कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

फाल्गुनी

phālgunīस्त्री · fem.

In 7 kośas: 4 synonym verses, 3 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.71 · p. 47
श्रावणी श्रवणा च स्याद्दाण्डपाता तु फाल्गुनी ।हुताशन्युत्सवः पुंसि होलाका तु हुताशनी ।स्याद्वसन्तोत्सवश्चैत्री कौमुदी कार्त्तिकी मता ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.43 · p. 26
सदाफलो वसुवृक्षः श्वेतवल्को मशक्यपि ।काकोदुम्बरिकायां तु फाल्गुनी फल्गुवाटिका ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.108 · p. 18
योनिभं फाल्गुनी पूर्वा अर्यम्णश्च तथोत्तरा ।हस्तः सवितृदेवस्तु चित्रा स्यात्त्वष्ट्टभं स्मृतम् ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.75 · p. 23
फाल्गुनी दाण्डपाता स्याच्चैत्री तु मदनध्वना ।विश्वविस्ता तु वैशाखी ज्यैष्ठी तूपनिवेशिनी ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.36 · p. 115
फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा ।पावनः सिह्लके वह्नौ पूते पथ्या च पावनी ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1224 · p. 154
स्त्री त्वजायां फलकिनी पौर्णमास्यां तु फाल्गुनी ।फल्गुन्या संयुतायां स्त्री सा तु मासेऽस्ति यत्र हि ॥ १२२४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.62 · p. 239
फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु ।फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी ।ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः ।वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥
अनुष्टुप्