कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वसुधा

vasudhāस्त्री · fem.

In 17 kośas: 15 synonym verses, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1 · p. 37
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा ।धात्री धरित्री धरणी विश्वा विश्वंभरा धरा ॥ ९३५ ॥क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही ।गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ ॥सर्वंसहा रत्नगर्भा जगती मेदिनी रसा ।काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ ९३७ ॥विपुला सागराच्चाग्रे स्युर्नेमीमेखलाम्बराः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.1
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा ।भूतधात्री रत्नगर्भा जगती सागराम्बरा ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.156 · p. 20
भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.18 · p. 1
वसुधाशर्वरीकान्तशशाङ्कावनयस्तथा ।यत्र भूमींदुनामानि प्रोक्ता तत्रैकसञ्ज्ञका ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव अङ्कुरोद्गमः Kalpadrukośa 1.1.15 · p. 2
धारणी काश्यपीरा कुर्मेदिनी वसुधा पुनः ।रत्नपर्यायगर्भार्थाऽचलानन्तापि च क्षितिः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.3 · p. 113
भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धराभूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा ।गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा-ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 6 · p. 3
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.225 · p. 32
भगवद्भट्टारकौ पादात्रभवन्तौ विभाविभौ ।भूमिर्भूर्वसुधा विश्वा धरोर्वी जगती रसा ॥ २२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रभ (syllable split)
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.3 · p. 1
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.105 · p. 12
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1588 · p. 255
सागरमेखला ज्या वै वसुधा सागराम्बरा ।समुद्रवसना भूश्च समुद्ररशना तथा ॥ १५८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.4 · p. 46
भूतधात्री वसुमती क्षमा कुः सागराम्बरा ।उर्वी भूखनी ज्या च काश्यपी वसुधा सहा ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 उ (syllables merged)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.1 · p. 218
धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा ।धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.366 · p. 49
भूर्भूमिर्वसुधा मही वसुमती विश्वंभरा मेदिनीगोत्रा गौर्धरणी समुद्ररशना सर्वंसहोर्वी क्षमा ।पृथ्वी क्ष्मा पृथिवी रसा क्षितिरिलानन्ताचला काश्यपीक्षोणी ज्या जगती स्थिरा कुरुवनी धात्री धरित्री धरा ॥ ३६६ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.2 · p. 35
genderस्त्रीfem.

वसुधा as a meaning in nānārtha verses

  • धरणिकोश धात्री[80] मन्त्रोऽतिगुप्तवादे स्याद्वेददेवविशेषयोः । धात्री मातोपमाता च वसुधामलकी स्मृता ॥ Dharaṇikośa 26.2.21
  • धरणिकोश अचलाकदली मृगजातिः स्याद्रम्भापि वैजयन्तिका । अचला वसुधायां स्यादचलौ गिरिनिश्चलौ ॥ Dharaṇikośa 27.2.24
  • कोषकल्पतरु इराजारो भवेच्चोपपतौ स्त्रियां तु स्याद्यावनाले मुदि मद्रमन्त्ये । देशे पुमान्स्याद्विबुधैस्त्विरोक्ता कादम्बरीवाग्वसुधासुधासु ॥ ७७ ॥ Koṣakalpataru 6.27.77
  • शब्दरत्नावली गौरीत्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् ॥ सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् ॥ क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च ॥ असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः ॥ चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले ॥ चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ Śabdaratnāvalī 7.27.10
  • शब्दरत्नाकर ज्याद्वयोः सायकवज्राम्बुस्वर्गयज्ञेषु लोम्न्यपि । ज्या शिज्जिनीवसुधयोस्त्विड्ज्वालादीप्तिकान्तिषु ॥ २२४२ ॥ Śabdaratnākara 4.1.2242
  • तन्त्राभिधान ओआप्यायनी चोर्ध्वदन्तो लक्ष्मीर्वाणी सु(मु)खी द्विजः । उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः ॥ ४३ ॥ Tantrābhidhāna 2.14.43
  • तन्त्राभिधान ममः काली क्लेशितः कालो महाकालो महान्तकः । वैकुण्ठो वसुधा चन्द्रो रविः पुरुषवाचकः ॥ १३५ ॥ Tantrābhidhāna 2.42.135
  • तन्त्राभिधान ययो वाणी वसुधा वायुर्विकृतिः पुरुषोत्तमः । युगान्तः श्वसनः शीघ्रं धूम्रार्चिः प्राणिसेवकः ॥ १३९ ॥ Tantrābhidhāna 2.43.139