प्रसिद्धि
prasiddhiस्त्री · fem.In 5 kośas: 1 synonym verse, 13 as a meaning of another word.
विश्रावो ना प्रथा ख्यातिर्विश्रुतिश्च प्रसिद्धिवत् ।अवादौ स्ना(?)वुन्दनं चावक्लेदनमिदं समम् ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रसिद्धि as a meaning in nānārtha verses
- कोषकल्पतरु प्र-चर्खेटयति खेडयति ग्रसते ग्लसते च खोटयति । चरति चषतेऽपि चषति गलति तथाभ्यवहरत्यपि । उपाद्भुजिश्चोपभोगेऽथाङः पूर्णत्व-यत्नयोः । समो साभे नुतोमत्यां(?)न तु तङ्मान्स रक्षणे ॥ आङश्चमिरुपस्पर्शे चाभ्यधिभ्यां चरिः क्षये । अनोः सहायकेऽथोपादुपादाराधनार्थकः ॥ रोगस्य च चिकित्सायां शब्दवृत्तेर्विशेषणे । आङः कृतौ परेः सेवे वाच्युदः समुदः परः ॥ सहचारिण्यपावृत्तौ भूयः प्रत्याङ उत्तरः । अतेरुल्लङ्घनानीत्योः प्रात्प्रसिद्धावभेः पुनः ॥ अन्यथात्वेऽथोत्परोऽसौ कर्मवानात्मनेपदी । तथा तृतीयया युक्तः[183b]संपरश्च प्रकीर्तितः ॥ चलनप्राशनार्थेभ्यः स्यात्परस्मैपदं णिचि । आदेस्तु कर्त्रभिप्राये फले स्यादात्मनेपदम् ॥ परेर्मोहयतेर्वादेर्वासेः पाययतेर्दमेः । आङ्यासेरपि तद्वत्स्यात्तथा धापयतेरपि ॥ तद्वद्रोचेर्नर्तयतेर्ण्यन्तानां बुधयुध्नशाम् । प्रुद्रुस्रूणां जनेङोश्च परस्मैपदमीरितम् ॥ इच्छति वाङ्क्षति काङ्क्षति वाञ्छति माङ्क्षति च लष्यते लषति । लष्यति लषते लुभ्यति कामयते वष्टि चाशास्ते । प्रीणाति प्रीणीते गृध्यत्यनुरुध्यते च गर्धयति । आशंसते च हर्यति कनत्यवति खटति तद्वत्स्युः । वरयति लालयते च स्पृहयति लिप्सत्यपि चेच्छार्थाः ॥ २६ ॥ Koṣakalpataru 3.5.26
- कोषकल्पतरु प्र-सिध्शास्ति तु कंस्ते कस्ते सेधति चाज्ञापने प्रोक्ताः । प्रात्सेधतिः प्रसिद्धौ प्रादुष्कारे च भूषायाम् ॥ ४९ ॥ Koṣakalpataru 3.5.49
- कोषकल्पतरु प्रत्यवतिकृच्छ्रदोषातिक्रमेषु दण्डने प्रतितः पुनः । प्रसिद्धौ शपथे ज्ञाने विश्वासस्य च हेतुषु ॥ २५ ॥ Koṣakalpataru 3.5.25
- कोषकल्पतरु नामसासूयमङ्गीकरणेऽप्यलीके संभावनायां *** प्रसिद्धौ । स्यान्नाम वित्तेऽप्यथ तद्दिनं स्या- न्मध्ये दिनस्य प्रतिवासरे च ॥ ८ ॥ Koṣakalpataru 5.1.8
- कोषकल्पतरु रूढिरूढिः प्रसिद्धौ प्रभवेऽथ रूढं विशेष्यवत्प्रस्फुटजातयोः स्यात् । Koṣakalpataru 6.14.5
- कोषकल्पतरु प्रत्ययविश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणे ज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः । दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमे विद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥ Koṣakalpataru 6.26.61
- कोषकल्पतरु प्रकाशस्यात्काकजङ्घातिबलातिमोदौ- षधे तथा शाकिनिकाविशेषे । व्यक्तौ विकाशो विजने प्रकाशः स्फुटप्रहासातपगः प्रसिद्धौ ॥ १७ ॥ Koṣakalpataru 6.30.17
- शब्दरत्नावली टङ्कारझर्झरो नदभिद्वाद्यभेदयोस्तु भवेत्कलौ । टहरी स्यान्मृषावाचिझम्पापटहवाद्ययोः ॥ टङ्कारः शिञ्जिनीध्वाने प्रसिद्धौ विस्मये पुमान् । डिङ्गरो डङ्गरे क्षेपे खले धूर्ते च चोरके ॥ Śabdaratnāvalī 7.27.75
- शब्दरत्नावली ?किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर वैवि निषेधे पृथग्भावे वा विकल्पोपमानयोः । समुच्चये च वै पापे वाक्यारम्भप्रसिद्धयोः ॥ २२५५ ॥ Śabdaratnākara 5.1.2255
- त्रिकाण्डशेष टङ्कारनदप्रभेदे वाद्ये च झर्झरोऽथ गुणध्वनौ । प्रसिद्धावपि टङ्कारस्तारोऽत्युच्चस्वरे त्रिषु ॥ ३५२ ॥ Trikāṇḍaśeṣa 3.3.352
- वैजयन्ती वैसमुच्चये च वै पापे वाक्यारंभप्रसिद्धयोः । स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः ॥ ७ ॥ Vaijayantī 8.7.7
- वैजयन्ती हसमभेदे समीचीने सुष्ठुपूजासुखेषु सु । प्रत्यारंभे प्रसिद्धौ ह हा विषादशुगार्तिषु ॥ ८ ॥ Vaijayantī 8.7.8