जन्यु
janyuपुं · masc.In 12 kośas: 11 synonym verses, 4 as a nānārtha head word.
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी ।जीवः स्यादसुमान्सत्वं देहभृज्जन्युजन्तवः ॥ १३६६ ॥
अनुष्टुप्
genderपुंmasc.
प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
जननं च प्रजननं जननिश्च जनिः स्त्रियौ ।उद्भवः सम्भवो भावो भवो जन्युश्च पुंस्यमी ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
अजो जन्युः सामयोनिः शम्भुनाभिज आपचः ।विश्वरेताः सदानन्दो भूतात्मा सनदव्ययम् ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
जीवजन्युं प्राणिनोऽस्मिन्नंशुमान्सत्त्वमस्त्रियाम् ।क्लीबे प्रकाशार्कसत्त्वं रजो ना रञ्जकं रजः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
जन्तुः पुनर्भवी जन्युः सत्त्वं देहभृदप्यसौ ।उत्पत्तिरुद्भवो जन्म जननं जनिरुच्यते ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
आत्मा जीवोंऽशुमाञ्जन्तुर्देही प्राणी च चेतनः ।जन्युः शरीरी पुरुषो हंसः सत्त्वं पुनर्भवा (?) ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
जीवो जन्तुस्तथा जन्युः देहभाक् देहभाग्भवी ॥ २४८३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
लोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि ।जन्यु-जन्तू, उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः ॥ १ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 4 ग (syllables merged)
genderपुंmasc.
उद्भवो जातिरुत्पत्तिर्जनिर्जननजन्मनी ।जनुश्च चेतनो जन्मी जन्तुर्जन्युः शरीरभाक् ॥ १०५५ ॥
अनुष्टुप्
genderपुंmasc.
भूतानि प्राणिनो जीवा जन्तवो जन्यवोऽङ्गिनः ।पुंसः प्राक् त्रिषु गुल्माद्यमुद्भिदुद्भिज्जमुद्भिदम् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
चतुष्पाज्जातिभेदेऽथ जत्रुर्ना घर्ममेघयोः ।क्लीबेऽवसानेंऽससन्धौ जन्युस्तु द्वे शरीरिणि ॥ ४६७ ॥
अनुष्टुप्
meaningsशरीरिन्
अपत्ये च पुमांस्त्वेष प्रादुर्भावे प्रजापतौ ।पितर्यपि जगत् तु क्ली जगतीति स्त्रियामपि ॥ ४६८ ॥
अनुष्टुप्
doubtful
जया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः ।पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् ।जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु ।जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे ।पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् ।द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ले (syllables merged)