पवन
pavanaपुं · masc.In 18 kośas: 33 synonym verses, 7 as a nānārtha head word, 29 as a meaning of another word.
genderक्लीneut.
वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनिलश्वसनाः समीरणः ।वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः ॥ ११०६ ॥मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः ।मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥ ११०७ ॥
metre not recognised
genderपुंmasc.
genderक्लीneut.
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderपुंmasc.
genderक्लीneut.
पवनः श्वसनो वायुर्मरुदनिलो मारुतो जगत्प्राणः ।पृषदश्वः पवमानः प्रभञ्जनः स्पर्शनो वातः ॥ ७५ ॥
आर्या
genderपुंmasc.
शरमार्गणबाणेषुसायकानिलमारुतः ।समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
मुशलोप्यथ कण्डन्यामुदुलूभ्यां खलस्त्रिषु ।स्यात् क्लीबे पवनं शूर्पं सूर्पं प्रस्फोटनं पुनः ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
गोधूमजं पिष्टिकोत्थं पवनं तण्डुलोद्भवम् ।वनगोदुग्धजं चापि पयः क्षीरमथापि च ॥ ३६८ ॥
अनुष्टुप्
genderक्लीneut.
निर्णेजकः कर्मकीलो रजकः पवनिश्च सः ।पवनो वस्त्रपावोऽथ शुण्डारः शुण्डिशौण्डिकौ ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
लवो निलावो लवने निः पावः पवनं पवः ।स्यात्प्रस्तावस्त्ववसरः प्रश्रयप्रणयौ समौ ॥ ६६ ॥
अनुष्टुप्
genderक्लीneut.
शुचिर्नभस्वत्पवनपवमानप्रभञ्जनाः ।वाहो मरुल्लोहघनः पश्चिमोत्तरदिक्पतिः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
मरुन्-मरुत-मारुत-श्वसन-गन्धवाहानिलाःसमीर-समिराशुग-क्षिपणवोऽङ्कतीश्चाञ्चतिः ।समीरण-सदागती वहति-शुक्षि-वाताहतिर्-नभस्वति महाबलः पवन-धूक-वीकाभृमिः ॥ १५३ ॥
पृथ्वी
genderपुंmasc.
ईतिः स्त्रियां धान्यविघ्ने धान्यसंघे तु सास्यकम् ।वाटभङ्गस्तु शस्यानां नखेन ग्रहणं भवेत् ।प्रस्फोटनं तु पवन[129b]मवघातस्तु कण्डनम् ।अयोग्रं मुसलं न स्त्री मुशलं मुषलं… ॥ ५३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
चायः प्रचायो विचयः पुष्पादेर्ग्रहणे मताः ।चौर्यग्रहे तु प्रचयो निष्पावः पवनं पवः ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
पवनः पवमानश्च वायुर्वातोऽनिलो मरुत् ।समीरणो गन्धवाहः श्वसनश्च सदागतिः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
वरुणः पवनश्रीदावीशानोऽथ दिशां गजाः ।ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्ज[नः] ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
तितउश्चालनी चाथ शूर्पप्रस्फोटने समे ।प्रस्फोटनं तु पवनेऽवघातः कण्डनं पुनः ॥ २९६ ॥
अनुष्टुप्
genderक्लीneut.
समीरः पवनो नित्यगतिः कम्पाकमारुतौ ।[30] पृषदश्वो जगत्प्राणो नभस्वाननिलो मरुत् ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
सदागतिर्जगत्प्राणो नभस्वान्पवनोऽनिलः ।श्वसनः पवमानश्च पृषदश्वः प्रकम्पनः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
genderक्लीneut.
वायुर्वाहो वहो वातः प्रकम्पनः प्रभञ्जनः ।पवनः पवमानश्च दैत्यदेवः सुरालयः ॥ १९३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्प (wrong syllable)
genderपुंmasc.
निष्पावः पवनं चैव पवो नाम तृतीयकम् ॥ २७७१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पृषदश्वो मातरिश्वा समीरः पवनानिलौ ।खश्वास आशुगो बाहो धूलिध्वजः फणिप्रियः ।मरुत्वातिर्नभः प्राणो भोगिकान्तः सदागतिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 4, syllable 3 ध्व (wrong syllable)
genderपुंmasc.
धान्यादीनां छेदनेऽभिलावश्च लवनं लवः ।धान्यादिनिर्वुषीकार्ये बहुलीकरणादिषु ।तथा च पूतीकरणे निष्पावः पवनं पवः ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शबलवर्णेऽपि सरट्-सरडौ टान्त-डान्तगौ ।लघट् च लघिटिः पविः पवनः पवमानवत् ॥ ११९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ब (wrong syllable); pāda 3, syllable 7 प (wrong syllable)
genderपुंmasc.
लवने लवा-भिलावौ, निष्पावे पवनं पवः ।थूत्कृते ष्ठीवनं ष्ठ्यूत-निष्ठेव-ष्ठेवनानि च ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
genderक्लीneut.
पवनसमीरसमीरणमारुतपृषदश्ववायुगन्धवहाः ।स्पर्शनपवमानानिलवातमरुच्छ्वसनमातरिश्वानः ॥ १२५ ॥
गीतिः
genderपुंmasc.
शः शकारोऽथ विधाता कुमारश्चैव मन्मथः ।श्रीकण्ठः पवनो देवो वामोरुः कामरूपकः ।विशेषः कामरूपी च सौख्यदाता शुचिस्तथा ॥ ५५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आशुगः पवनः स्पर्शः पवमानः प्रभञ्जनः ।मरुद्धूलिध्वजो मर्कः समीरोऽग्निसखश्चलः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
पयोदान्ते तु पवनो वसन्तेऽमलपालिकः ।गरवायुर्निदाघेऽल्पः शिशिरे सपुटानिलः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् ।फलीकृतस्तण्डुलः स्याद्धान्यानां तु तुषस्त्वचि ॥ ६६ ॥
अनुष्टुप्
genderक्लीneut.
संस्तवः स्यात्परिचय उदजः प्रेषणे पशोः ।पवनं पवनिष्पावौ जूतिस्तु जवनं जवः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ ।पाकस्थानं कुलालस्य पवनं पवनो मरुत् ॥
अनुष्टुप्
कुले विनाशे प्रधनं तु युद्धेस्यादारुणेऽथो पवनोऽनिले स्यात् ।कुलालपाकस्थलवल्लयोश्चबीजाहितौ स्याद्वपनं च वापे ॥ १७ ॥
उपजातिः
पवक्रियासाधनेऽथ प्रधात्वर्थे नपुंसकम् ।पाकस्थाने कुलालस्याप्यथ स्यात् पत्रकं नपि ॥ १०७१ ॥
अनुष्टुप्
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
पवन as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् मरुत्हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ । Amarakośa 3.3.116
- कल्पद्रुकोशः खलजीवः प्राणेषु केदारे वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १९७ ॥ Kalpadrukośa 3.5.197
- कोषकल्पतरु वातवातं प्रवाते पवने तु पुंसि तूस्तं जटाधूलिरजःसु पापे । अस्तः पुमान्पश्चिमपर्वतेऽथ क्षिप्ते गते स्यादिह भेद्यलिङ्गः ॥ २७ ॥ Koṣakalpataru 6.16.27
- कोषकल्पतरु सदागतिसदागतिः स्यात्पवने सदीशे खगे हिमारातिरिहानलेऽर्के । पदाप्तिवार्तागुरुताप्रबोध- प्रागल्भ्यकेषु प्रतिपत्तिरुक्ता ॥ ७३ ॥ Koṣakalpataru 6.17.73
- कोषकल्पतरु सोमतद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरः संपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ । अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौ वित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥ Koṣakalpataru 6.25.64
- कोषकल्पतरु निष्पावनिष्पावः पवने च शूर्पपवने स्याद्राजमाषे तथा शिम्ब्यां स्यादपि निर्विकल्पविषये सुग्रीव उक्तः पुनः । वालिभ्रातरि वाच्यवत्तु गदितोऽसौ शोभनग्रीवके राजीवस्तु मृगे झषे निगदितः स्याद्रागजीविन्यपि ॥ २८ ॥ Koṣakalpataru 6.29.28
- कोषकल्पतरु बलदेवअनुभावो रसकार्ये विनिर्णये स्यात्प्रभावेऽपि । सौनन्दिनि बलदेवः पवने स्त्री त्रायमाणायाम् ॥ ३७ ॥ Koṣakalpataru 6.29.37
- नानार्थार्णवसंक्षेप अणुस्त्री तु पुष्पवतीभूम्योरणुस्तु पवने पुमान् । परमाणौ धान्यभेदे सामुद्रलवणे तु नप् ॥ ५५ ॥ Nānārthārṇavasaṃkṣepa 2.5.55
- नानार्थार्णवसंक्षेप पूतिदुःखदुर्गन्धयोश्च स्याद् दुर्गन्धवति तु त्रिषु । पवनाख्यक्रियायां तु स्त्री कुन्त्यां तु पृथा स्त्रियाम् ॥ ८०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.806
- नानार्थार्णवसंक्षेप मरुत्मरुत् तु ना देवभेदे पवने शिखरे गिरेः । केचित् तु मरुदेशेऽपि रूपे चर्त्विजि नप् पुनः ॥ ९७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.972
- नानार्थार्णवसंक्षेप निष्पावश्वेतशिम्बौ च निष्पूतिक्रियायां रभसः पुनः । कडङ्गरे तथा प्राह पबने निर्विकल्पके ॥ ११२ ॥ Nānārthārṇavasaṃkṣepa 3.2.112
- नानार्थार्णवसंक्षेप भूतात्मन्भुवन्युर्भास्करे वह्नौ भूतात्मा तु विरिञ्चने । जीवात्मनि शरीरे च पवने चाथ मन्दरः ॥ १७१ ॥ Nānārthārṇavasaṃkṣepa 3.2.171
- नानार्थार्णवसंक्षेप चञ्चलतेनैव करिपिप्पल्यां चपलाथ त्रि चञ्चलः । चले विद्युति तु स्त्री स्याल्लक्ष्म्यां च पवने तु ना ॥ ७०८ ॥ Nānārthārṇavasaṃkṣepa 4.708
- नानार्थार्णवसंक्षेप पवित्रपावके पवने सोमे घृणौ यवविवस्वतोः । त्रि तु पूते क्ली तु ताम्रे गोमये सलिले कुशे ॥ १०५२ ॥ Nānārthārṇavasaṃkṣepa 4.1052
- नानार्थार्णवसंक्षेप पतेरनपुंसकं तु विज्ञेयं पादालिन्दे विचक्षणैः । पतेरस्तु पुमाञ्ज्ञेयः पवने द्वे तु पक्षिणि ॥ १०७७ ॥ Nānārthārṇavasaṃkṣepa 4.1077
- नानार्थार्णवसंक्षेप स्पर्शनस्पर्शनं तु नपि स्पृष्टौ दाने च प(त ? व)ने तु ना । अना तु स्पर्शयत्यर्थे स्पर्शना परिकीर्तिता ॥ १८७७ ॥ Nānārthārṇavasaṃkṣepa 4.1877
- शब्दरत्नावली आशुगअपाङ्गो लोचनान्ते स्यात् तिलके चाङ्गहीनके । आभोगः पूर्णतायान्तु यत्ने छत्रे च वारुले ॥ आयोगः व्यापृतौ तीरे गन्धमाल्योपहारके । आशुगः पवने बाणे तीव्रे सत्वरगन्तरि ॥ Śabdaratnāvalī 7.3.31
- शब्दरत्नावली स्पर्शनसन्तानो गोत्रसन्तत्योरपत्ये च सुरद्रुमे । स्पर्शनं पवने पुंसि क्लीबं स्यात्स्पर्शदानयोः ॥ Śabdaratnāvalī 7.20.90
- शब्दरत्नावली पपकारं पवने ख्यातं पा पाने पाश्च पातरि । Śabdaratnāvalī 7.21.1
- शब्दरत्नावली कृपीटपालस्यादासुतीवलः पुंसि कल्पपालकयज्वनोः । भवेदुद्दण्डपालस्तु मत्स्यसर्पविशेषयोः ॥ स्यादेककुण्डलः पुंसि बलभद्रकुबेरयोः । कृपीटपालः पवने नीरधौकेनिपातके ॥ स्यात्तु पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः । भवेत्सुरतताली स्त्री दूतिकामौलिमालयोः ॥ Śabdaratnāvalī 7.28.114
- शब्दरत्नावली ववकारः पवने वाहौ वरुणे मन्त्रणेऽपि च । कल्याणे बलवत्यश्वे वसतौ वरुणालये । वो गन्धने गतौ वाले तन्त्रवायकुविन्दयोः ॥ Śabdaratnāvalī 7.29.1
- शब्दरत्नावली हंसहंसो निर्लोभनृपतौ परमात्मनि मत्सरे । विष्ण्वर्कयोगिभिन्मन्त्रशरीरपवनेषु च ॥ Śabdaratnāvalī 7.32.12
- शब्दरत्नाकर निष्पावअथारतिश्चोपरतिर्विरतिः स्यादुपारतिः । लवो लावश्च लवने निष्पावः पवने पवः ॥ १७२८ ॥ Śabdaratnākara 3.7.1728
- तन्त्राभिधान ययकारः पवनः काली पुरुषोत्तम एव च । रोऽसुः पञ्चकसीशोऽग्निरङ्कुशं परगुर्विणी ॥ २५ ॥ Tantrābhidhāna 1.25
- तन्त्राभिधान पदक्षपार्श्वश्च सेनानीर्मरीचिः पवनः शनिः । उड्डीशं जयिनी कुम्भोऽलसो रेखाः च मोहकः ॥ १२३ ॥ Tantrābhidhāna 2.38.123
- तन्त्राभिधान पपवने पः समाख्यातः पाः पाने पाश्च पातरि । कफे वाते फ-कारः स्यात्तथाह्वाने प्रकीर्त्तितः ॥ २४ ॥ Tantrābhidhāna 3.24
- वैजयन्ती च्युपचटुश्चाटुश्च राजादिस्तुतौ पशुपिचिंडके । चक्री विष्णौ कुलालेऽहौ च्युपौ पवनसंक्रमौ ॥ २३ ॥ Vaijayantī 6.1.23
- वैजयन्ती खेचरकिंखिरौ क्रोष्टुखट्वाङ्गौ खेचरः पवनेऽपि च । खपुरः पूगवेष्टेऽपि पूगनिर्यासयोरपि ॥ २२ ॥ Vaijayantī 7.1.22
- वैजयन्ती भूतात्मन्भूतात्मा पवने देहे यश्च कर्ता तनौ पुमान् । राजभेदाहिमार्जारश्वार्कशुक्रेषु मण्डली ॥ ६० ॥ Vaijayantī 7.1.60