प्राणन
prāṇanaक्ली · neut.In 5 kośas: 2 synonym verses, 6 as a meaning of another word.
यात्रा व्रज्या प्रस्थितिश्च यानं प्राणनमित्यपि ।स्यादासारः प्रसरणं तथा प्रसरणीति च ॥सर्वतो व्याप्यसैन्यानां प्रसारे त्रयमुच्यते ।त्रिषु प्रचक्रं चलितं चलितार्थे भवेद्द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
प्राणनोऽथ हलीशश्च हयानन-सदाशिवौ ।हुताशो हाकिनी द्रावी हेरम्बो हा-र्णको मतः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
प्राणन as a meaning in nānārtha verses
- कोषकल्पतरु उच्छ्वासगुणान्तरे तथा[89a]श्वासे प्राणने च प्रकीर्तितः । इष्वासोऽस्त्री धन्विनि स्यात्कोदण्डे च प्रकीर्तितः ॥ ९४ ॥ Koṣakalpataru 6.31.94
- नानार्थार्णवसंक्षेप जीवितस्त्रियां तु जीविका ज्ञेया जीवन्त्याख्यलतान्तरे । आजीवे च स्मृताथ क्ली जीवितं प्राणने तथा ॥ ८०० ॥ Nānārthārṇavasaṃkṣepa 4.800
- नानार्थार्णवसंक्षेप जीवनस्यादाशीविषये जीवितरि क्लीबं तु जीवनम् । जीविकायां जलेऽन्ने च प्राणने च स्त्रियां पुनः ॥ ८०४ ॥ Nānārthārṇavasaṃkṣepa 4.804
- परमानन्दीयनाममाला उच्छ्वासशेखरेऽथोत्पलं शून्ये पङ्कजान्तरपत्रयोः । उच्छ्वासः प्राणने गद्यबन्धभिच्छ्वासयोरपि ॥ ७० ॥ Paramānandīyanāmamālā 5.3.70
- शब्दरत्नावली ऊर्जऊर्ज उत्साहबलयोः प्राणने कार्त्तिकेऽपि च । कज्जं सुधापङ्कजयोः कञ्जः केशविरिञ्चयोः ॥ Śabdaratnāvalī 7.8.4
- शब्दरत्नावली उच्छ्वासइष्वासो बाणविक्षेपकारके कार्मुकेऽपि च । उच्छ्वासः प्राणनाश्वासाख्यायिकादिसमाप्तिषु ॥ Śabdaratnāvalī 7.32.17