पताका
patākāस्त्री · fem.In 20 kośas: 25 synonym verses, 3 as a nānārtha head word, 17 as a meaning of another word.
genderस्त्रीfem.
पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती पताका च केतुः स्यात्केतनं ध्वजः ।अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥ ४५८ ॥
अनुष्टुप्
genderस्त्रीfem.
नासावंश-विनायकदन्त-पताका मनांसि शक्रश्च ।अद्वैतवदेकैका एवामी सुकविभिर्वर्ण्याः ॥ २ ॥
आर्या
genderस्त्रीfem.
ध्वजोऽस्त्री केतनं चापि क्लीबे केतुः पुमान् स्त्रियाम् ।वैजयन्ती जयन्ती च पताका व्योममञ्जरी ॥ ३३७ ॥
अनुष्टुप्
genderस्त्रीfem.
जलौका झिरुका टीका त्रिकादूषा कृपा समा ।धूका च ध्रुवकानीका पादुका च पताकया ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
यथार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते ।आगन्तुकेन भावेन पताका साभिधीयते ॥ १०१ ॥
अनुष्टुप्
genderस्त्रीfem.
पताका वैजयन्ती च धूका केतुर्मतो नरि ।केतनं ध्वजमस्त्रीके अस्योच्चूलावचूलिका ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
[224a]छन्दोभिधाभेदमृतेऽनणन्ताटीका पताका झिरुका च नीका ।संवर्तिका कञ्चुलिका त्रिकोल्कापर्यस्तिका स्यात्क्षिपकालका च ॥ ३६ ॥
इन्द्रवज्रा
genderस्त्रीfem.
विट्शब्दो यदा अवर्णस्तदा स्त्रियां भवन्ति । यथा इयं विट् विष्ठा । अवर्ण इति किम् । अयं विट् वैश्यस्तृतीयो वर्णः । सास्नादय स्त्रियां भवन्ति । सास्ना गलकम्बलः । वीथी गृहावयवः । नीवी मूलबन्धनम् । भेरी वाद्यविशेषः । मञ्जूषा पेटा पुस्तकादीनाम् । गण्डूषा हस्तजलम् । मूषा सुवर्णधमनिका । परिषत्सभा । गुहा पर्वतस्य ।तृष्णा कृपा पताका रथ्या कृषिश्च काकिणी चैव ।एते स्त्रियां भवन्ति प्रतिशीरा धारा च नेमिश्च ॥ ६७ ॥
metre not recognised
genderस्त्रीfem.
युगो द्वितीयः प्रासङ्गः पताका तु ध्वजोऽस्त्रियाम् ।सेवका युधि योद्धॄणां भटा योधाश्च योधकाः ॥ १८८ ॥
अनुष्टुप्
genderस्त्रीfem.
ध्वजं पताका केतुश्च चिह्नं तद्वैजयन्त्यपि ।तत्तदन्तो झषाद्यादिः शम्भोर्विघ्नकरः स्मरः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
पताका वैजयन्ती च केतनं ध्वज उच्यते ।पत्ती रथो गजो वाजी सेनाङ्गं तु चतुर्विधम् ॥ ३६७ ॥
अनुष्टुप्
genderस्त्रीfem.
संवर्तिका कञ्चुलिका विपादिकाशूका पताका झिरुका त्रिकारुला ( रुका ? ) ।केका च यूका चविका गवेधुकापर्यस्तिका पूपलिकापि दीर्घिका ॥ ४३ ॥
इन्द्रवंशा
genderस्त्रीfem.
समुत्पिञ्जः पिञ्जरश्च भृशव्याकुलसैन्यके ।पताकश्च पताका च केतनं च ध्वजे मताः ॥ ३७९ ॥
अनुष्टुप्
genderस्त्रीfem.
ध्वजश्च केतनं केतुः पताका चिह्नमेव च ।मार्गोऽध्वा निगमः पन्था पदवी वर्त्म पद्धतिः ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
पताका केतनं केतुः पटाका च ध्वजः पुनः ।वैजयन्ती जयन्ती च ध्वजनामानि सन्ति वै ॥ १२२३ ॥
अनुष्टुप्
genderस्त्रीfem.
क्वचित् पताकादण्डोऽपि पताका कथ्यते पुनः ।ध्वजोर्ध्वभाग उच्चूलोऽवचूलोऽस्याध उच्यते ॥ १२२४ ॥
अनुष्टुप्
genderस्त्रीfem.
पताका च पटाका च जयन्ती वैजयन्तिका ।ध्वजोऽस्त्री वैजयन्ती च कदली कन्दलीति च ॥
अनुष्टुप्
genderस्त्रीfem.
शुश्रूषाऽन्वेषणा कुम्भाव्रज्या चर्या कृषिर्लिपिः ।पताका कतिका धूली रचनासन्ततिर्षृतिः ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती वैजयन्तो जयन्ती च ध्वजो ध्वजिः ।ध्वाजिश्च ध्वजपस्तद्वत्पताकाऽपि पटाकया ॥ २५७ ॥
अनुष्टुप्
genderस्त्रीfem.
पताका वैजयन्ती द्वे ध्वजे तद्वसनेऽपि च ।केतुरङ्को ध्वजोऽस्त्री स्यात् केतनं चाथ कूर्चकौ ॥ १३५४ ॥
अनुष्टुप्
genderस्त्रीfem.
वातकेतुः क्षितिकणः स्यात्पांशुर्मेदिनीद्रवः ।सम्भारः सर्वपूर्णत्वं पताका व्योममडलम् ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 म (wrong syllable)
genderस्त्रीfem.
अनुकर्षो रथस्याधोधरणन्दार्वथानसः ।युगो द्वितीयः प्रासंगः पताका तु ध्वजोऽस्त्रियाम् ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
दृढदुष्करचित्राणि कर्माणि हरणानि च ।मुचुटी सिंहकर्णी च पताका चेति मुष्टयः ॥ १९३ ॥
अनुष्टुप्
genderस्त्रीfem.
भवे[257a]द्बलाका विसकण्ठिकायांसकामनार्यां बकसंहतौ च ।बके पुमान्स्यादथ वैजयन्त्यांसौभाग्यनाट्याङ्गकयोः पताका ॥ २६ ॥
उपजातिःmetre not read in every line
नालीकौ पद्मनाराचौ वृन्देऽपि पेटकोऽस्त्रियाम् ।सौभाग्येऽपि पताका स्यात्पङ्कोऽस्त्री कर्दमांहसोः ॥ २९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
meaningsसौभाग्य
पताका as a meaning in nānārtha verses
- धरणिकोश ध्वजध्वजः शेफसि चिह्ने च पताकायां च शौण्डिके । वाजं पाथे मुनौ वाजो वाजो निस्वनपक्षयोः ॥ Dharaṇikośa 7.2.2
- धरणिकोश केतुकान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौ केतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे । अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौ द[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥ Dharaṇikośa 15.1.12
- धरणिकोश वैजयन्ती… । वैजयन्ती पताका स्याद्वैजयन्ती जयन्तिका ॥ Dharaṇikośa 15.3.36
- धरणिकोश चिह्नपानं स्याद्रक्षणं पीतिश्छन्नं स्याच्छादितं रहः । रत्नं मणावुत्कृष्टे च चिह्नं लक्ष्मपताकयोः ॥ Dharaṇikośa 19.1.2
- कोषकल्पतरु चिह्नचिह्नं पताकाङ्कनयोरथ स्यात् द्युम्नं धनेंऽसे च पराक्रमे च । मृत्स्ना मृदग्र्या तुबरी तथोक्ता रास्ना गुडूचीसुवहाहिनेत्रा ॥ ९८ ॥ Koṣakalpataru 6.21.98
- नानार्थार्णवसंक्षेप चिह्नत्वचि चिह्नं त्वभिज्ञाने पताकायामथो हृदि । प्रज्ञायामपि चित्तं स्याच्चोचं तु स्यात् तरुत्वचि ॥ २२ ॥ Nānārthārṇavasaṃkṣepa 2.3.22
- नानार्थार्णवसंक्षेप ध्वजध्वजं त्वस्त्री पताकायां चिह्ने पूर्वदिशो गृहे । शिश्नेऽथ तालवृक्षे ना वृक्षमात्रे तु सज्जनः ॥ ६३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.631
- नानार्थार्णवसंक्षेप वैजयन्तीपूर्ववत् स्यात् समासादि वैजयन्ती पुनः स्त्रियाम् । पताकायां च तर्कारीसंज्ञद्रौ केशवस्रजि ॥ ५८७ ॥ Nānārthārṇavasaṃkṣepa 6.587
- परमानन्दीयनाममाला केतुकोष्ठं कुशूलके कुक्षौ कूलं सैन्ये तटेऽपि च । केतुर्दीप्तौ पताकायां कलङ्के च ग्रहान्तरे ॥ १०७ ॥ Paramānandīyanāmamālā 5.7.107
- शब्दरत्नावली ध्वजध्वजः स्याच्शौण्डिके पुंसि पताकायान्तु न स्त्रियाम् । खटवाङ्गमेद्रचिह्नेषु स्याद्गर्वदर्पयोरपि ॥ निजः स्वीये च नित्ये च वाच्यलिङ्गन्तु कुत्रचित् । न्युब्जो दर्भस्रुचि क्लीबं कर्मरङ्गफलेऽपि च ॥ Śabdaratnāvalī 7.8.11
- शब्दरत्नावली केतुकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
- शब्दरत्नावली जयन्तीजयन्ती सुतागौर्य्यौः पताका वृक्षभेदयोः । जयन्तः स्यादिन्द्रपुत्रे भीमे च त्रिपुरान्तके ॥ Śabdaratnāvalī 7.16.102
- शब्दरत्नावली वैजयन्तीवैजयन्ती जयन्त्यान्तु पताकायामपि स्त्रियाम् । शुभदन्ती स्त्रियामेव सुदती दिग्गजस्त्रियोः ॥ Śabdaratnāvalī 7.16.174
- त्रिकाण्डशेष ध्वजजघन्यजोऽनुजे शूद्रे जलजं शङ्खपद्मयोः । चिह्नशेफपताकासु खट्वाङ्गेऽपि ध्वजोऽस्त्रियाम् ॥ ८४ ॥ Trikāṇḍaśeṣa 3.3.84
- त्रिकाण्डशेष चिह्नचीनौ वस्त्रत्रीहिभेदौ चिह्नं लक्ष्मपताकयोः । चक्रिणौ विष्णु भुजगकुलालग्रामजालिनः ॥ २३८ ॥ Trikāṇḍaśeṣa 3.3.238
- वैजयन्ती चिह्नचैत्यं चितांके बुद्धाण्ड उद्देशेऽद्रौ मुरालये । चिह्नमंके पताकायां छद्म सद्मनि कैतवे ॥ ८ ॥ Vaijayantī 6.3.8
- वैजयन्ती वैजयन्तीवैजयन्ती पताकायां जयन्त्यां केशवस्रजि । गुञ्जायूथ्यौ शिखण्डिन्यौ द्राक्षा स्वादुरसा सुरा ॥ ९ ॥ Vaijayantī 8.2.9