All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
अव्ययकाण्डः · अव्ययवर्गः (2/2)
सासूयमङ्गीकरणेऽप्यलीकेसंभावनायां *** प्रसिद्धौ ।स्यान्नाम वित्तेऽप्यथ तद्दिनं स्या-न्मध्ये दिनस्य प्रतिवासरे च ॥ ८ ॥
5.1.8 · p. 132
इन्द्रवज्राmetre not read in every line
अलं तु भूषा-प्रतिषेध-शक्ति-पर्याप्ति-वैयर्थ्य-निवारणेषु ।शं स्यात्सुखे मङ्गलवाचकं चसं तु प्रकृष्टे रुचिरे समे च ॥ ९ ॥
5.1.9 · p. 132
उपजातिः
अभीक्ष्णमश्रान्तमुहुर्द्रुतार्थे-ऽथाभीक्ष्णमश्रान्त-भृशार्थयोः स्यात् ।भवेदिदानीमधुनार्थवाक्य-संधानयोः स्यादुत किंचिदर्थे ॥ १० ॥
5.1.10 · p. 132
उपजातिः
कथं प्रकारोद्भवसंभ्रमार्थेसंभावनानिश्चययोः किमु स्यात् ।भृशं प्रकर्षे पुनर[245b]र्थके चनित्ये त्ववश्यं च विनिश्चयेऽपि ॥ ११ ॥
5.1.11 · p. 132
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 8 र (wrong syllable)
प्रश्नानुनीत्योरपि संभ्रमे तुक्रोधे विषादे स्मरणेऽप्यये स्यात् ।मध्यान्तिकेऽर्थे समया प्र तु स्या-द्गते प्रकर्षेऽप्यथ दुश्च कष्टे ॥ १२ ॥
5.1.12 · p. 132
उपजातिः
निषेधनिःशेषविनिश्चयेषुक्रान्तादिषु स्यादपि निः प्रकर्षे ।पुनर्विशेषाप्रथमार्थकं स्या-त्स्वर्गेऽन्यलोके स्वरुदाहरन्ति ॥ १३ ॥
5.1.13 · p. 133
उपजातिः
प्राधान्यहिंसागतिधर्षणेषुप्रातीप्यवैमुख्यभृशाभिमुख्ये ।विमोक्षविक्रान्तिवधे परा स्या-त्पुरा पुराणे निकटेऽप्यतीते ॥ १४ ॥
5.1.14 · p. 133
उपजातिः
भविष्यदासन्नसदार्थकेषुस्यादन्तरा मध्यनिषेधवाचि ।मध्ये विचेतस्यपि सम्मतौ चप्रान्ते तथान्तः समुदाहरन्ति ॥ १५ ॥
5.1.15 · p. 133
उपजातिः
सर्वतोभवनभूषणपूजा-दोषवादपरिरम्भगदेषु ।लक्षणादिषु च शोकनिवास-व्याप्तिवर्जनवधेषु परि स्यात् ॥ १६ ॥
5.1.16 · p. 133
स्वागता
चतुष्कमूर्यादि तनौ मतौ परै* तु प्रदाने च तिरस्कृतौ च ।यत्र त्वमर्षानवक्लृप्तिगर्हा-श्च[246a]र्येषु चार्याः समुदाहरन्ति ॥ १७ ॥
5.1.17 · p. 133
उपजातिःmetre not read in every linenearly उपजातिः: pāda 1, syllable 7 व (wrong syllable)
संभाव्यवार्तानुनयेषु हेतौकिलेत्यलीकेऽप्यरुचौ प्रदिष्टम् ।सद्वाक्यभूषाप्रतिषेधमान-ज्ञीप्सासु वीप्सासु खलु स्मरन्ति ॥ १८ ॥
5.1.18 · p. 133
उपजातिः
व स्यादपूर्तावुपमार्थके चविकल्पसादृश्यसमुच्चये वा ।वि तु प्रशस्ये विशयेऽप्यतीतेप्रसादसंबोधनपूरणे वै ॥ १९ ॥
5.1.19 · p. 134
उपजातिः
हा दुःखे शुचि ही तु विस्मयविषादार्थेऽथ हाहा तथाहू हूं खेद विषादयोरथ मतो हू विस्मयामन्त्रणे ।हं हो विस्मयदुःखयोः सह पुनः साकल्यसादृश्ययोःसंबन्धर्द्धिसमानकाल उदितं ही ही तु हास्येऽद्भुते ॥ २८ ॥
5.1.28 · p. 134
शार्दूलविक्रीडितम्
आह क्षेपनियोगयोरथ मतावाहो उताहो उभौपृच्छायां च विचारणेऽप्यथ परिक्लेशे प्रकर्षेऽह हा ।हिंसोपक्रमकुत्सनेषु विबुधाः संकीर्तयन्त्यादहप्रोक्तं मंक्षु विचक्षणे अति[246b]शये तत्त्वे तथाति द्रुते ॥ २९ ॥
5.1.29 · p. 134
शार्दूलविक्रीडितम्metre not read in every line
अभिदधति निजार्थान्स्वर्मुखान्यव्ययानिप्रपरिसुचमुखानि द्योतयन्ति स्वमर्थम् ।इमिति सिमितिनार्थं चक्षते चाटुमुख्यान्**रभिदधतेऽर्थं स्वस्य संभूय भूयः ॥ ३१ ॥
5.1.31 · p. 134
मालिनीmetre not read in every line
उपसर्गनिपातधातवोबहुधार्थाः कथिता निसर्गतः ।तदपीह तदर्थशंसनंशिशुशिष्यावलये निदर्शनम् ॥ श्री श्री श्री इति
5.1.137 · p. 134
वियोगिनीtwo metres in one verse
श्रीविश्वनाथरचिते कोषकल्पतराविह ।वर्गपञ्चकसद्बन्धः सामान्यस्कन्ध ईरितः ।
5.1.138 · p. 135
वियोगिनीtwo metres in one verse