विवर
vivaraक्ली · neut.In 17 kośas: 17 synonym verses, 3 as a nānārtha head word, 27 as a meaning of another word.
रन्ध्रं बिलं निर्व्यथनं कुहरं शुषिरं शुषिः ॥ १३६३ ॥छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderक्लीneut.
अधोभुवनं पातालं बलिसद्म रसातलम् ।नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
genderक्लीneut.
निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
गीतिः
genderक्लीneut.
बिलं रन्ध्रं तु सुषिरं विवरं कुहरं तथा ।सर्पः पताकः पृथगुर्भुजङ्गोऽहिर्भुजङ्गमः ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
स्याद्धस्तवारणं चाथ स्यूतिः सेवनसीवने ।स्त्रियां भिदानो विवरः स्फुटनं तु नपुंसकम् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
मुस्ताकुथेङ्गुदानां च जृम्भदाडिमयोरपि ।पुरोदरप्रतिसरविवराणामतः पुनः ॥ २०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
उत्सो विदारकश्चुण्डि-चुर्यौ विवर-चूतकौ ।अन्धकूपः खटः पुंसि स तृणादिभिरावृतः ।कूपो दैर्घवरत्रः स्यान्निर्वृत्तो दीर्घवर्ध्रय(?) ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
छिद्रं तु कुहरं रोकं रन्ध्रं[148b] निर्व्यथनं बिलम् ।निम्नं रोपं च विवरं भूकं श्वभ्रं तथान्तरम् ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderक्लीneut.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
शुषिरं विवरं रन्ध्रं छिद्रं गर्ता च गह्वरम् ।श्वभ्रं रस्यं च पातालं नरकं यान्त्यमेधसः ॥ १९० ॥
अनुष्टुप्
genderक्लीneut.
रसातलं बलेर्वेश्माधोजगद्वडवामुखम् ।रोपं छिद्रं तथा रन्ध्रं विवरं शुषिरं शुषिः ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
गर्त्तो वटो भूमिखातो भूककुद्भूच्चकस्थलम् ।रन्ध्रं रोकं बिलं छिद्रं सुषिरं विवरं वषा ॥ २५३ ॥
अनुष्टुप्
genderक्लीneut.
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
निम्नं निर्व्यथनं रन्ध्रं विवरं च वपाऽन्तरम् ।रोकं रोपं बिलं छिद्रं सुषिरं शुषिरं शुषिः ॥ २४७८ ॥
अनुष्टुप्
genderक्लीneut.
रन्ध्रं निर्व्यथनं श्वभ्रं च्छिद्रं रोकं दरो बिलम् ।विवरं कुहरञ्चैव शुषिरञ्च वपाशुषिः ॥
अनुष्टुप्
genderक्लीneut.
कुहरं तु रन्ध्रविवरछिद्रबिलश्वभ्ररोकनिर्व्यथनम् ।अपि सुषिवपे स्त्रियौ स्यादवटो गर्तश्च भूतलश्वभ्रे ॥ २९६ ॥
गीतिःmetre not read in every line
genderक्लीneut.
विवर as a meaning in nānārtha verses
- धरणिकोश रोकपाकः क्लेदननिष्ठयोर्जरसिजे स्थाल्यादिके शावके शाको द्वीपविशेषके निगदितः शक्तौ च वृक्षान्तरे । किष्कुः स्याद्विततप्रकोष्ठमहितो हस्तो वितस्तिस्तथा रोकस्तु क्रयणान्तरे च विवरे रोकस्तु दीप्तौ स्मृतः ॥ Dharaṇikośa 1.1.5
- धरणिकोश अगाधसमाधिर्ध्याननीवाकनियमेषु समर्थने । अगाधमतलस्पर्शमगाधं विवरं विदुः ॥ Dharaṇikośa 18.2.14
- धरणिकोश वपारेपः स्यादधमे क्रूरे छुपः स्पर्शे क्षुपे तथा । कृपा दया कृपो व्यासो वपा विवरमेदसोः ॥ Dharaṇikośa 20.1.2
- धरणिकोश सुषिरनिकरो निवहे सारे कपर्दानां विनिचये । सुषिरं विवरे वाद्ये संबन्धे सुषिरा नदी ॥ Dharaṇikośa 26.2.25
- धरणिकोश गह्वरगह्वरं विवरे दम्भे गह्वरं विजनं ? विदुः । जर्जरं तु विशीर्णे स्याज्जर्जरो वासवध्वजः ॥ Dharaṇikośa 26.2.38
- कोषकल्पतरु ट्ङ्कस्याट्टङ्कने ग्रावविदारणे च शैलस्य शृङ्गे विवरे च टङ्गे । अत्कः प्रतीकाध्वगयोरथार्को रव्यर्कपर्णस्फटिकेन्द्रताम्रे ॥ ७ ॥ Koṣakalpataru 6.1.7
- कोषकल्पतरु कूपरोपो रोपणबाणयोरथ भवेत्सूपः पुमान्व्यञ्जने तत्कारे स्पृशि तु क्षुपे छुप इति स्याद्वायुवेण्योश्च यः । कूपोऽन्धौ गुणवृक्षके च विवरे मृन्मानके कूपके तापः स्यात्पचते तथातितपने नद्यन्तरे च स्त्रियाम् ॥ २ ॥ Koṣakalpataru 6.22.2
- कोषकल्पतरु शुषिरशीतेऽन्यवत्स्याद्वशिरः किणिह्यां शिन्धूद्भवे चेभकणासु न स्त्री । स्यान्मूषके ना शुषिरोऽन्तिमे तु वंश्यादिवाद्ये विवरेऽपि तद्वत् ॥ १२ ॥ Koṣakalpataru 6.27.12
- कोषकल्पतरु बिलविशेष्यगाम्यप्रहते बिलस्तु शक्राश्वकेऽन्त्ये विवरे गुहायाम् । व्याजे द्वयोनं स्खलिते छलं स्या- द्रोमाञ्चने पुंसि पुलोऽन्यवत्तु ॥ ५४ ॥ Koṣakalpataru 6.28.54
- कोषकल्पतरु शुषिकान्तौ तथा त्विड्व्यवसायके च रुचौ जिगीषावचसोरपि स्त्री । स्त्री व्यापने विट् श[84a]मले न पुंसि शुषिस्तु शोषो विवरेऽपि च स्त्री ॥ ४३ ॥ Koṣakalpataru 6.30.43
- नानार्थार्णवसंक्षेप रन्ध्रविवरे चापराधे च भूषणे त्वपरे विदुः । लग्नादप्यष्टमे राशौ विदुः सांवत्सरा इदम् ॥ १०९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1093
- नानार्थार्णवसंक्षेप अवधिविवरे सीम्नि काले चाप्यथर्वा त्वृषिभेदके । वेदभेदे च तत्रत्यमन्त्रेष्वपि तथास्य च ॥ ९ ॥ Nānārthārṇavasaṃkṣepa 3.2.9
- नानार्थार्णवसंक्षेप दरथदरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । दमुनास्तु रवौ वह्वावुत्तरार्धं तु राभसम् ॥ ९७ ॥ Nānārthārṇavasaṃkṣepa 3.2.97
- नानार्थार्णवसंक्षेप अन्तरविशेषविवरान्तर्धिष्ववसानविनार्थयोः । अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 4.11
- नानार्थार्णवसंक्षेप अगाधत्रिः क्ली तु विवरेऽहार्यः पुनर्ना धरणीधरे । अहर्तव्ये पुनस्त्रिः स्यादभ्यासो गुणने पुमान् ॥ ९१ ॥ Nānārthārṇavasaṃkṣepa 4.91
- नानार्थार्णवसंक्षेप कुहरक्लीबलिङ्गं तु विज्ञेयं गह्वरे विवरेऽपि च । कुलिशस्त्वस्त्रियां वज्रे मत्स्यभेदे तु स द्वयोः ॥ ५२२ ॥ Nānārthārṇavasaṃkṣepa 4.522
- नानार्थार्णवसंक्षेप शुषिरअर्थे वदन्ति विवरं रभसस्तु नखाह्वये । भेषजेऽप्यपठीद्वाद्यभेदे त्वजय उक्तवान् ॥ १८४६ ॥ Nānārthārṇavasaṃkṣepa 4.1846
- शब्दरत्नावली रोकराका पूर्णेन्दुपौर्णम्यां नवजातरजःस्त्रियाम् । रोकः क्रयान्तरे दीप्तौ रोकं विवरनौकयोः ॥ Śabdaratnāvalī 7.1.18
- शब्दरत्नावली शिलाटककुक्कुरे वानरे फेरौ मृगे शालावृको मतः । अट्टालिकायां विवरे स्यात् शिलाटकमस्त्रियाम् ॥ Śabdaratnāvalī 7.1.200
- शब्दरत्नावली पातालपाचलं पाचने वह्नौ राधनद्रव्यवातयोः । पाटलः श्वेतरक्ताशुधान्ययोः पाटलाद्रुमे । पातालं नागलोके स्याद्विवरे ना तु वाडवे ॥ Śabdaratnāvalī 7.28.75
- शब्दरत्नावली शुषिवृषा मूषिकपर्ण्यान्तु व्रतिनामासने वृषी । शुषिः शोषे च विवरे सर्पदन्तान्तरालके ॥ Śabdaratnāvalī 7.31.16
- शब्दरत्नाकर कुहरविवरे शैलदर्यां च कृपीटमुदरेऽम्भसि । दिग्गजे कुमुदः शाखामृगपन्नगमुख्ययोः ॥ २०६७ ॥ Śabdaratnākara 4.1.2067
- शब्दरत्नाकर नालिकानालिका विवरे वेणुभाजने चुल्लिरन्ध्रके । निर्गन्धः श्रमणे निःस्वे निर्वृतिः सौख्यनाशयोः ॥ २११३ ॥ Śabdaratnākara 4.1.2113
- वैजयन्ती नालनेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे । नाट्यं तौर्यत्रिके नृत्ते नालं विवरशेपसोः ॥ १७ ॥ Vaijayantī 6.3.17
- वैजयन्ती दरथदरथो विवरे भीत्यां दिक्षु चापि प्रसारणे । द्विजातिश्च द्विजन्मा च ब्राह्मणादिपतत्रिणोः ॥ ३१ ॥ Vaijayantī 7.1.31
- वैजयन्ती नालिकानिवृत्तिस्तु मनस्तोषे मोक्षेऽस्तमयबाढयोः । नालिका चुल्लिकारन्ध्रे विवरे वेणुभाजने ॥ ११ ॥ Vaijayantī 7.2.11
- वैजयन्ती अन्तरक्ली तु मध्येऽवकाशे च तादर्थ्येऽवसरेऽवधौ । विशेषविवरान्तर्धिष्ववसानविनार्थयोः ॥ २ ॥ Vaijayantī 7.5.2