All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · जान्ताः
इति छान्तवर्गः ॥
जो विषे वेगिते भुक्तौ तेजः पिशाचजेतृषु ।जूः स्याद्वियतिभारत्यां पिशाच्यां यवने स्त्रियाम् ॥
7.8.1 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
अजो हरिहरब्रह्मछागस्मरनृपेषु च ।अब्जो शङ्केऽस्त्रियां नातु धन्वन्तर्यम्बुजेन्दुषु ॥
7.8.2 · p. 197
अनुष्टुप्
क्लीबे पद्मे तथाब्जस्तु पदमेन्दु श्रीष्वसौ (?) पुमान् ।आजिः स्त्रीसमभूमौ स्यात् संग्रामाक्षेपयोरपि ॥
7.8.3 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 पद (syllable split)
ऊर्ज उत्साहबलयोः प्राणने कार्त्तिकेऽपि च ।कज्जं सुधापङ्कजयोः कञ्जः केशविरिञ्चयोः ॥
7.8.4 · p. 197
अनुष्टुप्
कुजः स्यान्नरके गुमौ कात्यायन्यां कुजा स्त्रियाम् ।कुजः पुंसि वृक्षभेदे न्यूब्जे तु वाच्यलिङ्गगः ॥
7.8.5 · p. 197
metre not recognised
खञ्जस्त्रिषु च वक्रोङ्घ्रौ खञ्जा छन्दोभिदि स्त्रियाम् ।खजा प्रहस्तेमन्थे च मरणेऽपि च कुत्रचित् ॥
7.8.7 · p. 197
अनुष्टुप्
खर्जूः स्त्रियान्तु कण्डूतौ खर्जूरी द्रुमकीटयोः ।गञ्जा खनौ स्वरागे(?) स्यात् तथा पामरसद्मनि ॥
7.8.8 · p. 197
अनुष्टुप्
गञ्जः पुमानवज्ञाते भाण्डागारे तु न स्त्रियाम् ।गुञ्जा तु कृष्णलायां स्यात् पटहे च कलस्वने ॥
7.8.9 · p. 197
अनुष्टुप्
द्विजो ना ब्राह्मणक्षत्रवैश्यदन्तेन्दुपक्षिषु ।स्त्रियां हरेणौ भार्यायां वीणाभेदे च कुत्रचित् ॥
7.8.10 · p. 197
अनुष्टुप्
ध्वजः स्याच्शौण्डिके पुंसि पताकायान्तु न स्त्रियाम् ।खटवाङ्गमेद्रचिह्नेषु स्याद्गर्वदर्पयोरपि ॥निजः स्वीये च नित्ये च वाच्यलिङ्गन्तु कुत्रचित् ।न्युब्जो दर्भस्रुचि क्लीबं कर्मरङ्गफलेऽपि च ॥
7.8.11 · p. 197
अनुष्टुप्metre not read in every line
श्राद्धादिपात्रभेदे च कुब्जे चाधोमुखे त्रिषु ।पिञ्जा तूले हरिद्रायां बले क्लीबं वधे पुमान् ॥
7.8.12 · p. 197
अनुष्टुप्
भुजं द्वयोः करे वाहौ प्रजा सन्ततिलोकयोः ।मर्ज्जः स्त्रियान्तु श्रुद्धौ ना रजके पीठमर्दके ॥
7.8.13 · p. 197
अनुष्टुप्
रजः परागे रेणौ च गुणभेदे तथार्त्तवे ।रज्जुः स्त्रियां गुणे वैण्यां स्त्रीराजिः पंक्तिलेखयोः ॥
7.8.14 · p. 198
अनुष्टुप्
रुजा भङ्गे च रोगे च तथाङ्केऽपि च कुत्रचित् ।क्लीबे लाजमुषीरे तु लाजः स्यादार्द्रतण्डुले ॥
7.8.15 · p. 198
अनुष्टुप्
बहुत्वे पुंसि लाजाः स्युर्व्याजोऽपदेशशाठ्ययोः ।ब्रजो गोष्ठे पथिच्छन्दे वाजः पक्षे च निस्वने ।मुनौ पुमान् जले क्लीबं यज्ञे चैव घृतान्नयोः ॥
7.8.16 · p. 198
अनुष्टुप्metre not read in every line
बीजं स्यादङ्कुरे हेतौ तत्त्वाधाने च शुक्रके ।स्त्री सर्जूरभिसारे च हारे वणिजि विद्युति ॥
7.8.17 · p. 198
अनुष्टुप्
स्वजं क्लीबन्तु रक्ते स्यात् स्वजो ना धर्मपुत्रयोः ।सज्जः स्यादपि सन्नद्धे आदृते निभृते त्रिषु ॥
7.8.18 · p. 198
अनुष्टुप्
अण्डजः स्यान्मृगमदे सरटे पक्षिमत्स्ययोः ।अङ्गजं रुधिरे ना तु कामे पुत्रे मदे कचे ॥
7.8.19 · p. 198
अनुष्टुप्
अम्बुजं कमले क्लीबं हिज्जले तु पुमानयम् ।कम्बोजो हस्तिभेदे स्याच् शङ्खे देशविशेषके ॥
7.8.20 · p. 198
अनुष्टुप्
करञ्जः करजेऽपि स्याद् ना तू व्याघ्रनखे स्त्रियाम् ।करिजः स्यात्तु वाल्मीके शिल्पिचित्रे गजार्भके ॥
7.8.21 · p. 198
अनुष्टुप्
काम्बोजः सोमवल्के स्यात् पुम्नागे च हयान्तरे ।काम्बोजी खदिरे शुक्ले माषपर्ण्यामपि स्त्रियाम् ॥
7.8.22 · p. 198
अनुष्टुप्
कुटजः स्यादगस्त्ये तु द्रोणे वृक्षविशेषके ।गिरिजं शैलजे चाभ्रे शिलाजतुनि लोहके ॥
7.8.23 · p. 198
अनुष्टुप्
गिरिजा मातुलुङ्ग्यान्तु पार्वत्यामोषधीभिदि ।नीरजं पद्मके कुष्ठे जलजं पद्मशङ्खयोः ॥
7.8.24 · p. 198
अनुष्टुप्
परञ्जस्तैलयन्त्रे तु फले च छुरिकादने ।बलजं सङ्गरे क्षेत्रे शस्ये सारे च गोपुरे ॥
7.8.25 · p. 198
अनुष्टुप्
बलजा वणिजो नार्यां युथीभम्योर्वरस्त्रियाम् ।बाहुजः स्यात्स्वयं जाते तिले क्षत्रियकीरयोः ।वनजा मुद्गपर्ण्यां ना मुस्तके क्लीबमम्बुजे ॥
7.8.26 · p. 198
अनुष्टुप्
भूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा ।सहजस्तु स्वभावे ना सोदरे पुनरन्यवत् ॥
7.8.27 · p. 198
अनुष्टुप्
समजः पशुबृन्दे स्याद् विपिने मूर्खसंहतौ ।सामजः सामसम्भूते भवेन्मत्तमतङ्गजे ॥
7.8.28 · p. 198
अनुष्टुप्
शीतभानौ पुमान् स्त्री तु कमलायां निगद्यते ।ग्रहराजो हिमकरे गीष्पतौ च दिवाकरे ॥
7.8.33 · p. 199
अनुष्टुप्
जघन्यजः कनिष्ठे स्याच् शूद्रजातौ च कीर्तितः ।द्विजराजः शशधरे ब्राह्मणे विनतासुते ॥
7.8.34 · p. 199
अनुष्टुप्
धर्मराजो नरपतौ यमे बुद्धे युधिष्ठिरे ।भरद्वाजो गुरुसुते मुनौ व्याघ्राटपक्षिणि ॥
7.8.35 · p. 199
अनुष्टुप्
भारद्वाजी मुनौ द्रोणे वनकार्पासके स्त्रियाम् ।भृङ्गराजः पक्षिवृक्षभिदो मधुकरेऽपि च ॥
7.8.36 · p. 199
अनुष्टुप्
यमराट् स्यात् कुवेरेऽपि मञ्चानां रङ्गबन्धने ।राजराजः सार्वभौमे धनदे च सुधाकरे ॥
7.8.37 · p. 199
अनुष्टुप्