कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बिल

bilaक्ली · neut.

In 17 kośas: 17 synonym verses, 2 as a nānārtha head word, 19 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य नरककाण्डः Abhidhānacintāmaṇi 5.5 · p. 52
रन्ध्रं बिलं निर्व्यथनं कुहरं शुषिरं शुषिः ॥ १३६३ ॥छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.1
अधोभुवनं पातालं बलिसद्म रसातलम् ।नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.624 · p. 71
निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
गीतिः
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर अष्टमोपदेशः Bālaprabodhikā 8.158 · p. 80
बिलं रन्ध्रं तु सुषिरं विवरं कुहरं तथा ।सर्पः पताकः पृथगुर्भुजङ्गोऽहिर्भुजङ्गमः ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.32 · p. 383
हयंकषो मातलिः स्यादिन्द्रपर्यायसारथिः ।वृषणाश्वावस्य हरी हय उच्चैःश्रवा बिलः ॥ ३२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.105 · p. 18
अश्वोरसं सप्तमुखो बिल उच्चैःश्रवा हयः ।सारथिर्मातलिर्ग्रीष्महासो वंशकफो ध्वजः ।मरुध्वजश्चेन्द्रतूलं जर्जरं वृद्धसूत्रकम् ॥ १०५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.4 · p. 302
छिद्रं तु कुहरं रोकं रन्ध्रं[148b] निर्व्यथनं बिलम् ।निम्नं रोपं च विवरं भूकं श्वभ्रं तथान्तरम् ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.311 · p. 43
रैवते तूज्जयन्तः स्याद्गुहायां गह्वरं मतम् ।देवखातबिले च स्याद्दरी स्त्री कन्दरोऽस्त्रियाम् ॥ ३११ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.254 · p. 83
रोकं बिलं निर्व्यथनं तथा निम्नं वपान्तरे ।श्वभ्रागाधावटा गर्तः पातालाख्येऽयमुच्यते ॥ २५४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.73 · p. 220
दलतालुबिलाम्भोरुह् मरिचव्यञ्जनाम्भसाम् ।घुसृणागुरुसौवीरक्लोमसिध्मयकृद्युधाम् ॥ ७३ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.253 · p. 18
गर्त्तो वटो भूमिखातो भूककुद्भूच्चकस्थलम् ।रन्ध्रं रोकं बिलं छिद्रं सुषिरं विवरं वषा ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.92 · p. 43
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि नारकविभागः Suśīlanāmamālā 6.2478 · p. 400
निम्नं निर्व्यथनं रन्ध्रं विवरं च वपाऽन्तरम् ।रोकं रोपं बिलं छिद्रं सुषिरं शुषिरं शुषिः ॥ २४७८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.3 · p. 37
रन्ध्रं निर्व्यथनं श्वभ्रं च्छिद्रं रोकं दरो बिलम् ।विवरं कुहरञ्चैव शुषिरञ्च वपाशुषिः ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.296 · p. 40
कुहरं तु रन्ध्रविवरछिद्रबिलश्वभ्ररोकनिर्व्यथनम् ।अपि सुषिवपे स्त्रियौ स्यादवटो गर्तश्च भूतलश्वभ्रे ॥ २९६ ॥
गीतिःmetre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.2 · p. 148
अगाधो भुवनं रोकं रन्ध्रं निर्व्यथनं बिलम् ।कुहरं सुषिरं छिद्रं श्वभ्रोऽस्त्र्यक्ली सुषिर्वपा ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.54 · p. 338
विशेष्यगाम्यप्रहते बिलस्तुशक्राश्वकेऽन्त्ये विवरे गुहायाम् ।व्याजे द्वयोनं स्खलिते छलं स्या-द्रोमाञ्चने पुंसि पुलोऽन्यवत्तु ॥ ५४ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.35 · p. 279
बिलं छिद्रे गुडायाञ्च पुमानुच्चैश्रवोहये ।शलो भृङ्गिक्षेत्रभिदोः शलले च विधातरि ॥शाला वृक्षस्कन्धशाखागृहैकदेशवेश्मसु ।शालः स्यान्मत्स्यभेदेऽपि नवभेदेऽपि कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)

बिल as a meaning in nānārtha verses