कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रत्यय

pratyayaपुं · masc.

In 11 kośas: 7 synonym verses, 11 as a nānārtha head word, 3 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.780 · p. 89
उपजापो भवेद्भेदः साम सान्त्वमिति स्मृतम् ।तथेति प्रत्ययः श्रद्धा संस्कारो वासना स्मृता ॥ ७८० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.33 · p. 238
मैत्रेयिका मित्रयुद्धं प्रत्ययाः सहकारिणः ।अथ हेतुरुपादानं व्याप्यं लिङ्गं च साधनम् ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.73 · p. 250
एकान्तिकं रहस्यं च रहोजन्म विशेष्यवत् ।विश्वासाश्वास-विश्रम्भ-प्रत्ययाः स्युः समार्थकाः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.8 · p. 306
उत्थानायतने हेतुः प्रत्ययश्च निगद्यते ।प्राग्रूपं भाविरोगस्य ज्ञापकं लक्षणं हि यत् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.121 · p. 46
संदेहः संशयो रेको निश्चयो निर्णयोऽपि च ।तथा विश्रम्भविश्वासप्रतीतिप्रत्ययाः समाः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1401 · p. 170
लेख्यो लेखः प्रत्ययस्तु दिव्यं दैविकमित्यपि ।अभियोक्ता शिरोवर्ती शिरःस्थश्चाथ दर्शितः ॥ १४०१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.11 · p. 88
अथ हेतुरुपादानं प्रत्ययाः सहकारिणः ।अनुमा त्वनुमाने स्याद्व्याप्यं लिङ्गं च साधनम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.148
प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ।रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.848 · p. 97
प्रत्ययाः शपथज्ञानहेतुविश्वासनिश्चयाः ।विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास यश्लोकः Dharaṇikośa 25.3.22 · p. 161
प्रत्ययश्च प्रतीते स्यात्प्रकृतेश्च परस्तथा ।ज्ञाने च शपथे छिद्रे विश्वासाधीनहेतुषु ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.61 · p. 295
विश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणेज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः ।दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमेविद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.122 · p. 21
प्रावारभेदे निस्तारस्तूणीरे कश्चिदब्रवीत् ।प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १२२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.123 · p. 22
रन्ध्रे च प्रथितत्वे चाप्याचारप्रतियानयोः ।सनादिशब्दावयवे तथैव स्यात् सुबादिषु ॥ १२३ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.34 · p. 4
प्रायुङ्क्त प्रत्यये भट्टिर्विश्वासः प्रत्ययो मतः ।प्रतिमायां प्रतिकृतिः प्रतिकारेऽप्यथो शृणु ॥ ३४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.43 · p. 261
नादेयी भूमिजम्बां स्त्री जरायाम्बुवेतसे ।नागरङ्गे जयायाञ्च व्यङ्गुष्ठेऽपि च कुत्रचित् ॥निकायो निलये लक्ष्ये सधर्मिप्राणिसंहतौ ।समुच्चये संहतानां स्यात्पुमान् परमात्मनि ॥नेपथ्यं रङ्गवाह्ये स्यादलङ्कारेऽपि च द्वयोः ।प्रणयः प्रसवे प्रेम्णि मोक्षविश्रम्भयोरपि ॥प्रत्ययः प्रथिते ज्ञाने स्यादित्यादियनादिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.44 · p. 261
आचारशपथाधीनच्छिद्रविश्वासहेतुषु ।पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च ॥प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् ।पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः ॥प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् ।प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥
अनुष्टुप्
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2126 · p. 257
प्रदरा बाणरुग्भङ्गाः प्रतापौ पौरुषातपौ ।प्रत्ययः ख्यातिविश्वासशपथज्ञानहेतुषु ॥ २१२६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.51 · p. 243
प्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु ।विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥
अनुष्टुप्

प्रत्यय as a meaning in nānārtha verses