हुताश
hutāśaपुं · masc.In 6 kośas: 3 synonym verses, 1 as a nānārtha head word, 17 as a meaning of another word.
स्वाहापतिर्हुताशश्च ज्वलनो दहनोऽनलः ।वैश्वानरः कृशानुश्च रोहिताश्वो विभावसुः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
उदर्चिरपि सप्तार्चिः पावनः पावकोऽनलः ।हिरण्यरेताः हव्याशो हुताशो हुतभुक् शिखी ॥
अनुष्टुप्
genderपुंmasc.
प्राणनोऽथ हलीशश्च हयानन-सदाशिवौ ।हुताशो हाकिनी द्रावी हेरम्बो हा-र्णको मतः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
हुताश as a meaning in nānārtha verses
- धरणिकोश बर्हिस्बर्हिर्दर्भे हुताशे स्यादर्चिर्धाममयूखयोः । स्रोतोऽम्बुवेगेन्द्रिययो रोकश्चाश्रयसद्मनोः ॥ Dharaṇikośa 31.1.4
- कोषकल्पतरु जुहुराणपर्वण्यपि स्यादथतन्दुरीणः कीटे तथा तन्दुलतोयके च । प्रवारणं वारणकामदाने- ऽध्वर्यौ हुताशे जुहुराण इन्दौ ॥ ५९ ॥ Koṣakalpataru 6.15.59
- कोषकल्पतरु पीतुपीतुर्हुताशे च दिवाकरे च करे प्रकोष्ठेन युते कचादेः । परः समूहेऽपि नयोषिदृक्षे त्वेष द्विलिङ्गोऽपि बुधैः प्रदिष्टः ॥ २२ ॥ Koṣakalpataru 6.16.22
- कोषकल्पतरु एधतुतृप्तौ च शक्ते त्रिषु वारणेऽन्त्ये- ऽथेन्द्रे घने भूभृति देवताडे । भृत्ये च जीमूतमुशन्ति सन्तः स्यादेधतुर्विष्णुहुताशपुंस्सु ॥ १५ ॥ Koṣakalpataru 6.16.15
- कोषकल्पतरु वह्निवह्निर्हुताशे नरि चित्रके च भल्लातके वह्निसमोऽपि चाग्निः । पृश्निर्मयूखे मिथुने जनन्यां विष्णोः स्त्रियामल्पतनौ तु भेद्ये ॥ ६ ॥ Koṣakalpataru 6.21.6
- कोषकल्पतरु दहनवसन्तवृक्षे रतिनायके च धत्तूरवृक्षे मदनस्तुरुष्के । भल्लातके स्याद्दहनो हुताशे दुष्टेङ्गिते स्यादपि चित्रके च ॥ १५ ॥ Koṣakalpataru 6.21.15
- कोषकल्पतरु तमोघ्नसंजातसंपद्युतयोः पराभं संपन्नमप्यत्र बुधा वदन्ति । तमोघ्न इन्द्वर्कहुताशशंभु- श्रीशे विषघ्नस्तु शिरीषवाची ॥ ७६ ॥ Koṣakalpataru 6.21.76
- कोषकल्पतरु जन्युमृत्युर्द्वयोः स्यान्मरणे च दैवे दस्युस्तु [35b]चौरेऽपि सपत्नवाची । जन्युर्हुताशे द्रुहिणेऽङ्गिनि स्या- द्वन्यं वनोत्थे वनचारिवृन्दे ॥ १० ॥ Koṣakalpataru 6.26.10
- कोषकल्पतरु आशिरमल्लीप्रसूनेऽप्यजिरं तु न स्त्री कायेऽङ्गनेऽन्त्ये नरि दर्दुरे स्यात् । स्यादाशिरश्चाशरवद्धुताशे निशाचरेऽर्के शिशिरस्त्वृतौ ना ॥ ११ ॥ Koṣakalpataru 6.27.11
- कोषकल्पतरु पाचलपाचलो धनहुताशवायुषु ग्राहयादसि तु माचलो मतः । बन्दितस्कररोगयोरथो श्वेतरक्तरुचि पाटलस्त्रिषु ॥ २९ ॥ Koṣakalpataru 6.28.29
- कोषकल्पतरु विभावसुविभावसुः स्यात्तरणौ च हार- भेदे हुताशे सुरगाथकेषु । निशि स्त्रियां भे तु पुनर्वसुः स्या- त्कात्यायने स्यादथ राजहंसः ॥ २३ ॥ Koṣakalpataru 6.31.23
- नानार्थार्णवसंक्षेप उष्णईशाने नृस्त्रियोरीशा भवेत् स्वामिनि तु त्रिषु । उष्णः पुंसि हुताशे स्याद् ग्रीष्मे शिग्रुमहीरुहे ॥ ९१ ॥ Nānārthārṇavasaṃkṣepa 2.5.91
- नानार्थार्णवसंक्षेप घासिनासायां स्यात् त्रिराघ्राते घ्रातौ तु नपि ना पुनः । घासिर्युद्धे हुताशे च गर्ताग्नाविति केचन ॥ ३८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.387
- नानार्थार्णवसंक्षेप सम्राज्सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेषु राज्ञि तु । येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ १४७३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1473
- शब्दरत्नावली जुहुराणचूडामणिः कृष्णालके शिरोरले पुमानयम् । जुहुराणो हुताशे स्यादध्वर्यो होतृशालिनि ॥ Śabdaratnāvalī 7.15.77
- शब्दरत्नावली धूमकेतनअमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥ केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥ दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥ धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥ कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥ देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥ साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ Śabdaratnāvalī 7.20.134
- शब्दरत्नावली दस्मदमो दन्ते च दमथे दमने कर्दमे पुमान् । दस्मो ना यजमाने स्यात्खले चौरहुताशयोः ॥ Śabdaratnāvalī 7.25.11