सुधा
sudhāस्त्री · fem.In 21 kośas: 29 synonym verses, 9 as a nānārtha head word, 12 as a meaning of another word.
genderस्त्रीfem.
स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
भुवनं विष्टपं लोको जगदेकार्थवाचकाः ।अमृतं त्रिदशाहारः सुधा पीयूषमुच्यते ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
भूरलिङ्गं च पृथिवी भूमी स्याद्वसुधारिणी ।शैलाधारा गन्धमाता सुधा विश्वा च गह्वरी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुधा स्नुही स्नुक्स्त्रियः स्युः क्षीरी निस्त्रिंशपत्रकः ।शाखापत्रो महावृक्षः सेहुण्डो वज्रकण्टकः ॥ ३२१ ॥
अनुष्टुप्
genderस्त्रीfem.
तुल्या सुधा स्वधा धाना रास्ना सूना कृपाऽपि च ।झञ्झा पंपा प्रपा तद्वद्वपा शंपा शिफाऽथ च ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
पेयूषोऽस्त्री च पीयूषममृतं स्यात्सुधा बुधा ।विश्वकर्मा सुकर्माऽथ त्वष्टा च सुरवर्द्धकिः ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
रसशोधी पाचनको लोहश्लेषणकोऽपि सः ।चूर्णोऽस्त्रियां सुधा तु स्त्री क्षारे ताम्बूलपौगिके ।औद्भिदं पांसुजं शाकंभरं तत्स्थानसंभवम् ॥ २६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
ऐरावतो नागरङ्गो नारङ्गो वदनप्रियः ।योगसारस्त्वक्सुगन्धः सुधा तक्राधिवासकः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
समन्तदुग्धा स्नुक् स्नुह्यः स्नुहा चैव विषाणिका ।सुधा गुडा चाथ वज्रवल्ली स्याद्धस्तिशुण्डिका ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
शरद्दृषद्दरत्प्रोक्ता मदिः कृषिकवस्तुनि ।गदा-वितर्द्येकपद्यो गन्धा गोधा प्रधिर्गदिः ।शिरोधिरोषधिर्बाधा विधा संधा स्व[225b]धा सुधा ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
पामाशब्दः स्त्रियां कथितः । इयं पामा विचर्च्चिका कच्छूः । वेमादयः पुंसि भवन्ति । अयं वेमा तन्तुवायस्य । कुणपो मृतशरीरम् । कूर्चः श्मश्रु । अयं कन्दरः पर्वतस्यैकदेशः । यूथः सङ्घातः । प्रोथोऽश्वस्य नासिकाविवरयोरुपरिदेशः । वंशो वेणुः । रेणुः पांसुः । ध्वजः केतुः ।केदारखण्डप्रशमाश्च पुंसि नित्यं कपाटाश्च ।हेलाकाञ्चीला[ली]लासुधायुधाः स्युः स्त्रि[स्त्री]यां प्रवेणी च ॥ ७४ ॥
metre not recognised
genderस्त्रीfem.
एकाष्ठीलः सदापुष्पी मन्दारश्च प्रतापसः ।स्नुह्यां वज्रो महावृक्षोऽसिपत्रः स्नुक्सुधा गुडा ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
बिम्बे तस्य सुधासारः कलापूर्णं च मण्डलम् ।चन्द्रिका च सुधा छाया सुखा ज्योत्स्ना तु कौमुदी ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुधा विलेपा घटिका वालुका घटिकारसः ।संवाहकोऽङ्गमर्दः स्यादथ देहस्य रक्षके ॥ २३७ ॥
अनुष्टुप्
genderस्त्रीfem.
तेषामन्धोऽमृतं पेयूषं पीयूषमपि स्मृतम् ।समुद्रनवनीतं च सुधा यानमथोच्यते ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
मर्यादा च गदा गोधेक्षुगन्धापि स्वधा सुधा ।सास्नाथ वस्नसा सूना धाना झम्पा शिफा प्रपा ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
गोमेदजं पल्युलनं? चूर्णं क्षारः सुधाह्वयः ।कृष्णकन्दो गुडो ग्रन्थी शर्करा खण्डकः सिता ॥ २७७ ॥
अनुष्टुप्
genderस्त्रीfem.
रत्नाकरः सरिद्भर्त्ता यादोनाथो हिमांशुभूः ।सूधा पीयूषाममृतं सुरान्धः षड्रसाधिकम् ॥ २७९ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
पुलोमजा शचीन्द्राणी पीयूषममृतं सुधा ।हाहा हूहूश्च गन्धर्वो विश्वकर्मा तु शिल्पिकृत् ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
पीयूषं चापि पेयूषं देवभोज्यं सुधाऽमृतम् ।देवाहारश्च देवान्नं समुद्रनवनीतकम् ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
सुधर्मा च सुधर्मा स्यादमृतं निर्जरं सुधा ।पीयूषमपि पेयूषं समुद्र-नवनीतकम् ॥
अनुष्टुप्
genderस्त्रीfem.
हरीतकी शिवा पथ्या वयस्या पूतनाभयाः ।अव्यथा श्रेयसी शक्रपृष्ठा हैमवती सुधा ॥
अनुष्टुप्
genderस्त्रीfem.
देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः ।पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा ।धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
genderस्त्रीfem.
पिशाचाः कापिशेयाः स्युः सिद्धास्तु सनकादयः ।सुधा त्वमृतपीयूषे सुधर्मा दिविषत्सभा ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
ठकारो लाङ्गली चैव दक्षोरुर्वर्त्तुलः पुनः ।पूर्णचन्द्रामृताख्यौ च तथा करतलद्वयम् ।वनजो जीवनो जीवो वृषघ्नश्चन्द्रकः सुधा ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
बालो वामांश-खड्गीशावुत्कारी वरुणो जलम् ।लान्तश्च वारिदो मेदः सुधा धेनुर्व-कारकः ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्याप्तं तु परित्राणं हस्तवारणमित्यपि ।तृप्तिः सुधा च सौहित्यं तृप्तं तु सुहितं त्रिषु ॥ १०५ ॥
अनुष्टुप्
genderस्त्रीfem.
बाधा निषेधेऽपि च दुःख उक्तासुधा तु मूर्वाविकसास्नुहीषु ।विलेपवस्तुन्यमृतेऽथ संधास्थितौ च संवि[8b]द्यथ लालसायाम् ।श्रद्धातिभक्तौ क्रमतस्तु वृद्धौस्पर्धापि संघर्षणसाम्ययोः स्यात् ।मुग्धोऽन्यवत्सुन्दरमूढयोः स्या-द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 5 वि (wrong syllable)
गङ्गेष्टिकायां कुड्यादिलेपद्रव्यान्तरेऽमृते ।स्नुह्यां स्थूणा तु गेहस्य स्तम्भे वातादिषु त्रिषु ॥ १२३ ॥
अनुष्टुप्
doubtful
वधूः शटी माल्यवतीगोपकन्याप्रियङ्गुषु ।सुधा गङ्गेष्टिकामूर्वाचूर्णानिस्तृंशपत्रके ॥ २३६ ॥
अनुष्टुप्
सुधा as a meaning in nānārtha verses
- धरणिकोश लेपलेपः प्रलेपने जग्धौ सुधा लेपः प्रकीर्तितः । स्वापः स्पर्शाज्ञता निद्रा स्वापश्चाज्ञानमात्रकम् ॥ Dharaṇikośa 20.2.3
- कोषकल्पतरु पर्परीकशाके महाकालगणेऽप्यथान्त्ये स्यात्तर्तरीकं च वहित्रवाचि । पारीणवाची तु विशेष्यवत्स्या- त्सूर्ये सुधावाच्यपि पर्परीकः ॥ ५७ ॥ Koṣakalpataru 6.1.57
- कोषकल्पतरु अमृतअयाचिते स्याच्च घृते सुधायां स्त्रियां गुडूच्यामलकाभयासु । असत्यकृष्योरनृतं हरौ तु प्रोक्तोऽजितो निर्जितकेऽन्यवत्स्यात् ॥ ७० ॥ Koṣakalpataru 6.16.70
- कोषकल्पतरु समुद्रनवनीतअर्धपारावतस्तूक्तश्चित्रकण्ठे च तित्तिरौ । समुद्रनवनीतं स्यात्सुधायां च सुधाकरे ॥ ९१ ॥ Koṣakalpataru 6.17.91
- कोषकल्पतरु इराजारो भवेच्चोपपतौ स्त्रियां तु स्याद्यावनाले मुदि मद्रमन्त्ये । देशे पुमान्स्याद्विबुधैस्त्विरोक्ता कादम्बरीवाग्वसुधासुधासु ॥ ७७ ॥ Koṣakalpataru 6.27.77
- कोषकल्पतरु पीयूषस्यात्सप्तघस्रावधिदुग्धकेऽन्त्ये पीयूषमुक्तं च तथा सुधायाम् । पेयूषमस्त्री ह्यभिनव्यदुग्धे- ऽमृतेऽथ शैलूषमुशन्ति बिल्वे ॥ ५५ ॥ Koṣakalpataru 6.30.55
- परमानन्दीयनाममाला अमृतरसायने यज्ञशेषे तोये हृद्ये च गोरसे । माक्षीकवर्णयोरन्ने सुधाकैवल्ययोरथ ॥ २८ ॥ Paramānandīyanāmamālā 5.1.28
- शिवकोष अमृतअमृतं त्वक्षदुग्धाम्बुसुधाकाकोलसर्पिषि ॥ १८७ ॥ Śivakoṣa 12.2.187
- शब्दरत्नावली कज्जऊर्ज उत्साहबलयोः प्राणने कार्त्तिकेऽपि च । कज्जं सुधापङ्कजयोः कञ्जः केशविरिञ्चयोः ॥ Śabdaratnāvalī 7.8.4
- शब्दरत्नावली समुद्रनवनीतसमुद्रनवनीतन्तु सुधायां स्यात्सुधाकरे ॥ Śabdaratnāvalī 7.16.180
- तन्त्राभिधान ठठः शून्यं मञ्जरी बीजं पाणिनी लाङ्गली क्षयः । वनजो नन्दनो जिह्वा सुमञ्जुघूर्णनं सुधा ॥ ९२ ॥ Tantrābhidhāna 2.29.92
- त्रिकाण्डशेष अमृतमोक्षः सुधा यज्ञशेषोऽयाचितं वारि चामृतम् । अमृता तु गुडूची स्याद्धरीतक्यामलक्यपि ॥ १४३ ॥ Trikāṇḍaśeṣa 3.3.143