All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
पातालकाण्डः · प्रकीर्णवर्गः
॥ इति विशेष्यनिघ्नवर्गः ॥
लिङ्गेऽनुक्ते प्रकीर्णेऽत्र प्रकृतिप्रत्ययादिभिः ।लिङ्गं विद्याद्विधानं तु भवेदुत्सर्गबाधकम् ॥ १ ॥
3.4.1 · p. 30
अनुष्टुप्
कर्मास्त्रियां क्रिया-कृत्या-कृतयोऽथ स्त्रियामुभे ।कारिश्च कारिका प्रश्ने चाख्यानेऽथापरस्पराः ॥
3.4.2 · p. 30
अनुष्टुप्
तत्सातत्येऽन्यवद्धेतुशून्यं स्थान विलक्षणम् ॥ २ ॥
3.4.2 · p. 30
कार्मणं मूलकर्म स्यात्परिशुद्धे तु कर्मणि ।अवदानं च निर्व्यूढमथ संवदनं स्मृतम् ।वश क्रिया संवननं हिंसाफलककर्म तु ॥ ४ ॥
3.4.4 · p. 30
अनुष्टुप्
[178a]अभिचारोऽथान्तरायो व्यवायो विघ्न इत्यपि ।प्रत्यूहः प्रतिबन्धस्तु प्रतिष्टम्भोऽप्यथाग्रहः ॥निर्बन्धोऽभिनिवेशः स्यात्पर्यवस्था विरोधनम् ।निग्रहस्तु निरोधः स्यादभियोगस्त्वभिग्रहः ॥ ६ ॥
3.4.6 · p. 30
अनुष्टुप्
संग्राहो मुष्टिबन्धः स्याद्ग्रहो ग्राहः समावुभौ ।उद्ग्राहः स्यादुद्ग्र[ह]णं दान्तिः स्त्री दमथो दमः ॥ ७ ॥
3.4.7 · p. 30
अनुष्टुप्
विश्रावो ना प्रथा ख्यातिर्विश्रुतिश्च प्रसिद्धिवत् ।अवादौ स्ना(?)वुन्दनं चावक्लेदनमिदं समम् ॥ ९ ॥
3.4.9 · p. 30
अनुष्टुप्
जलेतरक्लेदने स्यादुदङ्कोऽथाम्बुनोन्दने ।उदकोदञ्चनं क्लीवे रातिस्त्वादानवाचकः ॥ १० ॥
3.4.10 · p. 30
अनुष्टुप्
पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ।रक्ष्णस्राणे व्यधो वेधे ज्वलो ज्वाले वरो वृतौ ॥ १० ॥
3.4.10 · p. 30
अनुष्टुप्
विदारणं भेदनं च विदरः स्फुटनं भिदा ।लवोऽभिलावो लवनं लूनिः स्त्री स्यादुपस्कृतिः ।प्रतिकीर्णमुपस्कीर्णं हिंसायां विषये मते ।उपस्कारं लुनन्तीति विक्षिप्य लवने[178b] भवेत् ।छेदनं वर्धनं तुल्ये कर्तनं कल्पनं छिदा ॥ ११ ॥
3.4.11 · p. 31
अनुष्टुप्metre not read in every line
चायः प्रचायो विचयः पुष्पादेर्ग्रहणे मताः ।चौर्यग्रहे तु प्रचयो निष्पावः पवनं पवः ॥ १५ ॥
3.4.15 · p. 31
अनुष्टुप्
विधूननं विधुवनं क्ष्मातिर्धूनिर्धूनी स्त्रियः ।गीर्णिर्गिरिः स्त्रियां चाथ तर्पणं प्रीणनावने ।हिन्वनं धिन्वनं तद्वद्दिन्वनं जिन्वनं च तत् ॥ १३ ॥
3.4.13 · p. 31
अनुष्टुप्metre not read in every line
सेवस्तु सेवनं स्यूतिः कीर्णिः स्यात्क्षिपणं क्षिपः ।व्यतिषङ्गो व्यतिकरः स्पृष्टिः पृक्तिः स्तवः श्रवः ॥ १४ ॥
3.4.14 · p. 31
अनुष्टुप्
आक्रोशनमभिष्वङ्गो निवेशो रचना स्थितिः ।आस्यासनास्था-स्थितयोऽभ्युपपत्तिस्त्वनुग्रहः ॥ १५ ॥
3.4.15 · p. 31
अनुष्टुप्
सम्मूर्छनमभिव्याप्तिः स्फुरणे स्फुरणा स्त्रियाम् ।हूतौ हवोऽथ पुत्रीया पुत्रकाम्या पुपुत्रिषा ॥ १६ ॥
3.4.16 · p. 31
अनुष्टुप्
घटना पुंसि संघर्षः श्रथना तु विमोचना ।अथ प्रश्नाख्यानयोः स्युः पचा पाचिश्च पाचिका ॥ १७ ॥
3.4.17 · p. 31
अनुष्टुप्
पर्यायेण स्थितौ सुप्तावासिका शायिकापि च ।उपशाय-विशायौ द्वौ योग्यत्वे भक्षि[179a]काशिका ॥ १८ ॥
3.4.18 · p. 31
अनुष्टुप्metre not read in every line
संधिः श्लेषश्च संयोगः संबन्धो युतिरङ्गना ।विधुरं तु प्रविश्लेषो नरि स्त्री तु वियोजना ॥आप्रच्छनं भवेदानन्दनं तच्च सभाजनम् ।नीतिः स्त्रियां नयो नायो ज्यानिर्जीर्णिः स्त्रियामुभे ॥ २० ॥
3.4.20 · p. 31
अनुष्टुप्
हानिः क्षिया क्षयो ह्रासोऽपचयश्चापहारवत् ।स्फातिर्वृद्धिस्तथोत्कर्षोऽतिशयश्चातिशायनम् ॥ २१ ॥
3.4.21 · p. 32
अनुष्टुप्
एधा समृद्धिर्ऋद्धिश्च प्रमा तु प्रमितिः स्त्रियौ ।प्रजनः स्यादुपसरः पूर्वगर्भग्रहार्थकः ॥ २२ ॥
3.4.22 · p. 32
अनुष्टुप्
सूतिः प्रसूतिः प्रसवः प्राघारश्च्योत इत्यपि ।गुरणं तूद्यमो न स्त्री इङ्गस्त्वाकार इङ्गितम् ॥ २३ ॥
3.4.23 · p. 32
अनुष्टुप्
वूर्तिः स्त्री वरणं द्वौ तु चल-चालौ नृलिङ्गकौ ।आक्रमोऽभिक्रमः क्रान्तिः स्यादारोहस्त्वभिक्रमः ॥ २४ ॥
3.4.24 · p. 32
अनुष्टुप्
संक्राम-संक्रमौ न स्त्रीलिङ्गौ द्वौ दुर्गसंचरे ।विश्रमः पुंसि विश्रान्तिरवेक्षा प्रतिजागरः ॥ २५ ॥
3.4.25 · p. 32
अनुष्टुप्
विरामस्त्ववसाने स्यादुपरामस्तथाऽऽरतिः ।निर्वृत्युपरती सातिर्वियाम-वि[179b]यमौ समौ ॥ २६ ॥
3.4.26 · p. 32
अनुष्टुप्metre not read in every line
व्ययस्त्वर्थस्यापगमो जप्तिः स्त्री जपनं जपः ।बन्धनं प्रसितिश्चारः स्पशः स्प्रष्टोपतप्तरि ॥ २७ ॥
3.4.27 · p. 32
अनुष्टुप्
स्पाशश्चाथ विवर्तः स्यादपवर्तनमित्यपि ।परिणामो विकारो द्वे समे विकृति-विक्रिये ॥ २८ ॥
3.4.28 · p. 32
अनुष्टुप्
प्रतियत्नो गुणाधानं विकृतं वैकृतं त्रिषु ।उपस्कृतं भेद्यलिङ्गं प्रतियत्ने च वैकृते ॥विधा स्त्री भिद्भिदा भेदः प्रकारोऽथ परिक्रमः ।विहारोऽपि परीसर्प-परिसर्पगमास्त्रयः ॥ २९ ॥
3.4.29 · p. 32
अनुष्टुप्
मर्षः परिकरः-स्त्रीर्या गतिरिङ्खा सृतिर्गतिः ।भवेदुपसमाधानं समाहारः समुच्चयः ।परिष्कृतं संस्कृतं चोपस्कृतं च समुच्चितम् ॥ ३० ॥
3.4.30 · p. 33
अनुष्टुप्metre not read in every line
आदानं स्यादवचयः परिहारस्तु वर्जनम् ।संहारः स्यात्संहरणं निर्हारोऽभ्यवकर्षणम् ॥ ३१ ॥
3.4.31 · p. 33
अनुष्टुप्
स्त्रियां हस्ताहस्तिका स्याद्धस्तैर्हस्तैर्विकर्षणे ।अनुहारोऽनुकारः स्यादौपम्यं च सधर्मता ॥ ३२ ॥
3.4.32 · p. 33
अनुष्टुप्
कक्षा तुला चोपमा स्यादुपमानं तु न स्त्रियाम् ॥ ३३ ॥
3.4.33 · p. 33
प्र[180a]तिबिम्बं प्रतिरूपं प्रतिमानं स्यात्प्रतिच्छन्दः ।प्रतिकृतिरर्चा प्रतिमा प्रतिमूर्तिः स्यात्प्रतिच्छाया ॥ ३४ ॥
3.4.34 · p. 33
उपगीतिः
प्रतियातना प्रतिनिधिस्तूर्मी स्थूणा च लौहेऽस्मिन् ।संक्षेपणं समसनं समाहृतिः संग्रहः समासश्च ॥ ३५ ॥
3.4.35 · p. 33
उद्गीतिः
भोगः प्रपञ्चो विस्तारो व्यासो विग्रह इत्यपि ।विस्तरस्तु स शब्दस्य प्लववस्तु न योषिति ॥ ३६ ॥
3.4.36 · p. 33
अनुष्टुप्
अर्थापुष्टिस्त्ववकरो विनाशः स्याददर्शनम् ।लोपोऽथोद्वेग उन्मोहः प्रसरस्तु विसर्पणम् ॥ ३७ ॥
3.4.37 · p. 33
अनुष्टुप्
संस्तवः स्यात्परिचयः प्रवहो गमनं बहिः ।नीवाकस्तु प्रयामः स्याद्धान्यादेः संचयक्रिया ॥ ३८ ॥
3.4.38 · p. 33
अनुष्टुप्
यमो यामोऽपि संयामः संयमश्च समार्थकाः ।परिसर्या परीसारः प्रसरस्तु विसर्पणम् ॥ ३९ ॥
3.4.39 · p. 33
अनुष्टुप्
विलम्भस्त्वतिसर्गः स्यात्प्रतिलम्भस्तु लम्भनम् ।नियोगे विधि-संप्रैषौ विनियोगोऽर्पणं फले ॥ ४० ॥
3.4.40 · p. 33
अनुष्टुप्
उपलम्भस्त्वनुभवोऽनुभूतिरुपलब्धिवत् ।आदीनवास्रवौ क्लेशे[180b] मेलके सङ्ग-संगमौ ॥ ४१ ॥
3.4.41 · p. 33
अनुष्टुप्metre not read in every line
अन्वेषणान्वेक्षण-मार्गणानिसंवीक्षणं स्यान्मृगणा मृगश्च ।गवेषणं ना विचयोऽथ षण्ढेसंस्थानमाहुः किल संनिवेशे ॥ ४२ ॥
3.4.42 · p. 34
उपजातिः
साचिः स्त्रियां तिर्यगर्थे संप्रोक्तं साचि चाव्ययम् ।संवाहनं मर्दनं स्याच्छ्लाघना कत्थना स्त्रियौ ॥ ४३ ॥
3.4.43 · p. 34
अनुष्टुप्
प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ।प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् ॥ ४४ ॥
3.4.44 · p. 34
अनुष्टुप्
स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ।निगारः स्यान्निगरणं विक्षावः क्षवनं मतम् ॥ ४५ ॥
3.4.45 · p. 34
अनुष्टुप्
उद्गारः स्यादुद्गिरणं वमनं च वमे नरि ।निष्ठीवोऽस्त्री थूत्कृतिः स्त्री निष्ठ्यूतिः ष्ठ्यूतमन्तिमे ॥ ४६ ॥
3.4.46 · p. 34
अनुष्टुप्
निष्ठीवनं तथा निष्ठेवनं च स्यान्नपुंसके ।रिङ्गणं स्खलनं तुल्ये पूर्तावुम्भनमोभनम् ॥ ४७ ॥
3.4.47 · p. 34
अनुष्टुप्
निहवोऽभिहवश्चोपहवोऽप्युक्तोऽभिमन्त्रणे ।पश्वीरणे स्यादुदजो निग्राहः शपने मतः ॥ ४९ ॥
3.4.49 · p. 34
अनुष्टुप्
व्यतिहारो मि[181a]थः कर्म तत्र गम्ये स्त्रियामिमाः ।व्यावचोरी व्यावचर्ची व्यावक्रोशीति दिक्स्मृता ।सन्संदर्भो गुम्फो गोफोऽस्त्री ना परिस्पन्दः ।पुणनं कर्मणि पुण्येऽथाभोगः स्यात्प्रपूर्णत्वम् ॥ ५१ ॥
3.4.51 · p. 34
metre not recognised