All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · उकारादयः
अथोकारादयो यथा ।
अथोग्र ईश्वरे तीव्रे शूद्रायां क्षत्रियाङ्गजे ।उरो वक्षे प्रधाने चोषः सायंकल्ययोः स्मृतम् ॥ ६२ ॥
5.3.62 · p. 169
अनुष्टुप्
ऊर्णा भ्रुवोऽन्तरे लोमावर्ते मेषस्य लोमनि ।उमा कीर्तिश्रियोर्गौर्यां कान्तिदुर्गाशचीष्यथ ॥ ६३ ॥
5.3.63 · p. 169
अनुष्टुप्
ऊर्जो बले च मासस्य विशेषे त्र्यक्षरा यथा ।उत्थानं पौरुषे सैन्य उद्गमोद्यमयोरपि ॥ ६४ ॥
5.3.64 · p. 169
अनुष्टुप्
उदारो दक्षिणे दानशौण्डे तूच्छ्रितमुन्नते ।उन्माथः कूटयन्त्रे स्याद्वधघातकयोरपि ॥ ६५ ॥
5.3.65 · p. 169
अनुष्टुप्
उदानो वायुभेदे स्यात्सर्पभेदेऽपि कुत्रचित् ।उदूढः पृथुले व्यूढे उत्थितं जातवृद्धयोः ॥ ६६ ॥
5.3.66 · p. 169
अनुष्टुप्
उदर्चिः पावके वीरेऽनुजेतितरुणोद्रुवोः ।उल्लाघो गतरोगे च तरौ निपुणहृष्टयोः ॥ ६७ ॥
5.3.67 · p. 169
अनुष्टुप्
उद्भट उत्कटे क्षीवे उत्कटोऽपि तथैव च ।उत्तंसः शेखरे कर्णपूरेऽथोद्यानमुच्यते ॥ ६८ ॥
5.3.68 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ट (wrong syllable)
शरण्यारण्ययोश्चैवं प्रयोजनविशेषयोः ।उन्मत्तः कितवे धूर्ते उष्णीषं शीर्षवेष्टने ॥ ६९ ॥
5.3.69 · p. 170
अनुष्टुप्
शेखरेऽथोत्पलं शून्ये पङ्कजान्तरपत्रयोः ।उच्छ्वासः प्राणने गद्यबन्धभिच्छ्वासयोरपि ॥ ७० ॥
5.3.70 · p. 170
अनुष्टुप्
ऊर्णायुरूर्णनाभे स्थान्मेघकम्बलयोः सिते ।उपह्वरं रहःस्थाने पार्श्वेऽथोपनिषद्वृषे ॥ ७१ ॥
5.3.71 · p. 170
अनुष्टुप्
वेदान्ते सद्रहस्ये च शुश्रूषायामुपासनम् ।आसने च शराभ्यासे प्रारम्भार्थ उपक्रमः ॥ ७२ ॥
5.3.72 · p. 170
अनुष्टुप्
विक्रमे च चिकित्सायामुपधारम्भयोरपि ।उपलब्धिर्मनीषायां प्राप्तौ ज्ञानेऽपि कथ्यते ॥ ७३ ॥
5.3.73 · p. 170
अनुष्टुप्
उदुम्बरं कुष्ठभेदे ताम्रेऽथोदुम्बरो द्रुमे ।उपतापं तु दुःखे स्याद्गदे तापेऽपि दृश्यते ॥ ७४ ॥
5.3.74 · p. 170
अनुष्टुप्
उपसर्गस्तु रोगे स्यात्प्राद्युपद्रवयोरपि ।उपरागस्तमोग्रस्तचन्द्रभास्करमण्डले ॥ ७५ ॥
5.3.75 · p. 170
अनुष्टुप्