कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Tantrābhidhāna

तन्त्राभिधान Tantrābhidhāna

821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)

मध्वाचार्यविरचितमातृकानिघण्टु

[6]मध्वाचार्यविरचित- मातृकानिघंटुः । (Sloka count: 50+2)

ध्रुवस्तारस्तथौङ्कारो मूलज्योतिः शिवोऽव्ययः ।वेदाद्यस्तारकोऽव्यक्तः शाखादिः प्रणवः स्मृतः ॥ १ ॥
6.1 · p. 41
अनुष्टुप्
मातृकाद्यः स्वराद्यश्च श्रीकण्ठः केशवो लघुः ।कलाद्यः केशवः कृष्णो भूतेशः प्रथमो भवेत् ॥ २ ॥
6.2 · p. 41
अनुष्टुप्
हृत् तारको गुरुर्दीर्घो नारायण-चतुर्मुखौ ।अनन्तो वासुदेवश्च वेदान्तः कारकः स्मृतः ॥ ३ ॥
6.3 · p. 41
अनुष्टुप्
दक्षाक्षो माधवः सूक्ष्मः पाञ्चजन्यो मखांकुरः ।विड्बिन्दुः परमेशश्च गन्धर्वः परमः स्मृतः ॥ ४ ॥
6.4 · p. 41
अनुष्टुप्
वामाक्षिश्च त्रिमूर्तिश्च महामाया सुरेश्वरः ।इन्द्रमूर्तिर्नृसिंहास्त्रं स्मृतो गोविन्द ई-स्वरः ॥ ५ ॥
6.5 · p. 41
अनुष्टुप्
याम्यकर्णोऽमरेशश्च मन्मथोऽथ गजाङ्कुशः ।विजयो विघ्नहर्ता च विष्णुरु-कारकः स्मृतः ॥ ६ ॥
6.6 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
वामकर्णोऽथ वामांसो दीर्घश्च मधुसूदनः ।इन्द्रचापोऽथ सूक्ष्मश्च षण्मुखः षट्स्वरः स्मृतः ॥ ७ ॥
6.7 · p. 41
अनुष्टुप्
दक्षनासा त्रिविक्रान्तो भारभूर्वि(तिर्ग्र)ग्रहाधिपः ।ऋङ्मूर्त्तिस्तु यती धर्म(र्मो)रिपुघ्न ऋ-स्वरः स्मृतः ॥ ८ ॥
6.8 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ्न (wrong syllable)
वामनासा(ऽ)तिथीशश्च श्रीकण्ठस्त्रिपुरान्तकः ।अमृतेशः स्वरः स्थाणुर्देवजु(कोऽ)ष्टस्वरः स्मृतः ॥ ९ ॥
6.9 · p. 41
अनुष्टुप्
याम्यगण्डस्थितः स्थाणुर्हृशीकेशस्त्रिदेवकः ।एकाङ्घ्रिर्वज्रदण्डश्च व्योमाद्री ऌ-स्वरः स्मृतः ॥ १० ॥
6.10 · p. 41
अनुष्टुप्
-----------------------------------वामगण्डोदरार्द्धे च पद्मनाभः कुबेरदृक् ।गणेशश्च त्रिकण्ठश्च नीलाङ्घ्रिर्दशमः स्वरः ॥ ११ ॥
6.11 · p. 41
अनुष्टुप्metre not read in every line
ऊर्ध्वहस्तो गजज्योतिर्दामोदरस्त्रिकोणकः ।झिण्टीशः कामरूपश्च शक्तिरे-कारक स्मृतः ॥ १२ ॥
6.12 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
अधो धरेन्द्र-वागीशा वासुदेवोऽथ भौतिकः ।त्रैपुरः प्रणतो वर्म-मरुतौ द्वादशस्वरः ॥ १३ ॥
6.13 · p. 42
अनुष्टुप्
ऊर्ध्वदन्तालिजः सद्यः सङ्कर्षणस्त्रिमात्रकः ।मन्त्रेशो नगसंज्ञश्च मात्रेशस्त्वो-स्वरः स्मृतः ॥ १४ ॥
6.14 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
अधोदन्तानिलो मित्रः प्रद्युम्नोऽनुग्रहेश्वरः ।नृसिंहाख्यो मुरारिश्च मायाविच्चौ-स्वरः स्मृतः ॥ १५ ॥
6.15 · p. 42
अनुष्टुप्
ऊर्ध्वदन्तश्चानिरुद्धो हरो भानुः स्वरः शशी ।मनश्चानङ्ग-कवचौ निगूढ अं-स्वरः स्मृतः ॥ १६ ॥
6.16 · p. 42
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ढ (wrong syllable)
कार्तिकेयोऽनिरुद्धश्च शिल्पाभिज्ञो रमापि च ।सृष्टिः संहारकर्त्ता च विषं च अः-स्वरः स्मृतः ॥ १७ ॥
6.17 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
याम्यकर्णादिकः क्रोधी वायुर्वह्निर्गदी रुजा ।यादवेशो मुरारिश्च कामाङ्गः का-र्णक स्मृतः ॥ १८ ॥
6.18 · p. 42
अनुष्टुप्
दक्षिणकूर्परः खेटः शार्ङ्गी चण्डीशकः खगः ।कैटभारिश्च मातङ्गः संहारः खा-र्णकः स्मृतः ॥ १९ ॥
6.19 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
मणिबन्धस्थितः सिंहः पञ्चान्तक-गणेश्वरौ ।गोमुखो गजकुम्भश्च हलीशश्च गजाननः ॥ २० ॥
6.20 · p. 42
अनुष्टुप्
अङ्गुलीमूलगो मेघो मुषली च शिवोत्तमः ।वराहो धनकामश्च शिवाऽघो घा-र्णकः स्मृतः ॥ २१ ॥
6.21 · p. 42
अनुष्टुप्
-----------------------------------दक्षाङ्गुल्यग्रगः शूली क्लीबाख्यश्चैव रुद्रकः ।डामरेशो हरिः श्रीमान् रुद्रेशो ङा-र्णकः स्मृतः ॥ २२ ॥
6.22 · p. 42
अनुष्टुप्metre not read in every line
ना चामरादिकः कूर्मः शूली चन्द्रक-सायकौ ।भूभेत्ता चित्रचारी च चञ्चलश्चा-र्णको मतः ॥ २३ ॥
6.23 · p. 43
अनुष्टुप्
वामकूर्परगः पाशी परिपूर्णैर्कनेत्रकौ ।त्रिबिन्दुको ज्वरी वामा श्लेषकश्छा-र्णकः स्मृतः ॥ २४ ॥
6.24 · p. 43
अनुष्टुप्
वाममणिबन्धगतश्चतुर्मुखो जयन्तकः ।जपज्योतिरनाकारो जनक उत जा-र्णकः ॥ २५ ॥
6.25 · p. 43
metre not recognised
अङ्गुलीमूलगः खण्डः कुमुदः स्वस्तिकः स्मृतः ।विख्यातकः स्थिराकारो झङ्कारो झा-र्णको मतः ॥ २६ ॥
6.26 · p. 43
अनुष्टुप्
वामाङ्गुल्यग्रगः सोमो नन्दी विद्विड्निरञ्जनः ।सुधर्मो ह्यनुनासश्च ज्ञप्तिगो ञा-र्णकः स्मृतः ॥ २७ ॥
6.27 · p. 43
अनुष्टुप्
दक्षपादादिगो नन्दी लाङ्गली चार्द्धचन्द्रकः ।गजाङ्कुशो मृगाद्यश्च बालेन्दुष्टा-र्णकः स्मृतः ॥ २८ ॥
6.28 · p. 43
अनुष्टुप्
याम्यगुल्फोऽर्धनारीशो भौमजो दिव्यनायकः ।सुधाबिन्दुर्घटाकारः प्लावकष्ठा-र्णको मतः ॥ २९ ॥
6.29 · p. 43
अनुष्टुप्
याम्यजानुस्थितो दण्डो दारुको वत्सलो नरः ।डामरी व्याघ्रपादश्च शूली स्त्री डा-र्णकः स्मृतः ॥ ३० ॥
6.30 · p. 43
अनुष्टुप्
याम्यपादाङ्गुली पूर्णोऽप्युमाकान्तस्तथा हरिः ।शङ्खनाभिर्दृढं लोहो दाहको ढा-र्णकः स्मृतः ॥ ३१ ॥
6.31 · p. 43
अनुष्टुप्
याम्यपादाङ्गुलाग्रस्थ आषाढीशस्त्रिविक्रमः ।त्रिरेखस्त्रिगुणाकारो निर्वाणो णा-र्णको मतः ॥ ३२ ॥
6.32 · p. 43
अनुष्टुप्
-----------------------------------वामपादादिकस्तीव्रो हस्त्यश्वतरलोऽङ्घ्रिकः ।नीलकोऽप्यर्थको धाता तडित् तु ता-र्णको मतः ॥ ३३ ॥
6.33 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
वामजानुर्विशालाक्षी शौरी दृग्वै कमण्डलुः ।सूचीपूरस्थिरस्थायी स्थविरः था-र्णको मतः ॥ ३४ ॥
6.34 · p. 44
अनुष्टुप्
वामगुल्फस्थितः शूली दात्री दाता कुबेरकः ।चन्द्रकश्च हरिद्रान्तो देवेशो दा-र्णकः स्मृतः ॥ ३५ ॥
6.35 · p. 44
अनुष्टुप्
वामाङ्गुल्यादिको मीनो जनार्दन-शिरः-कराः ।धर्मेशो धरणीशश्च स्थाणुः प्रीतिश्च धा-र्णकः ॥ ३६ ॥
6.36 · p. 44
अनुष्टुप्
वामाङ्गुल्यग्रगो मेषो भूधरोऽथ विशाम्पतिः ।नरोऽन्तरं दिनं दीनो नदीनो ना-र्णकः स्मृतः ॥ ३७ ॥
6.37 · p. 44
अनुष्टुप्
याम्यपार्श्वो दक्षकुक्षिर्विश्वार्त्तिश्चैव लोहितः ।पार्थिवः पद्मनाभश्च पद्मेशः पा-र्णकः स्मृतः ॥ ३८ ॥
6.38 · p. 44
अनुष्टुप्
वामपार्श्वोऽथ वैकुण्ठः शिवोऽनलस्त्रिपत्रकः ।कान्तोरगौ सरित् फुल्लः फट्कारः फा-र्णको मतः ॥ ३९ ॥
6.39 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
पृष्ठवंशो गणेशश्छगलण्डः पुरुषोत्तमः ।बलवान् वज्रमुष्टिश्च सुरसो बा-र्णकः स्मृतः ॥ ४० ॥
6.40 · p. 44
अनुष्टुप्
नाभिजश्च द्विरण्डेशो भारवाही जया बलः ।शुभदोऽथ भरद्वाजो भृकुटी भा-र्णकः स्मृतः ॥ ४१ ॥
6.41 · p. 44
अनुष्टुप्
जठरो भाववीरश्च महाबालो बलानुजः ।माधवी मरणं मायी मन्त्रेशो मा-र्णको मतः ॥ ४२ ॥
6.42 · p. 44
अनुष्टुप्
यमो वरुण-वागीशौ स्वशनो यामुनेयकः ।मृगेन्द्रो वायुसंज्ञश्च वचनं या-र्णकः स्मृतः ॥ ४३ ॥
6.43 · p. 44
अनुष्टुप्
-----------------------------------असृग्यातुष ईषघ्नो भुजङ्गेशो हुताशनः ।तीव्रज्योतिः परं चिह्नं सुचिरो रा-र्णको मतः ॥ ४४ ॥
6.44 · p. 44
अनुष्टुप्metre not read in every line
मेधा धियो जलान्तस्थः खड्गीशो हंस-वारिदौ ।वरुणश्च शिवो रौद्रो मृतेशो वा-र्णकः स्मृतः ॥ ४५ ॥
6.45 · p. 45
अनुष्टुप्
अस्थि धातुर्वराहश्च लक्ष्मीशः शंकु-कर्णिके ।तथा नयः समिधश्च साम्बकः शा-र्णकः स्मृतः ॥ ४६ ॥
6.46 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मि (wrong syllable)
शुक्ल-धातू भृगुर्हंसः सामगः सत्यसङ्गतिः ।मत्यानन्दोऽथ दीप्तास्यः समयः षा-र्णकः स्मृतः ॥ ४७ ॥
6.47 · p. 45
अनुष्टुप्
मज्जाह्वयः श्वेतरूपो विलेपश्च घटाकृतिः ।षडाननः षडाकारः षडटः सा-र्णको मतः ॥ ४८ ॥
6.48 · p. 45
अनुष्टुप्
प्राणनोऽथ हलीशश्च हयानन-सदाशिवौ ।हुताशो हाकिनी द्रावी हेरम्बो हा-र्णको मतः ॥ ४९ ॥
6.49 · p. 45
अनुष्टुप्
नन्दी च परमात्मा च संवर्तक-कृतान्तकौ ।वज्रकायोऽक्षयो व्यापी नृसिंहः क्षा-र्णकः स्मृतः ॥ ५० ॥
6.50 · p. 45
अनुष्टुप्
निघण्टुर्मातृकार्णानां कण्ठपीठे निधीयताम् ।विस्फोटनाय मन्त्राणां सलीलं पण्डितैर्जनैः ॥ ५१ ॥
6.51 · p. 45
अनुष्टुप्
शरीरे सर्वमन्त्राणामुद्धाराय सुबुद्धिभिः ॥ ५२ ॥
6.52 · p. 45

इति श्रीदेशिकमण्डलीमुकुटमाणिक्योपम-परमहंस-

श्रीमध्वाचार्यविरचितो मातृकानिघण्टुः समाप्तः ।

-----------------------------------
6.53 · p. 45