All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
त्र्यक्षरकाण्डः · पुंलिङ्गाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां द्व्यक्षरकाण्डे नानालिङ्गाध्यायः
द्व्यक्षरकाण्डस्समाप्तः
त्र्यक्षरकाण्डे पुंलिङ्गाध्यायः
अविनौ विहगाध्वर्यू अरत्नी हस्तकूर्परौ ।अत्ययोऽतिक्रमे कृच्छ्रे मरणे दण्डदोषयोः ॥ १ ॥
7.1.1 · p. 239
अनुष्टुप्
असारः स्यात् प्रसरणे वेगवृष्टौ सुहृद्बले ।आग्रहः स्यात् स्वीकरणे निर्बन्धेऽनुग्रहेऽपि च ॥ २ ॥
7.1.2 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वी (wrong syllable)
आम्नायोऽध्ययने वेदे संप्रदाये कुलेऽपि च ।आकर्षः शारिफलको द्यूत आकृष्टिपाशकौ ॥ ३ ॥
7.1.3 · p. 239
अनुष्टुप्
गन्धमाल्योपहारे स्यादायोगो व्यापृतावपि ।आनर्तो नृत्तशालायां देशभेदे जने युधि ॥ ४ ॥
7.1.4 · p. 239
अनुष्टुप्
आक्रन्दः क्रन्दने रावे नाथे घोररणेऽपि च ।आधार आलवालेंऽबुबन्धेऽधिकरणेऽपि च ॥ ५ ॥
7.1.5 · p. 239
अनुष्टुप्
आशिरः क्षीरविकृतौ भोजने पावके रवौ ।आवापो न्यास आवाले स्मरे धातरि चात्मभूः ॥ ६ ॥
7.1.6 · p. 239
अनुष्टुप्
श्रोण्याञ्चारोह आकारस्त्वाकृतावात्मवैकृते ।आमोदौ हर्षसौगन्ध्ये आभोगौ यत्नपूर्णते ॥ ७ ॥
7.1.7 · p. 239
अनुष्टुप्
आघातौ घातसीमानावाहारौ भक्षणान्धसी ।आलोकौ दर्शनोद्योतावागमौ शास्त्रमागतिः ॥ ८ ॥
7.1.8 · p. 239
अनुष्टुप्
रुग्भीतितापेष्वातङ्क आशुगोऽर्के शरेऽनिले ।तदात्वे पात आपात आकरो निकरे खनौ ॥ ९ ॥
7.1.9 · p. 239
अनुष्टुप्
अप्याकर्षणमाक्षेप आलंभः स्पर्शहिंसयोः ।ईशानौ हरिधातारावुत्सेधौ वपुरुन्नती ॥ १० ॥
7.1.10 · p. 239
अनुष्टुप्
उपाधिर्धर्मचिन्तायां कुडुंबव्यापृतेऽपि च ।उत्सवस्त्विच्छाप्रसर उत्सेधामर्षयोर्महे ॥ ११ ॥
7.1.11 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छा (wrong syllable)
उदर्क उत्तरे काले यच्च स्यात्फलमुत्तरम् ।उदान उदरावर्ते सर्पवायुप्रभेदयोः ॥ १२ ॥
7.1.12 · p. 240
अनुष्टुप्
ऊर्णायुरूर्णनाभे स्यान्मेषतल्लोमकंबले ।ऋषभोऽग्र्ये मत्तगजे श्रोत्ररन्ध्रे स्वरे वृषे ॥ १३ ॥
7.1.13 · p. 240
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
कुंभीरपुच्छे च जलस्थाने त्वृक्षर ऋत्विजि ।वेणौ द्रुमांगे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः ॥ १४ ॥
7.1.14 · p. 240
अनुष्टुप्
कञ्चुकः सर्पनिर्मोके कवचे वारवाणके ।कलापो भूषणे कांच्यां संघाते बर्हतूणयोः ॥ १५ ॥
7.1.15 · p. 240
अनुष्टुप्
क्षारको मत्स्यपक्ष्यादिपिटके पुष्पजालके ।दैवे कृतान्तः सिद्धान्ते यमाकुशलकर्मणोः ॥ १६ ॥
7.1.16 · p. 240
अनुष्टुप्
कौशिको गुल्गुलूलूकशक्रर्षिष्वाहितुण्डिके ।कलंकोंऽकेऽपवादे च कलहो द्वन्द्वयुद्धयोः ॥ १७ ॥
7.1.17 · p. 240
अनुष्टुप्
कलमोंऽकुरलेखन्योः कठाकुः खगशिल्पिनोः ।कारुजः कलभे नाके क्षवथुः क्षुतकासयोः ॥ १८ ॥
7.1.18 · p. 240
अनुष्टुप्
कर्परोऽग्नौ कपालेऽपि करभोऽपि खरोष्ट्रयोः ।शरे किंशारुकादंबौ कुरण्डस्तु झषेऽपि च ॥ १९ ॥
7.1.19 · p. 240
अनुष्टुप्
कुटीरस्तु कुलीरेऽपि कुंभीलस्तस्करेऽपि च ।कपोतः पारावतेऽपि कोकिलस्तूल्मुकेऽपि च ॥ २० ॥
7.1.20 · p. 240
अनुष्टुप्
वायौ वसन्ते क्षिपणुः क्षिपणो वायुकालयोः ।कुषाकुः पावके सूर्ये केसरी हयसिंहयोः ॥ २१ ॥
7.1.21 · p. 240
अनुष्टुप्
किंखिरौ क्रोष्टुखट्वाङ्गौ खेचरः पवनेऽपि च ।खपुरः पूगवेष्टेऽपि पूगनिर्यासयोरपि ॥ २२ ॥
7.1.22 · p. 240
अनुष्टुप्
खोलकः पूगकोशे स्यात् भग्नभाण्डे शिरस्त्रके ।गोलको मणिके पिण्डे कंबले विधवासुते ॥ २३ ॥
7.1.23 · p. 240
अनुष्टुप्
अन्तराभवसत्त्वे स्याद्गन्धर्वो गायने हये ।गरुत्मान्विहगे तार्क्ष्ये वृषार्केन्द्रेषु गोपतिः ॥ २४ ॥
7.1.24 · p. 241
अनुष्टुप्
चङ्कुरः स्यन्दने दैत्ये चाक्रिकौ तैलघाण्टिकौ ।चिकिरोऽहौ गेहबभ्रौ जसुरिः पावके शनौ ॥ २५ ॥
7.1.25 · p. 241
अनुष्टुप्
जंबुकौ क्रोष्टुवरुणौ जंबालौ पंकशैवलौ ।श्वेतस्तिलोऽपि जामाता जीमूतौ मेघपर्वतौ ॥ २६ ॥
7.1.26 · p. 241
अनुष्टुप्
जगलो मेदके पिष्टमद्येऽपि कितवेऽपि च ।जनिमा मातापितरावुत्पत्तिस्तनयोऽपि च ॥ २७ ॥
7.1.27 · p. 241
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ता (wrong syllable)
त्रिवर्गस्त्रिफला व्योषं स्थितिवृद्धिक्षया अपि ।तमोनुदोऽग्निचन्द्रार्कास्तक्षकौ नागवर्धकी ॥ २८ ॥
7.1.28 · p. 241
अनुष्टुप्
तपनो भास्करे ग्रीष्मे त्रिदिवो व्योम्नि दिव्यपि ।त्रिशंकू तार्क्ष्यमार्जारौ त्रिधामा केशवेऽनले ॥ २९ ॥
7.1.29 · p. 241
अनुष्टुप्
सपिण्डपुत्रौ दायादौ द्वापरौ युगसंशयौ ।दिवौकाश्चातके देवे द्रुघणौ धातृमुद्गरौ ॥ ३० ॥
7.1.30 · p. 241
अनुष्टुप्
दरथो विवरे भीत्यां दिक्षु चापि प्रसारणे ।द्विजातिश्च द्विजन्मा च ब्राह्मणादिपतत्रिणोः ॥ ३१ ॥
7.1.31 · p. 241
अनुष्टुप्
द्रुहिणौ हरिधातारौ शास्त्रोदाहरणयोस्तु दृष्टान्तः ।दोषज्ञौ बुधभिषजौ धरुणाः स्तनधातृलोकार्काः ॥ ३२ ॥
7.1.32 · p. 241
आर्या
धाराटश्चातकेऽश्वे च नभसौ व्योमसागरौ ।निवेशौ शिबिरोद्वाहौ निरोधौ रोधसंक्षयौ ॥ ३३ ॥
7.1.33 · p. 241
अनुष्टुप्
निदेशावाज्ञाकथने निग्रहः सीम्नि भर्त्सने ।निवहो वायुभेदेऽपि निषङ्गस्तूणसंगयोः ॥ ३४ ॥
7.1.34 · p. 241
अनुष्टुप्
ऊर्णाविकारे नमतो धूमे दिनकरेऽपि च ।निगमो निश्चये वेदे पुरे पथि वणिक्पथे ॥ ३५ ॥
7.1.35 · p. 241
अनुष्टुप्
नितंबः पश्चिमश्रोणिभागेऽद्रिकटके कटौ ।निष्क्रमो बुद्धिसामर्थ्ये निर्गतौ चाथ भूपतौ ॥ ३६ ॥
7.1.36 · p. 242
अनुष्टुप्
नरेन्द्रो विषवैद्ये च नैगमस्तु श्रुतावपि ।निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ ३७ ॥
7.1.37 · p. 242
अनुष्टुप्
द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ।निषधोऽद्रौ देशभेदे कठिने तस्य राजनि ॥ ३८ ॥
7.1.38 · p. 242
अनुष्टुप्
निह्नवः स्यादविश्वासेऽपह्नवे निकृतावपि ।निर्वेशः सम्मूर्छने स्यात् कर्मभृत्युपभोगयोः ॥ ३९ ॥
7.1.39 · p. 242
अनुष्टुप्
प्रतिज्ञायन्त्रणाज्ञासु नियमो निश्चये व्रते ।पतंगः शलभे शालौ मार्जारेऽग्नौ रवौ खगे ॥ ४० ॥
7.1.40 · p. 242
अनुष्टुप्
परिधिर्यज्ञिये काष्ठे प्राकारे परिवेषणे ।परिघाते मूढगर्भे परिघोऽर्गलदण्डयोः ॥ ४१ ॥
7.1.41 · p. 242
अनुष्टुप्
परागः पुष्परेणौ च स्नानीयादौ रजस्यपि ।पर्जन्यो गर्जदभ्रेऽभ्रध्वाने शक्रेऽस्त्रयन्त्रके ॥ ४२ ॥
7.1.42 · p. 242
अनुष्टुप्
प्रलयो मरणे श्लेषे मूर्छासंवर्तयोरपि ।प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ४३ ॥
7.1.43 · p. 242
अनुष्टुप्
प्रयोगो ग्राम्यधर्मे स्यात् कुसीदे कर्मणां विधौ ।प्रणयः स्यात् परिचये याच्ञायां सौहृदेऽपि च ॥ ४४ ॥
7.1.44 · p. 242
अनुष्टुप्
प्रवाहस्तु प्रकृष्टाश्वे जलवेगे प्रवर्तने ।पादपः पादपीठे स्यात् पादयाने द्रुमेऽपि च ॥ ४५ ॥
7.1.45 · p. 242
अनुष्टुप्
पिण्याकः सिह्लके किण्वे श्रीवासतिलकल्कयोः ।पुरुषो धातृपुन्नागपुंस्वात्मपरमात्मनोः ॥ ४६ ॥
7.1.46 · p. 242
अनुष्टुप्
पुलकोऽस्त्रे रत्नराज्यां रोमांचे हीरके क्रिमौ ।पुलाकस्तुच्छधान्ये स्यात् संक्षेपे भक्तसिक्थके ॥ ४७ ॥
7.1.47 · p. 242
अनुष्टुप्
प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः ।पारंपर्ये प्रसंगेऽपि प्राणिनां गर्भमोचने ॥ ४८ ॥
7.1.48 · p. 243
अनुष्टुप्
तुलासूत्रेऽश्वादिरश्मौ प्रग्रहः प्रग्रहः पुनः ।तयोश्च संयमोद्योतपूजाबन्द्यर्ग्वधेषु च ॥ ४९ ॥
7.1.49 · p. 243
अनुष्टुप्
प्रभवः स्यादपां मूले विक्रमे जन्मकारणे ।आद्योपलब्धिस्थाने च पुद्गलो देह आत्मनि ॥ ५० ॥
7.1.50 · p. 243
अनुष्टुप्
प्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु ।विज्ञाने शपथे शब्दे प्रस्तरोऽश्मा मणिः कुशः ॥ ५१ ॥
7.1.51 · p. 243
अनुष्टुप्
पर्यस्त्यामपि पर्यंकः प्रकोष्ठोऽलिन्दकेऽपि च ।गजस्कन्धेऽपि पणवः प्रघणौ लोहमुद्गरौ ॥ ५२ ॥
7.1.52 · p. 243
अनुष्टुप्
प्रियकः कृकलासेऽपि पेचकस्त्वचि हस्तिनाम् ।पुच्छमूले प्रपातस्तु पाते रोधसि सौप्तिके ॥ ५३ ॥
7.1.53 · p. 243
अनुष्टुप्
पदाजिर्युधि मार्गे च रक्षोवृक्षौ पलाशिनौ ।प्रतिघौ रुट्प्रतीघातौ प्रतापौ पौरुषातपौ ॥ ५४ ॥
7.1.54 · p. 243
अनुष्टुप्
प्रसादौ स्वाच्छयानुरोधौ पर्यायोऽवसरे क्रमे ।प्रदोषौ दोषरात्र्यंशौ प्रणिधिः प्रार्थने चरे ॥ ५५ ॥
7.1.55 · p. 243
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वरुणेऽनले प्रचेताः प्रतापमाहात्म्ययोः प्रभावः स्यात् ।भेदसमते प्रकारौ विपर्यये विस्तरे प्रपञ्चः स्यात् ॥ ५६ ॥
7.1.56 · p. 243
गीतिः
रुग्भङ्गबाणाः प्रदराः श्रेष्ठोक्षाणौ तु पुङ्गवौ ।पिशाचौ सत्त्वमार्जारौ पिचण्डः कुक्षिशय्ययोः ॥ ५७ ॥
7.1.57 · p. 243
अनुष्टुप्
पृथुकश्चिपिटे बाले पृदाकुर्व्याघ्रसर्पयोः ।भासन्तावर्कनक्षत्रे सूर्यश्चाग्निश्च भास्करौ ॥ ५८ ॥
7.1.58 · p. 243
अनुष्टुप्
भ्रातृव्यौ भ्रातृजामित्रौ भुरण्यू विष्णुभास्करौ ।भूमिस्पृशौ वैश्यनरौ भुवन्यौ वह्निभास्करौ ॥ ५९ ॥
7.1.59 · p. 243
अनुष्टुप्
भूतात्मा पवने देहे यश्च कर्ता तनौ पुमान् ।राजभेदाहिमार्जारश्वार्कशुक्रेषु मण्डली ॥ ६० ॥
7.1.60 · p. 244
अनुष्टुप्
धुर्तूरे सर्पभेदे च मातुलो मदनः पुनः ।सिक्थे वसन्ते धुर्तुरे कन्दर्पेऽप्यथ माधवः ॥ ६१ ॥
7.1.61 · p. 244
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
विष्णौ वसन्ते वैशाखे मरूकौ भेककेकिनौ ।मिहिरा वायुमेघार्का यज्वरौ तु हयाध्वरौ ॥ ६२ ॥
7.1.62 · p. 244
अनुष्टुप्
युञ्जानः सारथौ विप्रे रभसो विषवेगयोः ।रक्ताक्षौ रक्षोमहिषौ रमती स्वर्गमन्मथौ ॥ ६३ ॥
7.1.63 · p. 244
अनुष्टुप्
रुचको भूषणे दन्ते रुवथः कुक्कुटे ध्वनौ ।वञ्चथः कोकिले काले वर्तकोऽश्वखुरे खगे ॥ ६४ ॥
7.1.64 · p. 244
अनुष्टुप्
व्यवायो मैथुनेऽन्तर्धौ चित्रे दर्पे च विस्मयः ।वाहसौ वह्न्यजगरौ द्रुप्रवालौ तु विद्रुमौ ॥ ६५ ॥
7.1.65 · p. 244
अनुष्टुप्
विस्रंभौ स्नेहविश्वासौ विबुधौ सुरपण्डितौ ।विकारौ रोगविकृती विष्किरौ शिखिकुक्कुटौ ॥ ६६ ॥
7.1.66 · p. 244
अनुष्टुप्
रहःप्रकाशौ वीकाशौ विपाकः स्वेदपाकयोः ।विश्वात्मार्केऽपि विष्कंभो विस्तारप्रतिबन्धयोः ॥ ६७ ॥
7.1.67 · p. 244
अनुष्टुप्
स्पर्धायां पौरुषे व्यामे व्यायामोऽथ परिक्रमे ।विहारः सौगतावासे क्रीडायाञ्चाथ विग्रहः ॥ ६८ ॥
7.1.68 · p. 244
अनुष्टुप्
युद्धे देहे विस्तरे च कुशमुष्टौ च विष्टरः ।विभ्रमः संशये भ्रान्तौ शोभायां चाथ वालुका ॥ ६९ ॥
7.1.69 · p. 244
अनुष्टुप्
विकीर्णोऽर्थश्च विकिरौ विसर्गौ मुक्तिवर्चसी ।विनयो धर्मविद्याधीशिक्षाचारप्रशान्तिषु ॥ ७० ॥
7.1.70 · p. 244
अनुष्टुप्
विवधो वीवधश्च द्वौ पर्याहारेऽध्वभारयोः ।वृत्तान्तः स्यात् प्रकरणे कार्त्स्न्ये वार्ताप्रकारयोः ॥ ७१ ॥
7.1.71 · p. 244
अनुष्टुप्
वासरौ नागदिवसौ वैकुण्ठाविन्द्रकेशवौ ।विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ ७२ ॥
7.1.72 · p. 245
अनुष्टुप्
शपथः कर आक्रोशे शपने च सुतादिभिः ।बालके शिंशुमारे च शिशुकोऽथाध्वरे पशौ ॥ ७३ ॥
7.1.73 · p. 245
अनुष्टुप्
अध्वर्यौ च श्रपाय्यः स्याच्छकुन्तौ भासपक्षिणौ ।कक्ष्यान्तरेऽपि शुद्धान्तः श्वशुर्यौ स्यालदेवरौ ॥ ७४ ॥
7.1.74 · p. 245
अनुष्टुप्
मन्त्री सहायः सचिवः सहुरी वृषभास्करौ ।स्यमीकौ वृक्षवल्मीकौ समीकौ मिथुनार्णवौ ॥ ७५ ॥
7.1.75 · p. 245
अनुष्टुप्
सरण्यू वायुजलदौ संस्तरौ प्रस्तराध्वरौ ।क्षये रोधे च संरोधः संवर्तोऽब्दे जगत्क्षये ॥ ७६ ॥
7.1.76 · p. 245
अनुष्टुप्
संघर्षौ घर्षणं स्पर्धा शरखड्गौ तु सायकौ ।समिकौ वृक्षवल्मीकौ सृदाकू व्याघ्रपावकौ ॥ ७७ ॥
7.1.77 · p. 245
अनुष्टुप्
सविता सारथौ रुद्रे पितर्यर्के सुजातिभिः ।सन्निवेशे गणे गेहे संस्त्यायः संग्रहाः पुनः ॥ ७८ ॥
7.1.78 · p. 245
अनुष्टुप्
स्वीकारोच्छ्रायसंक्षेपाः संभ्रमोऽत्यादरे भये ।संभवो जन्मसंहत्योराधारानतिरेचने ॥ ७९ ॥
7.1.79 · p. 245
अनुष्टुप्
आधेयस्याथ संभोगो भोगे करिकरे रते ।प्रत्यक्षे सन्निधाने च सन्निधिः स्थपतिः पुनः ॥ ८० ॥
7.1.80 · p. 245
अनुष्टुप्
स्थापत्येऽधिपतौ तक्ष्णि बृहस्पतिसवी च यः ।समाधिर्ध्याननीवाकप्रतिज्ञासु समर्थने ॥ ८१ ॥
7.1.81 · p. 245
अनुष्टुप्
सन्नयः समवाये च पृष्ठस्थायिबलेऽपि च ।समयस्तु क्रियाकारे संकेते चरिते सताम् ॥ ८२ ॥
7.1.82 · p. 245
अनुष्टुप्
सिद्धान्ते शपथे काले स्वाध्यायो जपवेदयोः ।सारसो विहगे चन्द्रे हिमारिः पावके रवौ ॥ ८३ ॥
7.1.83 · p. 245
अनुष्टुप्