पृथा
pṛthāस्त्री · fem.In 6 kośas: 4 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.
पृथान्या शल्यभगिनी माद्री शल्यस्तु मद्रपः ।दुर्योधनस्तु कुरुराड् गान्धारेयः सुयोधनः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
तपाः कुन्ती पृथा च स्यान्मद्री माद्री समे उभे ।पाञ्चाली द्रौपदी कृष्णा याज्ञसेनी च वेदिजा ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
माद्री मद्रसुता स्यात्तु पृथा कुन्ती समीरिता ।काली योजनगन्धा च गन्धकाली झषोदरी ॥व्यासमाता सत्यवती सत्या चित्राङ्गदप्रसूः ।विचित्रवीर्यसूः श्रीदा दासेयी दासनन्दिनी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
genderस्त्रीfem.
धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा ।धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
genderस्त्रीfem.
दुःखदुर्गन्धयोश्च स्याद् दुर्गन्धवति तु त्रिषु ।पवनाख्यक्रियायां तु स्त्री कुन्त्यां तु पृथा स्त्रियाम् ॥ ८०६ ॥
अनुष्टुप्
meaningsकुन्ती
कोदण्डे तृणता ख्यातौ प्रथा पाण्डुवधूः पृथा ।श्च्योतप्रघारौ तु समाववनायस्त्वतिक्रमः ॥ १७२४ ॥
अनुष्टुप्
meaningsपाण्डुवधू
पृथा as a meaning in nānārtha verses
- शब्दरत्नावली कुन्तीकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9