पूर्णिमा
pūrṇimāस्त्री · fem.In 15 kośas: 14 synonym verses, 10 as a meaning of another word.
genderस्त्रीfem.
पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
माश्च मासश्च तुल्यौ द्वौ तिथी तिथिरपीष्यते ।पौर्णमासी पूर्णमासी पूर्णिमा पूर्णमा तथा ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
पंचमी दशमी पूर्णा पूर्णमासी तथैव च ।प्रोक्ता च पूर्णिमा राका प्रतिपत्संयुता यदा ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णीमानुमतिस्तद्वद्यदा चतुर्दशीयुता ।अमा चतुर्दशीयुक्ता सिनीवाली बुधैः स्मृता ॥ ९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.doubtful
स पर्वसन्धिरथ च पूर्णमासी तु पूर्णिमा ।पूर्णमा पौर्णमासी च कलाहीने विधौ च सा ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
उग्रा चतुर्दशी शैवी भौत्यमा*च पूर्णिमा ।पक्षान्तौ पञ्चदशौ तु स्त्रियौ सोमाधिदैवते ॥ ६३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 द (wrong syllable)
genderस्त्रीfem.
कुहुरिन्दुरिपुश्चोक्ता सिनीवाली तु सेन्दुका ।अश्वत्था पूर्णिमा पूर्णमासा राका तु सा विधौ ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णिमा पूर्णचन्द्रा स्यात्तत्क्षपा विमला भवेत् ।कृष्णपक्षे निशाः कृष्णास्तामस्यस्तमसाप्लुताः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णिमा पौर्णमासी स्यात् राका पूर्णे क्षपाकरे ।कलाहीने त्वनुमतिर्मार्गशीर्ष्याऽऽग्रहायणी ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णिमा पूर्णमा चान्द्री पौर्णमासी च पौर्णमी ।पुण्यसारा पर्वमुखी धर्मवासर इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderस्त्रीfem.
विषाणी वीरणीपूगी चज्जूरी च नदादिषु ।पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता ।लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा ।चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा ।तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या ।ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च ।…वदितिकथादेवताद्योदिवौ च ।ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च ।ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा ।निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥
अनुष्टुप्two metres in one verse
विषाणीस्त्रीवीरणीस्त्रीपूगीस्त्रीखर्जूरीस्त्रीपुटिकास्त्रीमालिकास्त्रीलक्ष्मीस्त्रीवाणीस्त्रीभवानीस्त्रीरजनिस्त्रीविरतिस्त्रीकान्तिस्त्रीसीतास्त्रीजुगुप्सास्त्रीचिन्तास्त्रीअसूयास्त्रीविभूतिस्त्रीद्युतिस्त्रीतरणिस्त्रीमतिस्त्रीक्षेपणीस्त्रीविष्टिस्त्रीपीडास्त्रीतन्त्रीस्त्रीतन्द्रीस्त्रीविपञ्चिस्त्रीद्रुणिस्त्रीविपणिस्त्रीकृपास्त्रीवेदनास्त्रीमुक्तिस्त्रीविद्यास्त्रीज्योत्स्नास्त्रीवेश्यास्त्रीकलास्त्रीवाच्स्त्रीसरणिस्त्रीविषहरीस्त्रीहूतिस्त्रीकाकूस्त्रीप्रपास्त्रीकथास्त्रीदेवतास्त्रीद्योस्त्रीदिव्स्त्रीढक्कास्त्रीव्रीडास्त्रीअवहित्थास्त्रीसुरभिस्त्रीकुमुदिनीस्त्रीपद्मिनीस्त्रीपूर्णिमास्त्रीतारास्त्रीश्रेणीस्त्रीवीथीस्त्रीअवनिस्त्रीनदीस्त्रीपुष्करिणीस्त्रीअम्बिकास्त्रीनिद्रास्त्रीहेलास्त्रीलीलास्त्रीयुवतिस्त्रीअनुमतिस्त्रीदिश्स्त्रीकुहूस्त्रीपक्षतिस्त्री
genderस्त्रीfem.
निपक्षतिर्द्वितीया स्याद् भूतेष्टा तु चतुर्दशी ।स्त्रीपुंसे तु तिथिः पौर्णमासी पूर्णा च पूर्णिमा ॥ २४१ ॥
अनुष्टुप्
genderस्त्रीfem.
पित्र्या तु पूर्णिमा चान्द्री चन्द्रमाता निरञ्जना ।पूर्णा च पूर्णमासी च पौर्णमासी च पूर्णिका ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णिमा as a meaning in nānārtha verses
- धरणिकोश राकाबकः कह्वे च यक्षेशे पुष्परक्षोविशेषयोः । राकागतरजाः कन्या पूर्णेन्दुपूर्णिमापि च ॥ Dharaṇikośa 1.2.8
- धरणिकोश अनुमतिप्रधूपिता क्लेशिता स्याद्दिशं यास्यति यां रविः । अनुमतिस्त्वनुज्ञा स्यात्पूर्णेन्दुः पूर्णिमा च या ॥ Dharaṇikośa 15.2.65
- धरणिकोश फाल्गुनीफाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा । पावनः सिह्लके वह्नौ पूते पथ्या च पावनी ॥ Dharaṇikośa 19.2.36
- कोषकल्पतरु पौर्णमासीयोषित्तु पूर्णिमायामधिवासः स्यान्निवासेऽपि । संस्कारे गन्धाद्यैर्दशमुखखड्गे तु चन्द्रहासोऽसौ ॥ २२ ॥ Koṣakalpataru 6.31.22
- नानार्थार्णवसंक्षेप राकाराका पुनः स्त्रियां पूर्णचन्द्रे स्यात् पूर्णिमान्तरे । जातार्तवायां कन्यायां रातं तु त्रिषु दाशिते ॥ ११०० ॥ Nānārthārṇavasaṃkṣepa 2.5.1100
- नानार्थार्णवसंक्षेप आश्विनीगन्धद्रव्ये स्त्रियां तु स्यादाश्विनी पूर्णिमान्तरे । अश्विनीतारया युक्ते कासुचिच्चेष्टकासु सा ॥ १८६ ॥ Nānārthārṇavasaṃkṣepa 4.186
- शब्दरत्नावली पक्षिणीइयत्ता परिमाणार्थप्रधानसत्यवादिषु । पक्षिणी पूर्णिमायां स्याद् विहङ्गीशाकिनीभिदोः ॥ Śabdaratnāvalī 7.15.47
- तन्त्राभिधान अंशिरः शम्भुर्नरेशश्च सुखदुःखप्रवर्तकः । पूर्णिमा रेवती शुद्धः कन्याचर(रो) रविर्वियत् ॥ ५१ ॥ Tantrābhidhāna 2.16.51
- त्रिकाण्डशेष राकायाज्ञिको याजके दर्भे बिले रोकं रुचौ पुमान् । राका दृष्टरजःकन्या कच्छपूर्णेन्दुपूर्णिमाः ॥ ३९ ॥ Trikāṇḍaśeṣa 3.3.39
- वैजयन्ती अनन्ताअनन्तो नागराड्विष्णुरनन्तं खनिरन्तयोः । अनन्ता पूर्णिमा दूर्वा यवाषः शारिबा मही ॥ ४ ॥ Vaijayantī 7.5.4