कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भूतात्मन्

bhūtātmanपुं · masc.

In 7 kośas: 1 synonym verse, 6 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.5 · p. 439
अजो जन्युः सामयोनिः शम्भुनाभिज आपचः ।विश्वरेताः सदानन्दो भूतात्मा सनदव्ययम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.105
भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.19 · p. 108
ह्रादिनी वज्रतडितोर्वर्तिनी वृत्तिमार्गयोः ।द्विजन्मा विहगे विप्रे भूतात्मा धातृदेहयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.36 · p. 266
भूतात्मा वपुषि विधौ च संप्रदिष्टोविश्वप्सा हुतभुजि शीतभासि चोक्तः ।शृङ्गारी क्रमुकमतङ्गजे सुवेषेविप्रेन्द्रे धरणिसुरे तु पुंस्यथर्वा ॥ ३६ ॥
प्रहर्षिणी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.171 · p. 26
भुवन्युर्भास्करे वह्नौ भूतात्मा तु विरिञ्चने ।जीवात्मनि शरीरे च पवने चाथ मन्दरः ॥ १७१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.118 · p. 244
प्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः ।पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि ।पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते ।वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि ।महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् ।मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे ।मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable); pāda 3, syllable 3 ज (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.60 · p. 244
भूतात्मा पवने देहे यश्च कर्ता तनौ पुमान् ।राजभेदाहिमार्जारश्वार्कशुक्रेषु मण्डली ॥ ६० ॥
अनुष्टुप्