All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · द्विढाः
द्विढाः ।
दृढः प्रगाढेऽतिशये भृशेऽस्त्री ।स्थूले सम[277b]र्थेऽविनये त्रिषु स्या-द्बाढं प्रतिज्ञादृढयोस्तथान्त्ये ॥ ९३ ॥
6.14.93 · p. 192
metre not recognised
तन्द्रालुशिश्वोः परवच्च मूढोगूढोऽपि चेत्संवृतवाचकः स्यात् ।क्लीबे रहो गुह्यगतेऽथ वड्रेव्यूढं कृतेऽपि त्रिषु संहते च ॥ ९४ ॥
6.14.94 · p. 192
इन्द्रवज्रा
षण्ढस्तृतीयाप्रकृतौ च वर्ष-धरे तथा गोपतिवन्ध्ययोश्च ।वोढा तु सूते त्रिषु भारिके स्या-त्सोढा तु शक्ते त्रिषु मर्षितेऽपि ॥ ९५ ॥
6.14.95 · p. 192
उपजातिः
राढा तु देशान्तरशोभयोः स्त्रीदाढा तु दंष्ट्रासु मनोरथे च ।माढिस्तु दैन्यप्रकटीकृतौ स्त्रीपत्रादिकानां रचनाविशेषे ॥ ९६ ॥
6.14.96 · p. 193
इन्द्रवज्रा
त्रिढाः ।
प्ररूढं कठोरे तथोद्बद्धमूलेसमूढं पुनः पुञ्जिते तत्क्षणोत्थे ।विलूने तथोपप्लवे नापि पीने-ऽप्युदूढं सुगुप्ते प्रमीढं पुनः स्यात् ।घने मू[278a]त्रितेऽथ प्रगाढं सुकृच्छ्रेदृढेऽध्यूढ ईशे ससापत्न्यनार्याम् ॥ ९९ ॥
6.14.99 · p. 193
भुजङ्गप्रयातम्metre not read in every line
व्रतिनां पलाशदण्डेमलये मासे तथाषाढः ।वस्त्राञ्चले कपाटेपाट*ये(?) स्याच्च वारूढः ॥ १० ॥
6.14.10 · p. 193
metre not recognised
चतुर्ढाः ।