कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ऊर्ज

ūrjaपुं · masc.

In 16 kośas: 19 synonym verses, 7 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.155 · p. 10
ज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याच्छ्रावणो नभाः ।श्रावणिकोऽथ नभस्यः प्रौष्ठभाद्रपरः पदः ॥ १५४ ॥भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः ।कार्तिकिको बाहुलोर्जौ द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable)
genderपुंmasc.doubtful
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.300 · p. 16
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.30
स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.114 · p. 14
चैत्रादिमासा मधुमाधवौ द्वौ,ततः परं शुक्रशुची क्रमेण ।नभोनभस्यौ कथिताविषोर्जौ,सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
उपजातिः
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.779 · p. 89
सङ्कथान्योन्यसङ्गीतिः प्रतिपत्तिः प्रगल्भता ।उच्यत ऊर्ज उत्साहो भृकुटिर्भ्रुकुटिस्तथा ॥ ७७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त मासनामानि Gaṇitanāmamālā 15.79 · p. 5
ईषूर्जौसहःसहस्यौ तथा तपतपस्यकौ ।भाद्रपदं प्रौष्ठपदः प्रोक्तश्चाद्यैर्मुनीश्वरैः ॥ ७९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable); pāda 3, syllable 2 द्र (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.62 · p. 412
अथाश्वयुक् चाश्वयुज आश्विनेऽप्यथ कौमुदः ।इष ऊर्जः कार्त्तिकिको बाहुलः कार्त्तिकः सरी ॥ ६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.101 · p. 428
पुंस्यूर्जोतिशये तत्र न ना वीर्यमथ स्त्रियाम् ।भिया भीर्भीतिराशङ्का क्लीबे प्रतिभयं भयम् ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.133 · p. 89
रुट् स्त्री मन्युर्भाम-खष्पौ वीरस्तूत्साहवर्धनः ।उत्साह ऊर्ज उद्योग उद्यमश्चाभियोगवत् ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.50 · p. 265
वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् ।पराक्रमः प्राण ऊर्जो द्युम्नं च द्रविणं सहः ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 46 · p. 23
दीप्तिर्ज्योतिर्महो धाम रश्मिरूर्जो विभावसुः ।शीतोष्णप्रायपूर्वाञ्चौ तदन्ताविन्दुभास्करौ ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.143 · p. 23
ऊर्जकार्तिकिकौ मासौ द्वावृतुः परिकीर्तितः ।रौद्रः प्रशलहेमन्तौ शैषस्तु शिशिरोऽपि च ॥ १४३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.152 · p. 22
बहुलोर्जौ च नामानि प्रोक्तानि कोविदैः समैः ।द्वौ द्वौ मासौ च एकर्तुर्मार्गादितः क्रमाद्भवेत् ॥ १५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.439 · p. 55
मन्युश्चाथाऽभियोगश्चोत्साहः प्रौढिः प्रगल्भता ।उद्योग उद्यमश्चोर्जः तथापि कियदेतिका ॥ ४३९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.287 · p. 20
आश्विनः स्यादश्वयुज इष आश्वयुजोऽश्वयुक् ।कार्त्तिकः स्यात् कार्त्तिकिको बाहुलोर्जौ च कौमुदः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable); pāda 3, syllable 5 का (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.41 · p. 39
इरा कमन्धं नारोदं जडपीथ-घृत-क्षरम् ।ऋतमूर्जं काण्ड-सरं कोमलं सोम इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.289 · p. 212
ऊर्ज ऊर्जो गूर्जः सान्तं क्लीबं च सहसा सहः ।सङ्ग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥
metre not recognised
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.251 · p. 34
नभस्ये स्युरिषस्त्वाश्वयुज आश्विन इत्यपि ।अमी ऊर्जः कार्तिकिकः कार्तिको बहुलः समाः ॥ २५१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1381 · p. 167
याहंकृतिः परस्परमहमहमिकेति सैव स्यात् ।ऊर्जः शुष्म सहो बलमोजो द्रविणं तरस्तेजः ॥ १३८१ ॥
उपगीतिःmetre not read in every line
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास जार्धश्लोकः Dharaṇikośa 7.2.3 · p. 32
ऊर्जो बले तथोत्साहे ऊर्जो मासश्च कार्तिकः ।बीजं रेतसि हेतौ च बीजमङ्कुरकारणम् ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.107 · p. 52
उक्षा पुंसि बलीवर्दे महति त्रिरुषाः पुनः ।सन्ध्याप्रभातयोर्नप्स्त्री स्यादूर्जः कार्त्तिके पुमान् ॥ १०७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.108 · p. 52
उत्साहे पुंस्त्रियोरूर्ध्वस्तूपर्यर्थे त्रिषूत्थिते ।ऋषिभेदे तु पुंस्यूषा पुनः स्त्री रुजि नप् पुनः ॥ १०८ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास उकारादयः Paramānandīyanāmamālā 5.3.64 · p. 169
ऊर्जो बले च मासस्य विशेषे त्र्यक्षरा यथा ।उत्थानं पौरुषे सैन्य उद्गमोद्यमयोरपि ॥ ६४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश जान्ताः Śabdaratnāvalī 7.8.4 · p. 197
ऊर्ज उत्साहबलयोः प्राणने कार्त्तिकेऽपि च ।कज्जं सुधापङ्कजयोः कञ्जः केशविरिञ्चयोः ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.82 · p. 119
स्यादङ्गजः स्मरे केशे पुत्रे रक्ते नपुंसकम् ।उत्साहकार्तिकावूर्जौ कम्बोजो देशशङ्खयोः ॥ ८२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.9 · p. 214
ग्रीष्मोष्णबाष्पा ऊष्माण ऊर्जावुत्साहकार्तिकौ ।ऋषिस्तु वेदे भृग्वादौ ज्ञानवृद्धे दिगंबरे ॥ ९ ॥
अनुष्टुप्

ऊर्ज as a meaning in nānārtha verses

  • कोषकल्पतरु कौमुदरक्ताम्भोरुहि ना तु दिग्गजभिदीभे दैत्यभेदे कपौ कुम्भ्यां काश्मरिकौषधौ च कुमुदाथो कैरवेऽन्त्ये कुमुद् । वाच्याभं कृपणेऽथ रक्षसि पुमान् क्रव्याच्च मांसाशिनि स्यादूर्जे नरि कौमुदो निगदितः स्त्री चन्द्रिकायामयम् ॥ ३८ ॥ Koṣakalpataru 6.19.38