कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सदाफल

sadāphalaपुं · masc.

In 10 kośas: 12 synonym verses, 4 as a nānārtha head word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.255 · p. 89
केली सदाफलोऽपि स्याद्रक्ते स्वर्ण इतीर्यते ।पट्टकेऽस्य परिक्रोणः खर्परः पूगपट्टके ॥ २५५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.66 · p. 255
नारीकेलो नारिकेलो नालीकेलः शिरःफलः ।सदाफलो रसफलो मत्कुणश्च छटाफलः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.106 · p. 260
स्यात्पर्कपर्वयोष्टिष्टी मशकी तु सदाफलः ।उदुम्बरः पुष्पशून्यो यज्ञियः सुप्रतिष्ठितः ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.135 · p. 263
त्रिशाखपत्रोऽपि सदाफलः सत्यफलश्च सः ।तूदस्तूलो ब्रह्मकाष्ठं ब्राह्मणेष्टश्च यापकः ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.273 · p. 279
मध्यंदिनस्त्रिसन्धिस्तु संधीवेली सदाफलः ।स सन्धिकुसुमोऽथ स्याद्रक्तपुष्पा जवा जया ॥ २७३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.51 · p. 139
उदुम्बरः क्षीरवृक्षो मशकी हेमदुग्धकः ।सदाफलः कृमिफलो यज्ञाङ्गः शीतवल्कलः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.58 · p. 156
सदाफलः कृष्णमुखो गन्धगर्भः सरस्वती ।नीलवल्ली नीलमल्ली रुच्यः स्याद्गोहरीतकी ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.43 · p. 26
सदाफलो वसुवृक्षः श्वेतवल्को मशक्यपि ।काकोदुम्बरिकायां तु फाल्गुनी फल्गुवाटिका ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सु (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.215 · p. 15
सदाफलं मिष्टरसममृ[म्रू]तं मिहिकाम्रकम् ।आर्द्रकं नागरं तीक्ष्णं शुण्ठ्युष्मा? विश्वभेषजम् ॥ २१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.315 · p. 80
तृणराजाह्वयः तालो हिन्तालो हिमहासकः ।नारीकेलो नारिकेलः शिवाफल-सदाफलौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.660 · p. 84
नालिकेरो द्वयोः कूर्चकेसरो लाङ्गली हली ।सदाफलो दाक्षिणात्यो बलिसेव्यः कलिङ्गकः ॥ ६६० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.221 · p. 63
सदाफलो बली चास्मिन् ह्रस्वे स्यात् खुडुकोऽत्र तु ।रक्ते स्वर्णोऽग्निकश्चाथ परिक्रोणास्य पट्टके ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.71 · p. 354
बृहन्नलः पोटगलेऽर्जुने चमुक्ताफलं स्याल्लवलीफलेऽपि ।कर्पूरके चाथ सदाफलः स्या-दुदुम्बरे स्कन्धफले पुटोदे ॥ ७१ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.653 · p. 82
त्रयोदशानां राजीलनाम्नामन्यतमेऽथ ना ।उदुम्बरद्रुमे नालिकेरे च स्यात् सदाफलः ॥ ६५३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लच Śivakoṣa 23.3.491 · p. 45
सदाफलो नालिकेरे मालरे जतुमत्फले ।सोमवल्ल्यमृताब्राह्मीचक्राङ्गीवाकुचीषु च ॥ ४९१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.113 · p. 284
रतकेलिः कलालापे षिङ्गे दन्तक्षतेऽपि च ।भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥तथा विचकिलो मल्लीप्रभेदे मदनेऽपि च ।बृहन्नलो बृहत्पोटगले दीर्घेऽर्जुनेऽपि च ॥सदाफलं स्कन्धफले नारिकेलेऽप्युडूम्बरे ।सिनीवाली दृष्टचन्द्रकलामान्दुर्गयोरपि ॥सौवर्चलं लवणभित्सर्जिकाक्षारयोरपि ।हस्तिमल्लः शङ्खनागे ऐरावतगणेशयोः ॥हरितालं धातुभेदे स्त्री दूर्वाकाशयोरपि ।हालाहलो ब्रह्मसर्प त्वञ्जनाखुभिदि स्त्रियाम् ॥
अनुष्टुप्