल्पतरु विवरन मन्दिरं ना सदने पुरेऽन्त्ये पुमान्समुद्रे विवरं तु गर्त्ते । स्याच्छिद्ररन्ध्रप्रतिमं च दोषे पूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥ Koṣakalpataru 6.27.7
- कोषकल्पतरु पातालस्यात्ताम्रकुम्भे नृपतौ तु गोपे गोपाल उक्तोऽप्यथ नागलोके । और्वेऽपि पातालमुशन्ति रन्ध्रे- ऽथास्त्री प्रवालो नवपल्लवेऽपि ॥ ४२ ॥ Koṣakalpataru 6.28.42
- नानार्थार्णवसंक्षेप वपारन्ध्रे मेदसि च व्रज्या वर्गे पर्यटने गतौ । वलिर्जठररेखायां जराप्रशिथिलत्वचि ॥ ९४ ॥ Nānārthārṇavasaṃkṣepa 2.1.94
- नानार्थार्णवसंक्षेप कोशकृताकृते हेमरूप्ये सुषिरे सज्जनस्त्वमुम् । रन्ध्रे चारङ्ग(?) इत्याह स्त्री तु कोशी विवक्षिते ॥ २८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.287
- नानार्थार्णवसंक्षेप छिद्रछिद्रं रन्ध्रेऽपराधे च दूषणे त्वजयोऽब्रवीत् । एतेषु क्लीबलिङ्गं स्यात् त्रिषु तुच्छिद्रवत्यदः ॥ ४४५ ॥ Nānārthārṇavasaṃkṣepa 2.5.445
- नानार्थार्णवसंक्षेप नालक्ली तु रन्ध्रे च शेफे च नादो ना स्तोतरि ध्वनौ । नदसम्बन्धिनि त्रिः स्यान्नाट्यं घोषाख्यलोहके ॥ ६८० ॥ Nānārthārṇavasaṃkṣepa 2.5.680
- नानार्थार्णवसंक्षेप रोकस्त्रीपुंसयोस्तु पांसौ स्यात् त्रसरेण्वष्टकेऽपि च । रोको रश्मौ पुमान् क्ली तु रन्ध्रे रोहित् पुनर्नरि ॥ ११२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1122
- नानार्थार्णवसंक्षेप शुषिद्वे तु विप्रे सुन्दरे तु त्र्यथ स्त्री शोषणे शुषिः । रन्ध्रे च ना तु धातौ स्याच्छुष्यतौ शुण्ठिवाक् तु ना ॥ १४०० ॥ Nānārthārṇavasaṃkṣepa 2.5.1400
- नानार्थार्णवसंक्षेप नालिकानवहस्तप्रमाणे च मुनिभिः परिभाषिता । चुल्लीरन्ध्रे च रन्ध्रे च नाले काले तथैव च ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 3.1.38
- नानार्थार्णवसंक्षेप प्रत्ययरन्ध्रे च प्रथितत्वे चाप्याचारप्रतियानयोः । सनादिशब्दावयवे तथैव स्यात् सुबादिषु ॥ १२३ ॥ Nānārthārṇavasaṃkṣepa 3.2.123
- नानार्थार्णवसंक्षेप निर्व्यथनक्ली तु निर्व्यथनं रन्ध्रे समासाद्यत्र पूर्ववत् । त्रिर्निराकृतिराकृत्या हीने स्वाध्यायवर्जिते ॥ ३२१ ॥ Nānārthārṇavasaṃkṣepa 6.321
- परमानन्दीयनाममाला गह्वरगर्जितं मेघजे शब्दे गह्वरं दम्भरन्ध्रयोः । [21] गैरिकं धातुभेदेऽपि स्वर्णे स्पाद्गालवो मुनौ ॥ १६६ ॥ Paramānandīyanāmamālā 5.9.166
- परमानन्दीयनाममाला नाकुस्वर्गे व्योम्नि मतो नाको नीचः पामरखर्वयोः । नाकुर्मुनीश्वरे रन्ध्रे पर्वते कृमिपर्वते ॥ २६२ ॥ Paramānandīyanāmamālā 5.18.262
- शब्दरत्नावली भूकपङ्कोऽस्त्री कर्दमे पाके भूकः स्यात् कालरन्ध्रयोः । वकः कह्वे धनेशे च बहुपुष्पे च रक्षसि ॥ Śabdaratnāvalī 7.1.15
- शब्दरत्नावली चारकचतुष्की मशहर्यान्तु यष्टिभेदे च न द्वयोः । चारकश्चारके रन्ध्रे हयादीनाञ्च पालके ॥ Śabdaratnāvalī 7.1.71
- शब्दरत्नावली कुहरकान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः ॥ किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके ॥ कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् ॥ कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ Śabdaratnāvalī 7.27.63
- शब्दरत्नाकर छिद्रछन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे । छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥ Śabdaratnākara 4.1.1923
- शब्दरत्नाकर सन्धिस्त्री सिन्धुरापगायां ना देशभेदसमुद्रयोः । संधिः सुरुङ्गानाट्याङ्गरन्ध्रसंश्लेषयोनिषु ॥ २०१९ ॥ Śabdaratnākara 4.1.2019
- वैजयन्ती सन्धिसन्धिः श्लेषे सुरुंगायां नाट्यांगे योनिरन्ध्रयोः । स्वरोऽकाराद्युदात्ताद्योः षड्जादौ प्राणिनां स्वने ॥ ६३ ॥ Vaijayantī 6.1.63
- वैजयन्ती छिद्रछन्दः श्रुतीच्छापद्येषु च्छिद्रं रंध्रापराधयोः । जालं गवाक्ष आनाये क्षारके कपटे गणे ॥ ९ ॥ Vaijayantī 6.3.9
- वैजयन्ती प्रत्ययप्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु । विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥ Vaijayantī 7.1.51
- वैजयन्ती खखमिन्द्रिये दिवि व्योम्नि रन्ध्रनक्षत्रयोरपि । Vaijayantī 8.3.21