पौर्णमासी
paurṇamāsīस्त्री · fem.In 12 kośas: 10 synonym verses, 1 as a nānārtha head word, 25 as a meaning of another word.
genderस्त्रीfem.
पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
माश्च मासश्च तुल्यौ द्वौ तिथी तिथिरपीष्यते ।पौर्णमासी पूर्णमासी पूर्णिमा पूर्णमा तथा ॥ ३९ ॥
अनुष्टुप्
genderस्त्रीfem.
स पर्वसन्धिरथ च पूर्णमासी तु पूर्णिमा ।पूर्णमा पौर्णमासी च कलाहीने विधौ च सा ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.
राका सा पौर्णमासी तु पूर्णचन्द्रमसि स्मृता ।पौर्णमास्यथ दर्शश्च संगमः सूर्यचन्द्रयोः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णिमा पौर्णमासी स्यात् राका पूर्णे क्षपाकरे ।कलाहीने त्वनुमतिर्मार्गशीर्ष्याऽऽग्रहायणी ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
पूर्णिमा पूर्णमा चान्द्री पौर्णमासी च पौर्णमी ।पुण्यसारा पर्वमुखी धर्मवासर इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderस्त्रीfem.
पूर्णिमायां पौर्णमासी, दर्शेऽमावास्यमावसी ।अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः ॥ ४१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 माऽ (wrong syllable)
genderस्त्रीfem.
निपक्षतिर्द्वितीया स्याद् भूतेष्टा तु चतुर्दशी ।स्त्रीपुंसे तु तिथिः पौर्णमासी पूर्णा च पूर्णिमा ॥ २४१ ॥
अनुष्टुप्
genderस्त्रीfem.
पित्र्या तु पूर्णिमा चान्द्री चन्द्रमाता निरञ्जना ।पूर्णा च पूर्णमासी च पौर्णमासी च पूर्णिका ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
योषित्तु पूर्णिमायामधिवासः स्यान्निवासेऽपि ।संस्कारे गन्धाद्यैर्दशमुखखड्गे तु चन्द्रहासोऽसौ ॥ २२ ॥
उद्गीतिः
meaningsपूर्णिमा
doubtful
पौर्णमासी as a meaning in nānārtha verses
- कोषकल्पतरु पक्षिणीस्यान्नीलिकायां स्त्रीलिङ्गे ग्रामीणा ***** । ग्रामीण उक्तः शुनि वायसे च ग्रामोद्भवे तु त्रिषु पक्षिणी तु । स्याच्छाकिनी पक्षिवधूषु पौर्ण- मासीभवद्भाविदिनस्थरात्र्योः ॥ ४९ ॥ Koṣakalpataru 6.15.49
- कोषकल्पतरु अश्वत्थअश्वत्थ उक्तोऽपि च पौर्णमास्यां नपुंसके त्वम्भसि संप्रदिष्टः । उपस्थ उत्सङ्ग वराङ्गपायु- मेढ्रेषु निःस्वे त्वपि नग्नकेन्द्रे ॥ ११ ॥ Koṣakalpataru 6.18.11
- कोषकल्पतरु फल्गुनस्याद्धायनोऽस्त्री किरणे च वर्षे व्रीहौ तु ना फल्गुनफाल्गुनौ तु । तपस्यमासे हरिसारथौ च नद्यर्जुने स्त्री तु स पौर्णमास्याम् ॥ ४८ ॥ Koṣakalpataru 6.21.48
- कोषकल्पतरु पञ्चदशीस्यात्पौर्णमास्यां च कुहूतिथौ च प्रकीर्तिता पश्चदशी प्रवीणैः । Koṣakalpataru 6.30.34
- नानार्थार्णवसंक्षेप चान्द्रीचान्द्री स्त्री पौर्णमास्यां स्याच्चन्द्रसम्बन्धिनि त्रिषु । चारुर्बृहस्पतौ पुंसि चन्द्रिकायां तु सा स्त्रियाम् ॥ ४१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.413
- नानार्थार्णवसंक्षेप चैत्रीतत्स्थायां पौर्णमास्यां स्याच्चैत्री भेत्ता तु चित्रया । नक्षत्रेण युते कालभेदे चित्राह्वये पुनः ॥ ४३६ ॥ Nānārthārṇavasaṃkṣepa 2.5.436
- नानार्थार्णवसंक्षेप पित्र्याशाकटायन इत्याह पित्र्या पुनरियं स्त्रियाम् । पौर्णमास्यां त्रि तु पितृदैवते पितुरागते ॥ ७७५ ॥ Nānārthārṇavasaṃkṣepa 2.5.775
- नानार्थार्णवसंक्षेप पूर्णपूर्त्तौ च पौर्णमास्यां तु पूर्णा स्त्री स्यात् तिथिष्वपि । पञ्चमीदशमीपञ्चदशीषु तिसृषु त्रि तु ॥ ८०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.802
- नानार्थार्णवसंक्षेप पौषीपौषस्तु तैषमासे ना सामभेदे नपुंसकम् । पौषी तु पौर्णमास्यां स्त्री संयुक्ता पुष्यभेन या ॥ ८२४ ॥ Nānārthārṇavasaṃkṣepa 2.5.824
- नानार्थार्णवसंक्षेप माघीधार्ये माध्यस्तु कुन्दाख्यद्रुमे ना प्रसवेऽस्य नप् । माघसाधौ पुनस्त्रि स्यात् पौर्णमास्यां पुनः स्त्रियाम् ॥ ९८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.987
- नानार्थार्णवसंक्षेप मार्गीवैजयन्त्यां नृस्त्रियोस्तु मार्गा मार्गणकर्मणि । मार्गी तु पौर्णमास्यां स्त्री मार्गशीर्ष्यां त्रिषु त्वियम् ॥ ९९० ॥ Nānārthārṇavasaṃkṣepa 2.5.990
- नानार्थार्णवसंक्षेप मातृअश्विन्यादिषु पौष्याख्यपौर्णमास्यां च सा स्त्रियाम् । मानकारिणि तु त्रि स्यात् स्त्र्यर्थे मात्रीति तत्र च ॥ ९९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.997
- नानार्थार्णवसंक्षेप अनन्तअनन्तः पुंसि विष्णौ स्यान्नागराजे हलायुधे । क्लीबं तु व्योम्न्यनन्ता तु पौर्णमास्यां मरुद्दिशि ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 4.8
- नानार्थार्णवसंक्षेप अश्वत्थाअश्विनीसंज्ञनक्षत्रे स्यान्मुहूर्तान्तरेऽपि च । पौर्णमास्यां त्वाश्वयुज्यामश्वत्था स्यात् स्त्रियामियम् ॥ ६४ ॥ Nānārthārṇavasaṃkṣepa 4.64
- नानार्थार्णवसंक्षेप कार्त्तिकीतथैव कालयितरि कार्त्तिकी तु स्त्रियामियम् । कृत्तिकाख्यर्क्षसंयुक्तपौर्णमास्यां पुमान् पुनः ॥ ४७३ ॥ Nānārthārṇavasaṃkṣepa 4.473
- नानार्थार्णवसंक्षेप पूर्णिकागन्धकीटे तु रभसः कथयत्यथ पूर्णिका । स्त्री पौर्णमास्यां स्यात् पक्षिजातिभेदेऽप्यथ त्रिषु ॥ १२०७ ॥ Nānārthārṇavasaṃkṣepa 4.1207
- नानार्थार्णवसंक्षेप फाल्गुनीस्त्री त्वजायां फलकिनी पौर्णमास्यां तु फाल्गुनी । फल्गुन्या संयुतायां स्त्री सा तु मासेऽस्ति यत्र हि ॥ १२२४ ॥ Nānārthārṇavasaṃkṣepa 4.1224
- नानार्थार्णवसंक्षेप श्रावणीश्रावणः श्रावणी तु स्त्री पौर्णमास्यां हि या भवेत् । श्रवणाह्वयनक्षत्रयुक्ता तस्यां तथा भवेत् ॥ १८२४ ॥ Nānārthārṇavasaṃkṣepa 4.1824
- नानार्थार्णवसंक्षेप अनुमतिपौर्णमास्यां कलाहीनचन्द्रायामजयः पुनः । आम्ले चेति पठत्येनामभिशस्तिपदं पुनः ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 6.6
- नानार्थार्णवसंक्षेप निरञ्जनापौर्णमास्यां द्वयोस्तु स्यात् कृष्णसाराह्वये मृगे । त्रिर्निर्गताञ्जनादौ स्यादथ निर्भर्त्सनं नपि ॥ ३०९ ॥ Nānārthārṇavasaṃkṣepa 6.309
- नानार्थार्णवसंक्षेप मार्गशीर्षीमृगशीर्षभयुक्तायां पौर्णमास्यां पुमान् पुनः । तद्युक्तमासे ना तु स्यान्मातुलुङ्गः सुविश्रुते ॥ ४९९ ॥ Nānārthārṇavasaṃkṣepa 6.499
- नानार्थार्णवसंक्षेप आग्रहायणीतद्युक्ते कालमात्रे च पौर्णमास्यामपि क्वचित् । मार्गशीर्षीति यस्य स्यात् समाख्या भेद्यवत् पुनः ॥ २८ ॥ Nānārthārṇavasaṃkṣepa 7.28
- परमानन्दीयनाममाला पक्षिणीगन्धैणे पक्षिणी पौर्णमासी शाकिन्यपि स्मृता । परिवापोऽसिकोशेऽम्बुस्थाने वपनतन्त्रयोः ॥ ३१५ ॥ Paramānandīyanāmamālā 5.19.315
- शब्दरत्नावली फाल्गुनीफलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु । फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥ मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी । ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः । वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥ बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.62
- शब्दरत्नावली पञ्चदशीजीवितेशः प्राणनाथे यमे विधुविवस्वतोः । नागपाशः स्त्रीकरणे दुर्बुद्धौ वरुणायुधि ॥ पञ्चदशी पौर्णमास्यां अमावस्यातिथावपि । प्रतिष्कशः पुरोगे स्याद्वार्ताहरसहाययोः ॥ परिवेशः सूर्यपार्श्वमण्डले परिवेष्टने । पादपाशी खुतुक्कायां शृङ्खलायामपि स्त्रियाम् ॥ पुरोडाशो हविर्भेदे पिष्टके हुतशेषके । भूमिस्पृक्मानुषे वैश्ये चौरभेदेऽन्धखञ्जयोः ॥ Śabdaratnāvalī 7.30.30